Header Ads

  • Breaking News

    अथ तारसारोपनिषत् ॥ Astro Classes, Silvassa.

    अथ तारसारोपनिषत् ॥ Astro Classes, Silvassa.

    यन्नारायणतारार्थसत्यज्ञानसुखाकृति ।
    त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    हरिः ॐ ॥

    बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां
    देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र
    क्वचन गच्घ्छेत्तदेव मन्येतेति । इदं वै कुरुक्षेत्रं देवानां
    देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः
    प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे
    येनासावमृतीभूत्वा मोक्षी भवति । तस्मादविमुक्तमेव  निषेवेत ।
    अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥

    अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् ।
    किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति
    तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् ।
    नम इति द्व्यक्षरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्षरं
    परम्ब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा
    भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति ।
    रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति ।
    यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेद
    परमपुरुषो भवति ।
    अयमृग्वेदः प्रथमः पादः ॥ १॥

    ॐइत्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव
    सूक्ष्माष्टाक्षरं भवति । तदेतदष्टात्मकोऽष्टधा
    भवति । अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति ।
    मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः
    पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता
    सप्तमाक्षरो भवति । तत्परश्चाष्टमाक्षरो भवति ।
    तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि ।
    तदेवोपासितव्यम् ॥ अत्रैते श्लोका भवन्ति ॥

    अकारादभवद्ब्रह्मा जाम्बवानितिसञ्ज्ञकः ।
    उकाराक्षरसम्भूत उपेन्द्रो हरिनायकः ॥ १॥

    मकाराक्षरसम्भूतः शिवस्तु हनुमान्स्मृतः ।
    बिन्दुरीश्वरसञ्ज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥

    नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः ।
    कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः ॥ ३॥

    कलातीता भगवती स्वयं सीतेति सञ्ज्ञिता ।
    तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥

    ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं
    भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो
    ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद ।
    यजुर्वेदो द्वितीयः पादः ॥ २॥

    अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः
    परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि
    भगव इति । स होवाच याज्ञवल्क्यः ।
    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो
    जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य
    उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः
    शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ३॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः
    शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो
    भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो
    लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥

    ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता
    भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥

    यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।
    उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः
    शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो
    भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता
    चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः
    परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य-
    परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि
    भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥

    एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो
    भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति । स सर्वैर्देवैर्ज्ञातो
    भवति । तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि
    भवन्ति । श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः
    शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति ।
    दशपूर्वान्दशोत्तरान्पुनाति । नारायणपदमवाप्नोति य एवं वेद ।
    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥

    इत्युपनिषत् ॥

    सामवेदस्तृतीयः पादः ॥ ३॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति तारसारोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad