ऋग्वेदः, मण्डलं ५. Rigveda, Mandala - 5, Sukta - 61 to 70.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 61.
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय।
परमस्याः परावतः॥ ५.०६१.०१
क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय।
पृष्ठे सदो नसोर्यमः॥ ५.०६१.०२
जघने चोद एषां वि सक्थानि नरो यमुः।
पुत्रकृथे न जनयः॥ ५.०६१.०३
परा वीरास एतन मर्यासो भद्रजानयः।
अग्नितपो यथासथ॥ ५.०६१.०४
सनत्साश्व्यं पशुमुत गव्यं शतावयम्।
श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत्॥ ५.०६१.०५
उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी।
अदेवत्रादराधसः॥ ५.०६१.०६
वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम्।
देवत्रा कृणुते मनः॥ ५.०६१.०७
उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः।
स वैरदेय इत्समः॥ ५.०६१.०८
उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम्।
वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे॥ ५.०६१.०९
यो मे धेनूनां शतं वैददश्विर्यथा ददत्।
तरन्त इव मंहना॥ ५.०६१.१०
य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु।
अत्र श्रवांसि दधिरे॥ ५.०६१.११
येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा।
दिवि रुक्म इवोपरि॥ ५.०६१.१२
युवा स मारुतो गणस्त्वेषरथो अनेद्यः।
शुभंयावाप्रतिष्कुतः॥ ५.०६१.१३
को वेद नूनमेषां यत्रा मदन्ति धूतयः।
ऋतजाता अरेपसः॥ ५.०६१.१४
यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया।
श्रोतारो यामहूतिषु॥ ५.०६१.१५
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः।
आ यज्ञियासो ववृत्तन॥ ५.०६१.१६
एतं मे स्तोममूर्म्ये दार्भ्याय परा वह।
गिरो देवि रथीरिव॥ ५.०६१.१७
उत मे वोचतादिति सुतसोमे रथवीतौ।
न कामो अप वेति मे॥ ५.०६१.१८
एष क्षेति रथवीतिर्मघवा गोमतीरनु।
पर्वतेष्वपश्रितः॥ ५.०६१.१९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 62.
ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान्।
दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम्॥ ५.०६२.०१
तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे।
विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त॥ ५.०६२.०२
अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः।
वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू॥ ५.०६२.०३
आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक्।
घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति॥ ५.०६२.०४
अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा।
नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः॥ ५.०६२.०५
अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः।
राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ॥ ५.०६२.०६
हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव।
भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य॥ ५.०६२.०७
हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य।
आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च॥ ५.०६२.०८
यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा।
तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम॥ ५.०६२.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 63.
ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि।
यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः॥ ५.०६३.०१
सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा।
वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः॥ ५.०६३.०२
सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी।
चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया॥ ५.०६३.०३
माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम्।
तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते॥ ५.०६३.०४
रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु।
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम्॥ ५.०६३.०५
वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्।
अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम्॥ ५.०६३.०६
धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया।
ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम्॥ ५.०६३.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 64.
वरुणं वो रिशादसमृचा मित्रं हवामहे।
परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम्॥ ५.०६४.०१
ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते।
शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे॥ ५.०६४.०२
यन्नूनमश्यां गतिं मित्रस्य यायां पथा।
अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे॥ ५.०६४.०३
युवाभ्यां मित्रावरुणोपमं धेयामृचा।
यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे॥ ५.०६४.०४
आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ।
स्वे क्षये मघोनां सखीनां च वृधसे॥ ५.०६४.०५
युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः।
उरु णो वाजसातये कृतं राये स्वस्तये॥ ५.०६४.०६
उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि।
सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम्॥ ५.०६४.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 65.
यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः।
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः॥ ५.०६५.०१
ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा।
ता सत्पती ऋतावृध ऋतावाना जनेजने॥ ५.०६५.०२
ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा।
स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने॥ ५.०६५.०३
मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते।
मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः॥ ५.०६५.०४
वयं मित्रस्यावसि स्याम सप्रथस्तमे।
अनेहसस्त्वोतयः सत्रा वरुणशेषसः॥ ५.०६५.०५
युवं मित्रेमं जनं यतथः सं च नयथः।
मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम्॥ ५.०६५.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 66.
आ चिकितान सुक्रतू देवौ मर्त रिशादसा।
वरुणाय ऋतपेशसे दधीत प्रयसे महे॥ ५.०६६.०१
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते।
अध व्रतेव मानुषं स्वर्ण धायि दर्शतम्॥ ५.०६६.०२
ता वामेषे रथानामुर्वीं गव्यूतिमेषाम्।
रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे॥ ५.०६६.०३
अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता।
नि केतुना जनानां चिकेथे पूतदक्षसा॥ ५.०६६.०४
तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम्।
ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः॥ ५.०६६.०५
आ यद्वामीयचक्षसा मित्र वयं च सूरयः।
व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये॥ ५.०६६.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 67.
बळित्था देव निष्कृतमादित्या यजतं बृहत्।
वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे॥ ५.०६७.०१
आ यद्योनिं हिरण्ययं वरुण मित्र सदथः।
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा॥ ५.०६७.०२
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा।
व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः॥ ५.०६७.०३
ते हि सत्या ऋतस्पृश ऋतावानो जनेजने।
सुनीथासः सुदानवोंऽहोश्चिदुरुचक्रयः॥ ५.०६७.०४
को नु वां मित्रास्तुतो वरुणो वा तनूनाम्।
तत्सु वामेषते मतिरत्रिभ्य एषते मतिः॥ ५.०६७.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 68.
प्र वो मित्राय गायत वरुणाय विपा गिरा।
महिक्षत्रावृतं बृहत्॥ ५.०६८.०१
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च।
देवा देवेषु प्रशस्ता॥ ५.०६८.०२
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य।
महि वां क्षत्रं देवेषु॥ ५.०६८.०३
ऋतमृतेन सपन्तेषिरं दक्षमाशाते।
अद्रुहा देवौ वर्धेते॥ ५.०६८.०४
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः।
बृहन्तं गर्तमाशाते॥ ५.०६८.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 69.
त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि।
वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम्॥ ५.०६९.०१
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे।
त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः॥ ५.०६९.०२
प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः॥ ५.०६९.०३
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य।
न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि॥ ५.०६९.०४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
Rigveda, Mandala - 5, Sukta - 70.
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण।
मित्र वंसि वां सुमतिम्॥ ५.०७०.०१
ता वां सम्यगद्रुह्वाणेषमश्याम धायसे।
वयं ते रुद्रा स्याम॥ ५.०७०.०२
पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा।
तुर्याम दस्यून्तनूभिः॥ ५.०७०.०३
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः।
मा शेषसा मा तनसा॥ ५.०७०.०४
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 70.

No comments