Header Ads

  • Breaking News

    अथ जाबालोपनिषत् ॥ Astro Classes, Silvassa.

    अथ जाबालोपनिषत् ॥ Astro Classes, Silvassa.

    जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
    वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ   शान्तिः   शान्तिः   शान्तिः ॥

    ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
    देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
    अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
    भूतानां ब्रह्मसदनम् ।
    तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
    इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
    भूतानां ब्रह्मसदनम् ॥

    अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
    व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
    तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
    विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १॥

    अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
    आत्मा तं कथमहं विजानीयामिति ॥

    स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
    एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥

    सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नाश्यां च
    मध्ये प्रतिष्ठित इति ॥

    का वै वरणा का च नाशीति ।
    सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥

    सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥

    कतमं चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः
    सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै
    सन्धिं सन्ध्यां ब्रह्मविद उपासत इति । सोऽविमुक्त उपास्य इति
    । सोऽविमुक्तं ज्ञानमाचष्टे । यो वैतदेवं वेदेति ॥ २॥

    अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥

    स होवाच याज्ञवल्क्यः । शतरुद्रियेणेत्येतान्येव ह वा
    अमृतस्य नामानि ॥

    एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥ ३॥

    अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
    भगवन्संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः ।
    ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी
    भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
    ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥

    अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
    वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
    तद्धैके प्राजापत्यामेवेष्टि,न् कुर्वन्ति । तदु तथा न
    कुर्यादाग्नेयीमेव कुर्यात् ॥

    अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥

    त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत
    सत्त्वं रजस्तम इति ॥

    अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः । तं
    प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् । इत्यनेन
    मन्त्रेणाग्निमाजिघ्रेत् ॥

    एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
    स्वाहेत्येवमेवैतदाह ॥

    ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥

    यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः
    सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
    प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
    वदेत् । एतद्ब्रह्मैतदुपासितव्यम् । एवमेवैतद्भगवन्निति वै
    याज्ञवल्क्यः ॥ ४॥

    अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
    याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति । स होवाच
    याज्ञवल्क्यः । इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
    प्राश्याचम्यायं विधिः परिव्राजकानाम् । वीराध्वाने वा
    अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
    । अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
    भैक्षणो ब्रह्मभूयाय भवतीति । यद्यातुरः स्यान्मनसा
    वाचा संन्यसेत् । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
    संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥ ५॥

    तत्र
    परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड
    भरतदत्तात्रेयरैवतक-
    प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता
    उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
    जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
    भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥

    यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
    सम्यक्सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं
    यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण
    लाभालाभयोः समो भूत्वा
    शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्
    निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु
    तेष्वनिकेतवास्य प्रयत्नो निर्ममः
    शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
    निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
    नाम परमहंसो नामेति ॥ ६॥

    ॐ पूर्णमद इति शातिः ॥

    इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad