Header Ads

  • Breaking News

    अथ तैत्तिरीयोपनिषत् ॥ Astro Classes, Silvassa.

    अथ तैत्तिरीयोपनिषत् ॥ Astro Classes, Silvassa.

    ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
    ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
    शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
    नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वामेवप्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
    अवतु माम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति प्रथमोऽनुवाकः ॥

    ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
    साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥

     इति द्वितीयोऽनुवाकः ॥

    सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
    अथातः सहिताया उपनिषिदम् व्याख्यास्यामः ।
    पञ्चस्वधिकरणेषु ।
    अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
    ता महासहिताया  इत्याचक्षते । अथाधिलोकम् ।
    पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
    आकाशः सन्धिः ॥ १॥

    वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।
    अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
    वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
    आचार्यः पूर्वरूपम् ॥ २॥

    अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचन सन्धानम् ।
    इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
    पितोत्तररूपम् । प्रजा सन्धिः । प्रजनन सन्धानम् ।
    इत्यधिप्रजम् ॥ ३॥

    अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् ।
    उत्तरा हनुरुत्तर रूपम् । वाक्सन्धिः । जिह्वासन्धानम् ।
    इत्यध्यात्मम् । इतीमा महासहिताः ।
    य एवमेता महासहिता व्याख्याता वेद ।
    सन्धीयते प्रजया पशुभिः ।
    ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४॥

    इति तृतीयोऽनुवाकः ॥

    यश्छन्दसामृषभो विश्वरूपः ।
    छन्दोभ्योऽध्यमृतात्सम्बभूव ।
    स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् ।
    शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
    कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः ।
    श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १॥

    कुर्वाणाऽचीरमात्मनः । वासासि मम गावश्च ।
    अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
    लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा ।
    विमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
    प्रमयन्तु ब्रह्मचारिणः स्वाहा ।
    दमायन्तु ब्रह्मचारिणः स्वाहा ।
    शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २॥

    यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
    तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
    तस्मिन् सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा ।
    यथाऽऽपः प्रवता यन्ति यथा मासा अहर्जरम् ।
    एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
    प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३॥

    इति चतुर्थोऽनुवाकः ॥

    भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
    तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
    मह इति । तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
    भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
    सुवरित्यसौ लोकः ॥ १॥

    मह इत्यादित्यः । आदित्येन वाव सर्वे लोक महीयन्ते ।
    भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
    मह इति चन्द्रमाः । चन्द्रमसा वाव
    सर्वाणि ज्योतिषि महीयन्ते । भूरिति वा ऋचः ।
    भुव इति सामानि । सुवरिति यजूषि ॥ २॥

    मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।
    भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
    मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
    ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।
    ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३॥

    इति पञ्चमोऽनुवाकः ॥

    स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।
    अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते ।
    सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
    भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १॥

    सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
    आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
    श्रोत्रप्तिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म ।
    सत्यात्म प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् ।
    इति प्राचीनयोग्योपास्स्व ॥ २॥ इति षष्ठोऽनुवाकः ॥

    पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
    अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
    आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
    अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
    चक्षुः श्रोत्रं मनो वाक् त्वक् ।
    चर्म मास स्नावास्थि मज्जा ।
    एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इद सर्वम् ।
    पाङ्क्तेनैव पाङ्क्त स्पृणोतीति ॥ १॥ इति सप्तमोऽनुवाकः ॥

    ओमिति ब्रह्म । ओमितीद सर्वम् ।
    ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ।
    ओमिति सामानि गायन्ति । ओशोमिति शस्त्राणि शसन्ति ।
    ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति ।
    ओमित्यग्निहोत्रमनुजानाति ।
    ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
    ब्रह्मैवोपाप्नोति ॥ १॥ इत्यष्टमोऽनुवाकः ॥

    ऋतं च स्वाध्यायप्रवचने च ।
    सत्यं च स्वाध्यायप्रवचने च ।
    तपश्च स्वाध्यायप्रवचने च ।
    दमश्च स्वाध्यायप्रवचने च ।
    शमश्च स्वाध्यायप्रवचने च ।
    अग्नयश्च स्वाध्यायप्रवचने च ।
    अग्निहोत्रं च स्वाध्यायप्रवचने च ।
    अतिथयश्च स्वाध्यायप्रवचने च ।
    मानुषं च स्वाध्यायप्रवचने च ।
    प्रजा च स्वाध्यायप्रवचने च ।
    प्रजनश्च स्वाध्यायप्रवचने च ।
    प्रजातिश्च स्वाध्यायप्रवचने च ।
    सत्यमिति सत्यवचा राथीतरः ।
    तप इति तपोनित्यः पौरुशिष्टिः ।
    स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
    तद्धि तपस्तद्धि तपः ॥ १॥ इति नवमोऽनुवाकः ॥

    अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
    ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविण सवर्चसम् ।
    सुमेध अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १॥

    इति दशमोऽनुवाकः ॥

    वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
    सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
    आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
    सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
    कुशलान्न प्रमदितव्यम् । भूत्यैन प्रमदितव्यम् ।
    स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥

    देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
    पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
    यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
    यान्यस्माक सुचरितानि । तानि त्वयोपास्यानि ॥ २॥

    नो इतराणि । ये के चारुमच्छ्रेयासो ब्राह्मणाः ।
    तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
    अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् ।
    संविदा देयम् ।
    अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३॥

    ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
    अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
    तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
    ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
    अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
    तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
    एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
    एवमु चैतदुपास्यम् ॥ ४॥ इत्येकादशऽनुवाकः ॥

    शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
    शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
    नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
    सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
    आवीन्माम् । आवीत् वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति द्वादशोऽनुवाकः ॥

    ॥ इति शीक्षावल्ली समाप्ता ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभुक्ता ।
    सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ।
    सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति ॥

    तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः ।
    वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।
    पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ।
    स वा एष पुरुषोऽन्न्नरसमयः ।
    तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।
    अयमात्मा । इदं पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥

    अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीश्रिताः ।
    अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः ।
    अन्न हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
    सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते ।
    अन्न हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
    अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।
    अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ।
    तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
    तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः ।
    अपान उत्तरः पक्षः । आकाश आत्मा ।
    पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥

    इति द्वितीयोऽनुवाकः ॥

    प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये ।
    प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ।
    सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।
    प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
    तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।
    आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति तृतीयोऽनुवाकः ॥

    यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
    आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    तस्माद्वा एतस्मान्मनोमयात् । अन्योन्तर आत्मा विज्ञानमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् ।
    अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः ।
    ऋतं दक्षिणः पक्षः ।
    सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति चतुर्थोऽनुवाकः ॥

    विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च ।
    विज्ञानं देवाः सर्वे ।
    ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद ।
    तस्मच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा ।
    सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा ।
    यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् ।
    अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः ।
    स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।
    अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः ।
    प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति पञ्चमोऽनुवाकः ॥

    असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् ।
    अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य ।
    कश्चन गच्छती३This is a mark for prolonging the vowel in the form  । अऽऽ ।
    आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता३उ । सोऽकामयत ।
    बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा ।
    इद सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा ।
    तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् ।
    निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च ।
    विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् ।
    यदिदं किञ्च । तत्सत्यमित्याचक्षते ।
    तदप्येष श्लोको भवति ॥ १॥ इति षष्ठोऽनुवाकः ॥

    असद्वा इदमग्र आसीत् । ततो वै सदजायत ।
    तदात्मान स्वयमकुरुत ।
    तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत् सुकृतम् । रसो वै सः ।
    रस ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः
    प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ।
    एष ह्येवाऽऽनन्दयाति ।
    यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
    प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।
    यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
    अथ तस्य भयं भवति । तत्वेव भयं विदुषोऽमन्वानस्य ।
    तदप्येष श्लोको भवति ॥ १॥ इति सप्तमोऽनुवाकः ॥

    भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः ।
    भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।
    सैषाऽऽनन्दस्य मीमासा भवति ।
    युवा स्यात्साधुयुवाऽध्यायकः ।
    आशिष्ठो दृढिष्ठो बलिष्ठः ।
    तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
    स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १॥

    स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।
    स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं देवगन्धर्वाणामानन्दाः ।
    स एकः पितृणां चिरलोकलोकानामानन्दः ।
    श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं पितृणां चिरलोकलोकानामानन्दाः ।
    स एक आजानजानां देवानामानन्दः ॥ २॥

    श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं आजानजानां देवानामानन्दाः ।
    स एकः कर्मदेवानां देवानामानन्दः ।
    ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं कर्मदेवानां देवानामानन्दाः ।
    स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः ॥ ३॥

    श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः ।
    स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः ।
    श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः ।
    स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ ४॥

    स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।
    स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
    एतमन्नमयमात्मानमुपसङ्क्रामति ।
    एतं प्राणमयमात्मानमुपसङ्क्रामति ।
    एतं मनोमयमात्मानमुपसङ्क्रामति ।
    एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
    एतमानन्दमयमात्मानमुपसङ्क्रामति ।
    तदप्येष श्लोको भवति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥

    यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
    आनन्दं ब्रह्मणो विद्वान् ।
    न बिभेति कुतश्चनेति । एत ह वाव न तपति ।
    किमह साधु नाकरवम् । किमहं पापमकरवमिति ।
    स य एवं विद्वानेते आत्मान स्पृणुते ।
    उभे ह्येवैष एते आत्मान स्पृणुते । य एवं वेद ।
    इत्युपनिषत् ॥ १॥ इति नवमोऽनुवाकः ॥

    ॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    भृगुर्वै वारुणिः । वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ।
    अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
    त होवाच । यतो वा इमानि भूतानि जायन्ते ।
    येन जातानि जीवन्ति ।
    यत्प्रयन्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति प्रथमोऽनुवाकः ॥

    अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि
    भुतानि जायन्ते । अन्नेन जातानि जीवन्ति ।
    अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।
    त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति द्वितीयोऽनुवाकः ॥

    प्राणो ब्रह्मेति व्यजानात् ।
    प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते ।
    प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति ।
    तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । त होवाच ।
    तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति तृतीयोऽनुवाकः ॥

    मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि
    भूतानि जायन्ते । मनसा जातानि जीवन्ति ।
    मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।
    त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति चतुर्थोऽनुवाकः ॥

    विज्ञानं ब्रह्मेति व्यजानात् ।
    विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते ।
    विज्ञानेन जातानि जीवन्ति ।
    विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।
    त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति पञ्चमोऽनुवाकः ॥

    आनन्दो ब्रह्मेति व्यजानात् ।
    आनन्दाध्येव खल्विमानि भूतानि जायन्ते ।
    आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ।
    सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता ।
    स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति ।
    महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ।
    महान् कीर्त्या ॥ १॥ इति षष्थोऽनुवाकः ॥

    अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् ।
    शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् ।
    शरीरे प्राणः प्रतिष्ठितः । तदेतदन्न्मन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

    इति सप्तमोऽनुवाकः ॥

    अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् ।
    ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् ।
    ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

    इत्यष्टमोऽनुवाकः ॥

    अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् ।
    आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः ।
    आकाशे पृथिवी प्रतिष्ठिता ।
    तदेतदन्नमन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥ १॥

    इति नवमोऽनुवाकः ॥

    न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।
    तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।
    अराध्यस्मा अन्नमित्याचक्षते ।
    एतद्वै मुखतोऽन राद्धम् ।
    मुखतोऽस्मा अन्न राध्यते ।
    एतद्वै मध्यतोऽन राद्धम् ।
    मध्यतोऽस्मा अन्न राध्यते ।
    एदद्वै अन्ततोऽन्न राद्धम् ।
    अन्ततोऽस्मा अन्न राध्यते ॥ १॥

    य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।
    कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
    इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।
    बलमिति विद्युति ॥ २॥

    यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।
    प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।
    तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
    तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।
    मानवान्भवति ॥ ३॥

     तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
    तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।
    तद्ब्रह्मणः परिमर इत्युपासीत ।
    पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।
    परि येऽप्रिया भ्रातृव्याः ।
    स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४॥

    स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
    एतमन्नमयमात्मानमुपसङ्क्रम्य ।
    एतं प्राणमयमात्मानमुपसङ्क्रम्य ।
    एतं मनोमयमात्मानमुपसङ्क्रम्य ।
    एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।
    एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
    इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
    एतत् साम गायन्नास्ते । हा३वु हा३वु हा३वु ॥ ५॥

    अहमन्नमहमन्नमहमन्नम् ।
    अहमन्नादो३-अहमन्नादो३-अहमन्नादः ।
    अह श्लोककृदह श्लोककृदह श्लोककृत् ।
    अहमस्मि प्रथमजा ऋता३स्य ।
    पूर्वं देवेभ्योऽमृतस्य ना३भायि ।
    यो मा ददाति स इदेव मा३-अऽवाः ।
    अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् ।
    सुवर्न ज्योतिः । य एवं वेद । इत्युपनिषत् ॥ ६॥

    इति दशमोऽनुवाकः ॥

    ॥ इति भृगुवल्ली समाप्ता ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
           ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

                       ॥ हरिः ॐ ॥

    No comments

    Post Top Ad

    Post Bottom Ad