Header Ads

  • Breaking News

    अथ मन्त्रपुष्पाञ्जलिः मन्त्राः ॥ Astro Classes.

    अथ श्री मन्त्रपुष्पाञ्जलिः मन्त्राः ॥ Astro Classes, Silvassa.

    ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
    ते ह नाकं महिमानः सचन्त । यत्र पूर्वे साध्याः सन्ति देवाः ॥
    ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे ।
    स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ।
    कुबेराय वैश्रवणाय महाराजाय नमः ।

    ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
    माहाराज्यमाधिपत्यमयं समन्तपर्या ईस्यात् सार्वभौमः सार्वायुष
    आन्तादापरार्धात् ।

    पृथिव्यै समुद्रपर्यन्ताया एकराडिति । तदप्येषश्लोकोऽभिगीतो
    मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।

    आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

    एकदन्तायविद्महे । वक्रतुण्डाय धीमहि ।
    तन्नो दन्ती प्रचोदयात् ।

    वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
    जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॥

    रामाय रामभद्राय रामचन्द्राय वेधसे ।
    रघुनाथाय नाथाय सीतायाः पतये नमः ॥

    वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
    देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

    अपि स्वर्णम्यी लङ्का न मे लक्ष्मण रोचते ।
    जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

    No comments

    Post Top Ad

    Post Bottom Ad