Header Ads

  • Breaking News

    अथ श्रीगणपत्यथर्वशीर्षोपनिषत् ॥ Astro Classes, Silvassa.

    अथ श्रीगणपत्यथर्वशीर्षोपनिषत् ॥ Astro Classes, Silvassa.

    यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
    गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः

    स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति
    नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं
    कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।त्वमेव
    सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥ १॥

    ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव
    श्रोतारम् ॥ २॥

    अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव
    पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव
    चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥

    त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं
    सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो
    विज्ञानमयोऽसि ॥ ४॥

    सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति ।
    सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
    त्वं भूमिरापोऽनलोऽनिलो नभः ।त्वं चत्वारि वाक्पदानि ॥ ५॥

    त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
    त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं
    शक्तित्रयात्मकः ।त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं
    विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
    चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥

    गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । अनुस्वारः परतरः ।
    अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकारः
    पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् ।
    बिन्दुरुत्तररूपम् ंआदः सन्धानम् । संहिता सन्धिः । सैषा
    गणेशविद्या । गणक ऋषिः । निचृद्गायत्री छन्दः ।
    श्रीमहागणपतिर्देवता । ॐ गं गणपतये नमः ॥ ७॥

    एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
    तन्नो दन्तिः प्रचोदयात् ॥ ८॥

    एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं
    हस्तैर्बिभ्राणं मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं
    रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
    भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च
    सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । एवं ध्यायति यो नित्यं स
    योगी योगिनां वरः ॥ ९॥

    नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु
    लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये
    नमः ॥ १०॥

    एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स
    सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते । स पञ्चमहापापात्
    प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति ।
    प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः
    प्रयुञ्जानः पापोऽपापो भवति । धर्मार्थकाममोक्षं च विन्दति ।
    इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद् दास्यति । स
    पापीयान् भवति । सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन
    साधयेत् ॥ ११॥

    अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नन्
    जपति । स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं
    विद्यान्न बिभेति कदाचनेति ॥ १२॥

    यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति । स
    यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स
    वाञ्छितफलमवाप्नोति । यः साज्य समिद्भिर्यजति । स सर्वं लभते
    स सर्वं लभते ॥ १३॥

    अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति ।
    सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा । सिद्धमन्त्रो भवति
    । महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते । महापापात्
    प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद्भवति स
    सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ १४॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति
    नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति गणपत्युपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad