Header Ads

  • Breaking News

    ॐकारम् इति ब्रह्म ।। Astro Classes.

    ॐकारम् इति ब्रह्म ।। Astro Classes, Silvassa.

    ॐकारम् इति ब्रह्म । ब्रह्म इति वेद: । वेद ज्ञानम् इति ब्रह्म ज्ञानम् । वेद जानाति इति ब्रह्म जानाति । ब्रह्म जानाति इति ब्राह्मण ।।

    ॐ इत्येतदक्षरं इदं सर्वं, तस्योऽपव्याख्यानं, भूतं भवद्
    भविश्यद् इति सर्वं ओङ्कार एव, यच् चान्यत् त्रिकालातीतं
    तदप्योङ्कारमेव ।।

    कठोपनिषद् :

    सर्वे वेल्दयतामनन्ति, तपाम्सि सर्वाणि च यद् वदन्ति,
    यद् इच्चन्तो ब्रह्मचर्यम् चरन्ति, तत् ते पदं सङ्ग्रहेन
    ब्रवीमि । ॐ इत्येतत् ।

    कठोपनिषद् :

    एतद् आलम्बनं श्रेश्थं एतद् आलम्बनं परं ।
    एतद् आलम्बनं ज्ञात्वा ब्रह्म लोके महीयते ॥

    प्रश्नोपनिषद् :

    तस्मै स होवाच, एतद् वै, सत्य काम, परं चापरं च ब्रह्म यद्
    ओङ्कारः तस्माद् विद्वान् एतेनैवायतनेनैकतरं अन्वेति ।

    तैत्तरीयोपनिषद् :

    ॐ इति ब्रह्म, ॐ इतीदं सर्वं, ॐ इत्येतद् अनुकृतिः ह स्म वा
    अप्योश्रावयेत्याश्रावयन्ति, ॐ इति सामानि गायन्ति, ॐ शोमिति
    शस्त्राणि शम्शन्थि, ॐ इति अध्वर्युः, प्रतिगारं प्रतिगृणाति,
    ॐ इति ब्रह्म प्रसौति, ॐ इत्यग्निहोत्रं अनुजानाति, ॐ इति ब्राह्मणः
    प्रवक्ष्यन्न् आह, ब्रह्मोपाप्नवानीति, ब्रह्मैवोवाप्नोति ।

    ज्ञानेश्वरी (Marathi)

    अकार चरण युगुल ।  उकार उदर विशाल ।
    मकार महामण्डल । मस्तकाकारे ॥

    हे तिन्ही एकवटले ।  तेथ शब्दब्रह्म प्रकटले ।

    गीता:-
    रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
    प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ७-८॥

    ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
    यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ ८-१३॥

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥

    तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
    प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४॥

                   ।।  ॐ तत्सत्  ।।

    No comments

    Post Top Ad

    Post Bottom Ad