Header Ads

  • Breaking News

    श्रीवेङ्कटेश अष्टोत्तरशत नामावली - २ ।। Astro Classes.

    Shri Venkateshvara's 108 Names 2.
    श्रीवेङ्कटेश अष्टोत्तरशत नामावली - २ ।। Astro Classes, Silvassa.

    अथ श्रीवेङ्कटेश अष्टोत्तरशत नामावली - २ ।। BALAJI VED VIDYALAYA.

    ॐ श्री वेङ्कटेशाय नमः ।
    ॐ शेषाद्रिनिलयाय नमः ।
    ॐ वृषद्दृग्गोचराय नमः ।
    ॐ विष्णवे नमः ।
    ॐ सदञ्जनगिरीशाय नमः ।
    ॐ वृषाद्रिपतये नमः ।
    ॐ मेरुपुत्रगिरीशाय नमः ।
    ॐ सरस्वामितटीजुषे नमः ।
    ॐ कुमारकल्पसेव्याय नमः ।
    ॐ वज्रिदृग्विषयाय नमः । १०
    ॐ सुवर्चलासुतन्यस्तसेनापत्यभराय नमः ।
    ॐ रमाय नमः ।
    ॐ पद्मनाभाय नमः ।
    ॐ सदावायुस्तुताय नमः ।
    ॐ त्यक्तवैकुण्ठलोकाय नमः ।
    ॐ गिरिकुञ्जविहारिणे नमः ।
    ॐ हरिचन्दनगोत्रेन्द्रस्वामिने नमः ।
    ॐ शङ्खराजन्यनेत्राब्जविषयाय नमः ।
    ॐ वसूपरिचरत्रात्रे नमः ।
    ॐ कृष्णाय नमः । २०
    ॐ अब्धिकन्यापरिष्वक्तवक्षसे नमः ।
    ॐ वेङ्कटाय नमः ।
    ॐ सनकादिमहायोगिपूजिताय नमः ।
    ॐ देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः ।
    ॐ श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः ।
    ॐ शेषपर्वतरूपत्वप्रकाशनपराय नमः ।
    ॐ सानुस्थापिततार्क्ष्याय नमः ।
    ॐ तार्क्ष्याचलनिवासिने नमः ।
    ॐ मायामूढविमानाय नमः ।
    ॐ गरुडस्कन्धवासिने नमः । ३०
    ॐ अनन्तचरणाय नमः ।
    ॐ अनन्तशिरसे नमः ।
    ॐ अनताक्षाय नमः ।
    ॐ श्रीशैलनिलयाय नमः ।
    ॐ दामोदराय नमः ।
    ॐ नीलमेघतिभाय नमः ।
    ॐ ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः ।
    ॐ वैकुण्ठागतसद्धेमविमानान्तर्गताय नमः ।
    ॐ अगस्त्याभ्यर्चितशेषजनदृग्गोचराय नमः ,
    ॐ वासुदेवाय नमः । ४०
    ॐ हरये नमः ।
    ॐ तीर्थपञ्चकवासिने नमः ।
    ॐ वामदेवप्रियाय नमः ।
    ॐ जनकेष्टप्रदाय नमः ।
    ॐ मार्कण्डेयमहातीर्थजातपुण्यप्रदाय नमः ।
    ॐ वाक्पतिब्रह्मदात्रे नमः ।
    ॐ चन्द्रलावण्यदायिने नमः ।
    ॐ नारायणनगेशाय नमः ।
    ॐ ब्रह्मक्लृप्तोत्सवाय नमः ।
    ॐ शङ्खचक्रवरानम्रलसत्करतलाय नमः । ५०
    ॐ द्रवन्मृगमदासक्तविग्रहाय नमः ।
    ॐ केशवाय नमः ।
    ॐ नित्ययौवनमूर्तये नमः ।
    ॐ अर्थितार्थप्रदात्रे नमः ।
    ॐ विश्वतीर्थाघहारिणे नमः ।
    ॐ तीर्थस्वामिसरस्नातमनुजाबीष्टदायिने नमः ।
    ॐ कुमारधारिकावासस्कन्दाभीष्टप्रदायिने नमः ।
    ॐ जानुदघ्नसमुद्भूतपोत्रिणे नमः ।
    ॐ कूर्ममूर्तये नमः ।
    ॐ किन्नरद्वन्द्वशापान्तप्रदात्रे नमः । ६०
    ॐ विभवे नमः ।
    ॐ वैखानसमुनिश्रेष्ठपूजिताय नमः ।
    ॐ सिंहाचलनिवासाय नमः ।
    ॐ श्रीमन्नारायणाय नमः ।
    ॐ सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः ।
    ॐ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय नमः ।
    ॐ दुर्मेधप्राणहन्त्रे नमः ।
    ॐ श्रीधराय नमः ।
    ॐ क्षत्रियान्तकरामाय नमः ।
    ॐ मत्स्यरूपाय नमः । ७०
    ॐ पाण्डवारिप्रहर्त्रे नमः ।
    ॐ श्रीकराय नमः ।
    ॐ उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये नमः ।
    ॐ रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः ।
    ॐ लसल्लक्ष्मीकराम्भोजदत्तकह्लाकसृजे नमः ।
    ॐ सालग्रामनिवासाय नमः ।
    ॐ शुकदृग्गोचराय नमः ।
    ॐ नारायणार्थिताशेषजनदृग्विषयाय नमः ।
    ॐ मृगयारसिकाय नमः ।
    ॐ वृषभासुरहारिणे नमः । ८०
    ॐ अञ्जनागोत्रपतये नमः ।
    ॐ वृषभाचलवासिने नमः ।
    ॐ अञ्जनासुतदात्रे नमः ।
    ॐ माधवीयाघहारिणे नमः ।
    ॐ प्रियङ्गुप्रियभक्षाय नमः ।
    ॐ श्वेतकोलपराय नमः ।
    ॐ नीलधेनुपयोधारासेकदेहोद्भवाय नमः ।
    ॐ शङ्करप्रियमित्राय नमः ।
    ॐ चोलपुत्रप्रियाय नमः ।
    ॐ सुधर्मिणीसुचैतन्यप्रदात्रे नमः । ९०
    ॐ मधुघातिने नमः ।
    ॐ कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः ।
    ॐ वराहाचलनाथाय नमः ।
    ॐ बलभद्राय नमः ।
    ॐ त्रिविक्रमाय नमः ।
    ॐ महते नमः ।
    ॐ हृषीकेशाय नमः ।
    ॐ अच्युताय नमः ।
    ॐ नीलाद्रिनिलयाय नमः ।
    ॐ क्षीराब्धिनाथाय नमः । १००
    ॐ वैकुण्ठाचलवासिने नमः ।
    ॐ मुकुन्दाय नमः ।
    ॐ अनन्ताय नमः ।
    ॐ विरिञ्चाभ्यर्थितानीतसौम्यरूपाय नमः ।
    ॐ सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः ।
    ॐ हलायुधजगत्तीर्थसमन्तफलदायिने नमः ।
    ॐ गोविन्दाय नमः ।
    ॐ श्रीनिवासाय नमः । १०८
    इति वराहपुराणान्तर्गत श्रीवेङ्कटेश्वराष्टोत्तरशतनामावलिः समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad