ॐ अथ संस्कृताष्टकम् ॥ Astro Classes.

ॐ अथ संस्कृताष्टकम् ॥ Astro Classes, Silvassa. 

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् । 
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥ 

संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् । 
प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥ 

वेदान्तानां पुराणानां शास्त्राणां च तथैव च । 
मन्त्राणां तन्त्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥ 

रामायणं महाकाव्यं महाभारतमेव च । 
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥ 

भासस्य कालिदासस्य भवभूतेश्च विश्रुता । 
बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥ 

प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च । 
संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥ 

यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा । 
संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥ 

शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा । 
स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥ ॥ 

जयतु संस्कृतम् ॥ जयतु संस्कृतिः ॥ जयतु अमरसंस्कृतारतिः ॥

Post a Comment

0 Comments