Header Ads

  • Breaking News

    प्रातः कालिन सन्ध्या विधानम् ।। Astro Classes, Silvassa.

    Atha Pratah Sandhya Vidhanam. Astro Classes, Silvassa.
    अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ।। Astro Classes, Silvassa.
         || भस्मधारणम् ||
    ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वँ हवाऽ इदम भस्म मनऽ एतानि चक्षूँषि भस्मानि ||

         || गायत्रिमन्त्रः ||
    ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
    धियोयोनः प्प्रचोदयत् ||

    ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ||

    ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ||
    उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ||

    ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः भस्मधारणे विनियोगः ||

    ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् ||
    यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ||

         || आचमनम् ||
    ॐ केशवाय नमः स्वाहा | ॐ नारायणाय नमः स्वाहा | ॐ माधवाय नमः स्वाहा | ॐ गोविन्दाय नमः | हस्तं प्रक्षाल्य ||

         || अथ देवतानमस्कारः ||
    ॐ विष्णवे नमः. || ॐ मधुसूदनाय नमः || ॐ त्रिविक्रमाय नमः || ॐ वामनाय नमः || ॐ श्रीधराय नमः. || ॐ ऋषिकेशाय नमः || ॐ पद्मनाभाय नमः || ॐ दमोदराय नमः || ॐ सङ्कर्षणाय नमः || ॐ वासुदेवाय नमः || ॐ प्रद्युम्नाय नमः.|| ॐ अनिरुद्धाय नमः || ॐ पुरुषोत्तमाय नमः || ॐ अधोक्षजाय नमः || ॐ नृसिंहाय नमः || ॐ अच्युताय नमः || ॐ जनार्दनाय नमः || ॐ उपेन्द्राय नमः  || ॐ श्रीहरये नमः || ॐ श्रीकृष्णाय नमः ||

         || विनियोगः ||
    ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री छंदः प्राणायामे विनियोगः ||

         || प्राणायामः ||
    ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ||
    ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि | धियोयोनः प्प्रचोदयत् ||
    ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ||

    एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत् ||

         || शिखाबन्धनम् ||
    ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो देवता शिखाबन्धने विनियोगः ||

    ॐ मनस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽ अश्श्वेषुरीरिषः||
    मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ||

         || अङ्गन्यासः ||
    ॐ विष्णुर्विष्णुः | वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां यशोबलम् ||

         || मार्जनम् ||
    ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
    यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ||

    ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ||
    तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ||

         || सङ्कल्पः ||
    ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं  करिष्ये ||

         || भूमिप्रार्थना ||

    विनियोगः - ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ||

    ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ||
    त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ||
    ॐ कूर्माय नमः | ॐ शेषाय नमः | ॐ अनन्ताय नमः ||

         || भूतशुद्धिः ||
    ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः |
    ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ||
    अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् |
    सर्वेषामविरोधेन सन्ध्याकर्म समारम्भे ||

         || मार्जनम् ||
    ॐ भुः पुनातु (शिरसि)
    ॐ भुवः पुनातु (नेत्रयोः)
    ॐ स्वः पुनातु (कण्ठे)
    ॐ महः पुनातु (हृदये)
    ॐ जनः पुनातु (नाभ्याम्)
    ॐ तपः पुनातु (पादयोः)
    ॐ सत्यं पुनातु (पुनः शिरसि)
    ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि || धियोयोनः प्प्रचोदयत् || (सर्वाङ्गं पुनातु)

         || करन्यासः ||
    ॐ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् |
    मध्यमायां ऋषिकेशमनामिक्यां त्रिविक्रमम् ||
    कनिष्ठिक्यान्न्यसेद्विष्णुं करमध्ये त् माधवम् |
    करपृष्ठे हरिं विद्यन्मणिबन्धे जनार्दनम् ||

         || गायत्रीषडङ्गन्यासाः ||
    ॐ भुः हृदयाय नमः |
    ॐ भुवः शिरसे स्वाहा |
    ॐ स्वः शिखायै वषट् |
    ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् |
    ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट् |
    ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् |

         || प्रणवन्यासाः ||
    ॐ अकारम् नभौ |
    ॐ उकारम् हृदये |
    ॐ मकारम् मूर्ध्नि |
    ॐ भुः पादयोः |
    ॐ भुवः जान्वोः |
    ॐ स्वः ऊर्वोः |
    ॐ महः जठरे |
    ॐ जनः कण्ठे |
    ॐ तपः मुखे |
    सत्यम् शिरसि ||
    ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि || धियोयोनः प्प्रचोदयात् || (सर्वाङ्गे)

         || गायत्र्यावाहानम् ||
    ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् |
    रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् ||
    ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् |
    आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ||
    आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि |
    गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ||

         || अम्बुप्राशनम् ||

    विनियोगः - ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ||

    ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ||

         || मार्जनम् ||

    विनियोगः - ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः आपोदेवता मार्जने विनियोगः ||

         || मार्जनम् ||
    ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन | महेरणाय चक्षसे ||
    योवः शिवतमोरसस्तस्य भाजयतेहनः | उशतीरिवमातरः ||
    तस्म्माऽ अरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः ||

         || अघमर्षणम् ||
    विनियोगः - ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो देवता अघमर्षणे विनियोगः||

         || अघमर्षणम् ||
    ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव ||
    पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ||
    (अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)

         || अर्घ्यम् ||
    ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
    धियोयोनः प्प्रचोदयत् ||

    ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः |
    इदमर्घ्यं दत्तं न मम ||

    (एवम त्रिवारं अर्घ्यं दद्यात्)

    ॐ असावादित्यो ब्रह्म ||

         || सूर्योपस्थानम् ||
    ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् || देवन्देवत्र सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ||
    उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः || दृशेव्विश्श्वायसूर्य्यम् ||

    ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः ||
    आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षँ सूर्य्यऽआत्क्मा जगतस्तस्थुषश्च ||

    ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ||
    पश्श्येमशरदः शतञ्जीवेमशरदः शतँशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ||

         || विनियोगः||
    ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः आज्यं देवता जगती छन्दः यजुर्गायत्र्यावाहने विनियोगः

         || गायत्र्यावाहनम् ||
    ॐ तेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि ||

         || अथ मुद्रप्रदर्शनम् ||
    ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा |
    द्विमुखं त्रिमुखं चैवचतुष्पञ्चमुखं तथा ||
    षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा |
    शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ||
    प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्.
    सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा||

         || शापविमोचनम् ||
    ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ||
    ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ||

    (महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्)
    ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ||
    धियोयोनः प्प्रचोदयत् ||

    ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ||
    ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ||

         || अथ गायत्रीध्यानम् ||
    मुक्ताविद्रुमहेमनीलधवलाच्छायैर्मुखैस्त्रीक्षणै
    र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् |
    गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
    शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ||

         || पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ||
    ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् |
    लिङ्गं निर्वाणेति जपेत् ||

         || जपार्णम् ||
    ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ||

         || प्रार्थना ||
    ॐ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् |
    तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ||
    उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि |
    ब्रह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ||

         || गोत्रप्रवरोच्चारणपूर्वकमभिवादनम् ||
    अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ||

    भो आचार्य ! त्वामभिवादयामि |
    भो वैश्वानर ! त्वामभिवादयामि |
    भो सूर्यचन्द्रमसौ ! युवामभिवादयामि |
    भो मातापितरौ ! युवामभिवादयामि |
    भो याज्ञवल्क्य ! त्वामभिवादयामि |
    भो ईश्वर ! त्वामभिवादयामि |

         ||सन्ध्यार्पणम् ||
    ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी परमेश्वरः प्रीयतां न मम ||

    ॐ तत्सद् ब्रह्मार्पणमस्तु ||

    (त्रिराचमेत्)

         ||हस्तौ बद्धवा ||
    ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु |
    न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ||

    ॐ विष्णवे नमः | ॐ विष्णवे नमः | ॐ विष्णवे नमः |

    ॐ तत्सद् ब्रह्मार्पणमस्तु

         || इति प्रातः सन्ध्याप्रयोगः ||

    No comments

    Post Top Ad

    Post Bottom Ad