Header Ads

  • Breaking News

    श्री श्रीनिवासार्चा दशकम् ।। Astro Classes.

    Shri Nivasarcha Dashakam. श्री श्रीनिवासार्चा दशकम् ।।

    अथ श्री श्रीनिवासार्चा दशकम् ।। Astro Classes, Silvassa.

    श्रीवासदेवकरुणाशिशिरालोकामृतावसेकेन  ।
    उपचितबहुविधपुण्यं धन्यं श्रीवेङ्कटाचलं वन्दे ॥ १॥

    बहुलशिलातलतरुततितृणगणवीरुज्झरीमयश्शिखरी ।
    यो गीयते परिवृतो योगीन्द्रैश्श्रीनिवास एवेति ॥ २॥

    पशुपक्षिमृगवनस्पतितृणगुल्मलताशिलासु चात्मजनिम् ।
    यत्रार्थयन्ति मुनयश्चित्राकारेषु निर्ज्झरेष्वपि च ॥ ३॥

    परवासुदेव एव स्थिरवासं प्राप्य यत्र सह रमया ।
    चिरमानन्दमुपैति हि परमानन्दं विहाय वैकुण्ठम् ॥ ४॥

    मलसङ्कुले कलावपि फलजालान्यैहिकान्यपीह जनाः ।
    स्वाभीष्टानि लभन्ते यत्र श्रीवासदेवकरुणातः ॥ ५॥

    नारायणाचलेऽस्मिन्नाराच्छ्रीस्वामिपुष्करिण्याश्च ।
    तीरालये विभान्तं नारायणमाश्रये रमाकान्तम् ॥ ६॥

    अञ्जनगिरिशिखरालयमञ्जनरोचिर्निरञ्जनं धाम ।
    कञ्जविलोचनमीडे पिञ्जरवक्षश्श्रियस्त्विषा किमपि ॥ ७॥

    नारायणाद्रिवासं श्रीश्रीवासं रमाक्षमावासम् ।
    हरिमणिगिरिसमभासं सुरुचिरहासं नमाम्यवितदासम् ॥ ८॥

    आश्रितफणीन्द्रशैलं हरिमणिनीलं सुवर्णसमचेलम् ।
     ???  कमलालोलं नमामि समशीलम् ॥ ९॥

    अधरितसुरतरुदानं रक्षितदीनं रजस्तमोहीनम् ।
    कमलाकृतबहुमानं श्रीनिधिमेनं श्रये श्रिताधीनम् ॥ १०॥

    सुरगणसेवितचरणं श्रितजनशरणं श्रिताबलाभरणम् ।
    कर्तुं भवाब्धितरणं कलये शरणं वृषाद्रिवरशरणम् ॥ ११॥

    वृषशैलशिखरिजातं वारिधिजातालताभिपरिवीतम् ।
    वन्दे सुपारिजातं विश्वजनेभ्यो वितीर्णफलजातम् ॥ १२॥

    ॥ इति नावल्पाक्कं श्रीराजगोपालताताचार्यकृतं श्रीनिवासार्चादशकम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad