Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 41 To 50.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 41.

    अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः।
    गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम्॥ ६.०४१.०१

    या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम्।
    तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः॥ ६.०४१.०२

    एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः।
    एतं पिब हरिवः स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम्॥ ६.०४१.०३

    सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय।
    एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व॥ ६.०४१.०४

    ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति।
    शतक्रतो मादयस्वा सुतेषु प्रास्माँ अव पृतनासु प्र विक्षु॥ ६.०४१.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 42.

    प्रत्यस्मै पिपीषते विश्वानि विदुषे भर।
    अरंगमाय जग्मयेऽपश्चाद्दघ्वने नरे॥ ६.०४२.०१

    एमेनं प्रत्येतन सोमेभिः सोमपातमम्।
    अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः॥ ६.०४२.०२

    यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ।
    वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते॥ ६.०४२.०३

    अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम्।
    कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत्॥ ६.०४२.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 43.

    यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः।
    अयं स सोम इन्द्र ते सुतः पिब॥ ६.०४३.०१

    यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे।
    अयं स सोम इन्द्र ते सुतः पिब॥ ६.०४३.०२

    यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः।
    अयं स सोम इन्द्र ते सुतः पिब॥ ६.०४३.०३

    यस्य मन्दानो अन्धसो माघोनं दधिषे शवः।
    अयं स सोम इन्द्र ते सुतः पिब॥ ६.०४३.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 44.

    यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः।
    सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः॥ ६.०४४.०१

    यः शग्मस्तुविशग्म ते रायो दामा मतीनाम्।
    सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः॥ ६.०४४.०२

    येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः।
    सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः॥ ६.०४४.०३

    त्यमु वो अप्रहणं गृणीषे शवसस्पतिम्।
    इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम्॥ ६.०४४.०४

    यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः।
    तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः॥ ६.०४४.०५

    तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि।
    विपो न यस्योतयो वि यद्रोहन्ति सक्षितः॥ ६.०४४.०६

    अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत्।
    ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः॥ ६.०४४.०७

    ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन्।
    दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः॥ ६.०४४.०८

    द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः।
    वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्माँ अविड्ढि॥ ६.०४४.०९

    इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः।
    नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः॥ ६.०४४.१०

    मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम।
    पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः॥ ६.०४४.११

    उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या।
    त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः॥ ६.०४४.१२

    अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा।
    यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम्॥ ६.०४४.१३

    अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान।
    तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै॥ ६.०४४.१४

    पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः।
    गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः॥ ६.०४४.१५

    इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि।
    मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः॥ ६.०४४.१६

    एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान्।
    अभिषेणाँ अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च॥ ६.०४४.१७

    आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः।
    अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम्॥ ६.०४४.१८

    आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः।
    अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु॥ ६.०४४.१९

    आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः।
    इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम्॥ ६.०४४.२०

    वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभः स्तियानाम्।
    वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय॥ ६.०४४.२१

    अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत्।
    अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः॥ ६.०४४.२२

    अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः।
    अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम्॥ ६.०४४.२३

    अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम्।
    अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम्॥ ६.०४४.२४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 45.

    य आनयत्परावतः सुनीती तुर्वशं यदुम्।
    इन्द्रः स नो युवा सखा॥ ६.०४५.०१

    अविप्रे चिद्वयो दधदनाशुना चिदर्वता।
    इन्द्रो जेता हितं धनम्॥ ६.०४५.०२

    महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः।
    नास्य क्षीयन्त ऊतयः॥ ६.०४५.०३

    सखायो ब्रह्मवाहसेऽर्चत प्र च गायत।
    स हि नः प्रमतिर्मही॥ ६.०४५.०४

    त्वमेकस्य वृत्रहन्नविता द्वयोरसि।
    उतेदृशे यथा वयम्॥ ६.०४५.०५

    नयसीद्वति द्विषः कृणोष्युक्थशंसिनः।
    नृभिः सुवीर उच्यसे॥ ६.०४५.०६

    ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम्।
    गां न दोहसे हुवे॥ ६.०४५.०७

    यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता।
    वीरस्य पृतनाषहः॥ ६.०४५.०८

    वि दृळ्हानि चिदद्रिवो जनानां शचीपते।
    वृह माया अनानत॥ ६.०४५.०९

    तमु त्वा सत्य सोमपा इन्द्र वाजानां पते।

    अहूमहि श्रवस्यवः॥ ६.०४५.१०

    तमु त्वा यः पुरासिथ यो वा नूनं हिते धने।
    हव्यः स श्रुधी हवम्॥ ६.०४५.११

    धीभिरर्वद्भिरर्वतो वाजाँ इन्द्र श्रवाय्यान्।
    त्वया जेष्म हितं धनम्॥ ६.०४५.१२

    अभूरु वीर गिर्वणो महाँ इन्द्र धने हिते।
    भरे वितन्तसाय्यः॥ ६.०४५.१३

    या त ऊतिरमित्रहन्मक्षूजवस्तमासति।
    तया नो हिनुही रथम्॥ ६.०४५.१४

    स रथेन रथीतमोऽस्माकेनाभियुग्वना।
    जेषि जिष्णो हितं धनम्॥ ६.०४५.१५

    य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः।
    पतिर्जज्ञे वृषक्रतुः॥ ६.०४५.१६

    यो गृणतामिदासिथापिरूती शिवः सखा।
    स त्वं न इन्द्र मृळय॥ ६.०४५.१७

    धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः।
    सासहीष्ठा अभि स्पृधः॥ ६.०४५.१८

    प्रत्नं रयीणां युजं सखायं कीरिचोदनम्।
    ब्रह्मवाहस्तमं हुवे॥ ६.०४५.१९

    स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते।
    गिर्वणस्तमो अध्रिगुः॥ ६.०४५.२०

    स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः।
    गोमद्भिर्गोपते धृषत्॥ ६.०४५.२१

    तद्वो गाय सुते सचा पुरुहूताय सत्वने।
    शं यद्गवे न शाकिने॥ ६.०४५.२२

    न घा वसुर्नि यमते दानं वाजस्य गोमतः।
    यत्सीमुप श्रवद्गिरः॥ ६.०४५.२३

    कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
    शचीभिरप नो वरत्॥ ६.०४५.२४

    इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः।
    इन्द्र वत्सं न मातरः॥ ६.०४५.२५

    दूणाशं सख्यं तव गौरसि वीर गव्यते।
    अश्वो अश्वायते भव॥ ६.०४५.२६

    स मन्दस्वा ह्यन्धसो राधसे तन्वा महे।
    न स्तोतारं निदे करः॥ ६.०४५.२७

    इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः।
    वत्सं गावो न धेनवः॥ ६.०४५.२८

    पुरूतमं पुरूणां स्तोतॄणां विवाचि।
    वाजेभिर्वाजयताम्॥ ६.०४५.२९

    अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः।
    अस्मान्राये महे हिनु॥ ६.०४५.३०

    अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात्।
    उरुः कक्षो न गाङ्ग्यः॥ ६.०४५.३१

    यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी।
    सद्यो दानाय मंहते॥ ६.०४५.३२

    तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः।
    बृबुं सहस्रदातमं सूरिं सहस्रसातमम्॥ ६.०४५.३३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 46.

    त्वामिद्धि हवामहे साता वाजस्य कारवः।
    त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः॥ ६.०४६.०१

    स त्वं नश्चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः।
    गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे॥ ६.०४६.०२

    यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम्।
    सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे॥ ६.०४६.०३

    बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम।
    अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये॥ ६.०४६.०४

    इन्द्र ज्येष्ठं न आ भरँ ओजिष्ठं पपुरि श्रवः।
    येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः॥ ६.०४६.०५

    त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे।
    विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि॥ ६.०४६.०६

    यदिन्द्र नाहुषीष्वाँ ओजो नृम्णं च कृष्टिषु।
    यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या॥ ६.०४६.०७

    यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम्।
    अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे॥ ६.०४६.०८

    इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।
    छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः॥ ६.०४६.०९

    ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया।
    अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव॥ ६.०४६.१०

    अध स्मा नो वृधे भवेन्द्र नायमवा युधि।
    यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः॥ ६.०४६.११

    यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम्।
    अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः॥ ६.०४६.१२

    यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने।
    असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः॥ ६.०४६.१३

    सिन्धूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि।
    आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि॥ ६.०४६.१४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 47.

    स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्।
    उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु॥ ६.०४७.०१

    अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद।
    पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन्॥ ६.०४७.०२

    अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः।
    अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे॥ ६.०४७.०३

    अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः।
    अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम्॥ ६.०४७.०४

    अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके।
    अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान्॥ ६.०४७.०५

    धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम्।
    माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि॥ ६.०४७.०६

    इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ।
    भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः॥ ६.०४७.०७

    उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति।
    ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता॥ ६.०४७.०८

    वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा।
    इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः॥ ६.०४७.०९

    इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम्।
    यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम्॥ ६.०४७.१०

    त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम्।
    ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः॥ ६.०४७.११

    इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः।
    बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम॥ ६.०४७.१२

    तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम।
    स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु॥ ६.०४७.१३

    अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते।
    उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून्॥ ६.०४७.१४

    क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत्।
    पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः॥ ६.०४७.१५

    शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः।
    एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्॥ ६.०४७.१६

    परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति।
    अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति॥ ६.०४७.१७

    रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय।
    इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश॥ ६.०४७.१८

    युजानो हरिता रथे भूरि त्वष्टेह राजति।
    को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु॥ ६.०४७.१९

    अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत्।
    बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम्॥ ६.०४७.२०

    दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः।
    अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च॥ ६.०४७.२१

    प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात्।
    दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म॥ ६.०४७.२२

    दशाश्वान्दश कोशान्दश वस्त्राधिभोजना।
    दशो हिरण्यपिण्डान्दिवोदासादसानिषम्॥ ६.०४७.२३

    दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः।
    अश्वथः पायवेऽदात्॥ ६.०४७.२४

    महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट॥ ६.०४७.२५

    वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः।
    गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि॥ ६.०४७.२६

    दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः।
    अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज॥ ६.०४७.२७

    इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः।
    सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय॥ ६.०४७.२८

    उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत्।
    स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून्॥ ६.०४७.२९

    आ क्रन्दय बलमोजो न आ धा निः ष्टनिहि दुरिता बाधमानः।
    अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व॥ ६.०४७.३०

    आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति।
    समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु॥ ६.०४७.३१

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 48.

    यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे।
    प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम्॥ ६.०४८.०१

    ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये।
    भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम्॥ ६.०४८.०२

    वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा।
    अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि॥ ६.०४८.०३

    महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना।
    अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व॥ ६.०४८.०४

    यमापो अद्रयो वना गर्भमृतस्य पिप्रति।
    सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि॥ ६.०४८.०५

    आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि।
    तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा॥ ६.०४८.०६

    बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा।
    भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि॥ ६.०४८.०७

    विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम्।
    शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति॥ ६.०४८.०८

    त्वं नश्चित्र ऊत्या वसो राधांसि चोदय।
    अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः॥ ६.०४८.०९

    पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः।
    अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च॥ ६.०४८.१०

    आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः।
    सृजध्वमनपस्फुराम्॥ ६.०४८.११

    या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत।
    या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी॥ ६.०४८.१२

    भरद्वाजायाव धुक्षत द्विता।
    धेनुं च विश्वदोहसमिषं च विश्वभोजसम्॥ ६.०४८.१३

    तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम्।
    अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे॥ ६.०४८.१४

    त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता।
    सं सहस्रा कारिषच्चर्षणिभ्य आँ आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत्॥ ६.०४८.१५

    आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे।
    अघा अर्यो अरातयः॥ ६.०४८.१६

    मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः।
    मोत सूरो अह एवा चन ग्रीवा आदधते वेः॥ ६.०४८.१७

    दृतेरिव तेऽवृकमस्तु सख्यम्।
    अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः॥ ६.०४८.१८

    परो हि मर्त्यैरसि समो देवैरुत श्रिया।
    अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा॥ ६.०४८.१९

    वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता।
    देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः॥ ६.०४८.२०

    सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः।
    त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः॥ ६.०४८.२१

    सकृद्ध द्यौरजायत सकृद्भूमिरजायत।
    पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते॥ ६.०४८.२२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 49.

    स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता।
    त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः॥ ६.०४९.०१

    विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः।
    दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै॥ ६.०४९.०२

    अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या।
    मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने॥ ६.०४९.०३

    प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम्।
    द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो॥ ६.०४९.०४

    स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः।
    येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च॥ ६.०४९.०५

    पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि।
    सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम्॥ ६.०४९.०६

    पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात्।
    ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत्॥ ६.०४९.०७

    पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम्।
    स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा॥ ६.०४९.०८

    प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम्।
    होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा॥ ६.०४९.०९

    भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ।
    बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः॥ ६.०४९.१०

    आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम्।
    अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत्॥ ६.०४९.११

    प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम्।
    स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः॥ ६.०४९.१२

    यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय।
    तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च॥ ६.०४९.१३

    तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात्।
    तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये॥ ६.०४९.१४

    नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम्।
    क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम॥ ६.०४९.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 50.

    हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम्।
    अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च॥ ६.०५०.०१

    सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान्।
    द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः॥ ६.०५०.०२

    उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने।
    महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः॥ ६.०५०.०३

    आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः।
    यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान्॥ ६.०५०.०४

    मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा।
    श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते॥ ६.०५०.०५

    अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन।
    श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः॥ ६.०५०.०६

    ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः।
    यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः॥ ६.०५०.०७

    आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात्।
    यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि॥ ६.०५०.०८

    उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः।
    स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः॥ ६.०५०.०९

    उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा।
    अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके॥ ६.०५०.१०

    ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः।
    दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः॥ ६.०५०.११

    ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः।
    ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः॥ ६.०५०.१२

    उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः।
    त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः॥ ६.०५०.१३

    उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः।
    विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु॥ ६.०५०.१४

    एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः।
    ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः॥ ६.०५०.१५

    Rigveda, Mandala - 6, Sutta - 50.

    No comments

    Post Top Ad

    Post Bottom Ad