Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ५. Rigveda, Mandala - 5, Sukta - 71 to 80.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 71.

    आ नो गन्तं रिशादसा वरुण मित्र बर्हणा।
    उपेमं चारुमध्वरम्॥ ५.०७१.०१

    विश्वस्य हि प्रचेतसा वरुण मित्र राजथः।
    ईशाना पिप्यतं धियः॥ ५.०७१.०२

    उप नः सुतमा गतं वरुण मित्र दाशुषः।
    अस्य सोमस्य पीतये॥ ५.०७१.०३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 72.

    आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत्।
    नि बर्हिषि सदतं सोमपीतये॥ ५.०७२.०१

    व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना।
    नि बर्हिषि सदतं सोमपीतये॥ ५.०७२.०२

    मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये।
    नि बर्हिषि सदतां सोमपीतये॥ ५.०७२.०३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 73.

    यदद्य स्थः परावति यदर्वावत्यश्विना।
    यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम्॥ ५.०७३.०१

    इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता।
    वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे॥ ५.०७३.०२

    ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः।
    पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः॥ ५.०७३.०३

    तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे।
    नाना जातावरेपसा समस्मे बन्धुमेयथुः॥ ५.०७३.०४

    आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा।
    परि वामरुषा वयो घृणा वरन्त आतपः॥ ५.०७३.०५

    युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा।
    घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति॥ ५.०७३.०६

    उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः।
    यद्वां दंसोभिरश्विनात्रिर्नराववर्तति॥ ५.०७३.०७

    मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी।
    यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम्॥ ५.०७३.०८

    सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा।
    ता यामन्यामहूतमा यामन्ना मृळयत्तमा॥ ५.०७३.०९

    इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शंतमा।
    या तक्षाम रथाँ इवावोचाम बृहन्नमः॥ ५.०७३.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 74.

    कूष्ठो देवावश्विनाद्या दिवो मनावसू।
    तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति॥ ५.०७४.०१

    कुह त्या कुह नु श्रुता दिवि देवा नासत्या।
    कस्मिन्ना यतथो जने को वां नदीनां सचा॥ ५.०७४.०२

    कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम्।
    कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये॥ ५.०७४.०३

    पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः।
    यदीं गृभीततातये सिंहमिव द्रुहस्पदे॥ ५.०७४.०४

    प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः।
    युवा यदी कृथः पुनरा काममृण्वे वध्वः॥ ५.०७४.०५

    अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये।
    नू श्रुतं म आ गतमवोभिर्वाजिनीवसू॥ ५.०७४.०६

    को वामद्य पुरूणामा वव्ने मर्त्यानाम्।
    को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू॥ ५.०७४.०७

    आ वां रथो रथानां येष्ठो यात्वश्विना।
    पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा॥ ५.०७४.०८

    शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः।
    अर्वाचीना विचेतसा विभिः श्येनेव दीयतम्॥ ५.०७४.०९

    अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम्।
    वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः॥ ५.०७४.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 75.

    प्रति प्रियतमं रथं वृषणं वसुवाहनम्।
    स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम्॥ ५.०७५.०१

    अत्यायातमश्विना तिरो विश्वा अहं सना।
    दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम्॥ ५.०७५.०२

    आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम्।
    रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम्॥ ५.०७५.०३

    सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता।
    उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम्॥ ५.०७५.०४

    बोधिन्मनसा रथ्येषिरा हवनश्रुता।
    विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम्॥ ५.०७५.०५

    आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः।
    वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम्॥ ५.०७५.०६

    अश्विनावेह गच्छतं नासत्या मा वि वेनतम्।
    तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम्॥ ५.०७५.०७

    अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती।
    अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम्॥ ५.०७५.०८

    अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः।
    अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम्॥ ५.०७५.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 76.

    आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः।
    अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ॥ ५.०७६.०१

    न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह।
    दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा॥ ५.०७६.०२

    उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य।
    दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान॥ ५.०७६.०३

    इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम्।
    आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता॥ ५.०७६.०४

    समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम।
    आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि॥ ५.०७६.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 77.

    प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः।
    प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः॥ ५.०७७.०१

    प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम्।
    उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान्॥ ५.०७७.०२

    हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम्।
    मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा॥ ५.०७७.०३

    यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे।
    स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात्॥ ५.०७७.०४

    समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम।
    आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि॥ ५.०७७.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 78.

    अश्विनावेह गच्छतं नासत्या मा वि वेनतम्।
    हंसाविव पततमा सुताँ उप॥ ५.०७८.०१

    अश्विना हरिणाविव गौराविवानु यवसम्।
    हंसाविव पततमा सुताँ उप॥ ५.०७८.०२

    अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये।
    हंसाविव पततमा सुताँ उप॥ ५.०७८.०३

    अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा।
    श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शंतमेन॥ ५.०७८.०४

    वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव।
    श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम्॥ ५.०७८.०५

    भीताय नाधमानाय ऋषये सप्तवध्रये।
    मायाभिरश्विना युवं वृक्षं सं च वि चाचथः॥ ५.०७८.०६

    यथा वातः पुष्करिणीं समिङ्गयति सर्वतः।
    एवा ते गर्भ एजतु निरैतु दशमास्यः॥ ५.०७८.०७

    यथा वातो यथा वनं यथा समुद्र एजति।
    एवा त्वं दशमास्य सहावेहि जरायुणा॥ ५.०७८.०८

    दश मासाञ्छशयानः कुमारो अधि मातरि।
    निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि॥ ५.०७८.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 79.

    महे नो अद्य बोधयोषो राये दिवित्मती।
    यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते॥ ५.०७९.०१

    या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः।
    सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते॥ ५.०७९.०२

    सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः।
    यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते॥ ५.०७९.०३

    अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः।
    मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते॥ ५.०७९.०४

    यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये।
    परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते॥ ५.०७९.०५

    ऐषु धा वीरवद्यश उषो मघोनि सूरिषु।
    ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते॥ ५.०७९.०६

    तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह।
    ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते॥ ५.०७९.०७

    उत नो गोमतीरिष आ वहा दुहितर्दिवः।
    साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते॥ ५.०७९.०८

    व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः।
    नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते॥ ५.०७९.०९

    एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि।
    या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते॥ ५.०७९.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sutta - 80.

    द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम्।
    देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते॥ ५.०८०.०१

    एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे।
    बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम्॥ ५.०८०.०२

    एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे।
    पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति॥ ५.०८०.०३

    एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात्।
    ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति॥ ५.०८०.०४

    एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात्।
    अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात्॥ ५.०८०.०५

    एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः।
    व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः॥ ५.०८०.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sutta - 80.

    No comments

    Post Top Ad

    Post Bottom Ad