सामवेद संहिता कौथुम शाखा, नवम प्रपाठकः । तृतीयोऽर्धः ।। Astro Classes, Silvassa.
सामवेद संहिता कौथुम शाखा । नवम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.
।। पूर्वार्चिकः ।। छन्द आर्चिकः ।।
।। आग्नेयं काण्डम् ।।
।। नवम प्रपाठकः । तृतीयोऽर्धः ।।
४ ९ ३ ०१०१a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
४ ९ ३ ०१०१c सङ्क्रन्दनोऽनिमिष एकवीरः शतँ सेना अजयत्साकमिन्द्रः ॥ १८४९
४ ९ ३ ०१०२a सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
४ ९ ३ ०१०२c तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १८५०
४ ९ ३ ०१०३a स इषुहस्तैः स निषङ्गिभिर्वशी सँस्रष्टा स युध इन्द्रो गणेन ।
४ ९ ३ ०१०३c सँ सृष्टजित्सोमपा बाहुशर्ध्यू३ग्रधन्वा प्रतिहिताभिरस्ता ॥ १८५१
४ ९ ३ ०२०१a बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः ।
४ ९ ३ ०२०१c प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ १८५२
४ ९ ३ ०२०२a बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
४ ९ ३ ०२०२c अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ १८५३
४ ९ ३ ०२०३a गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
४ ९ ३ ०२०३c इमँ सजाता अनु वीरयध्वमिन्द्रँ सखायो अनु सँ रभध्वम् ॥ १८५४
४ ९ ३ ०३०१a अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
४ ९ ३ ०३०१c दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकँ सेना अवतु प्र युत्सु ॥ १८५५
४ ९ ३ ०३०२a इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
४ ९ ३ ०३०२c देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥ १८५६
४ ९ ३ ०३०३a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताँ शर्ध उग्रम् ।
४ ९ ३ ०३०३c महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ १८५७
४ ९ ३ ०४०१a उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाँसि ।
४ ९ ३ ०४०१c उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥ १८५८
४ ९ ३ ०४०२a अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
४ ९ ३ ०४०२c अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥ १८५९
४ ९ ३ ०४०३a असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना ।
४ ९ ३ ०४०३c तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् ॥ १८६०
४ ९ ३ ०५०१a अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
४ ९ ३ ०५०१c अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥ १८६१
४ ९ ३ ०५०२a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
४ ९ ३ ०५०२c उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥ १८६२
४ ९ ३ ०५०३a अवसृष्टा परा पत शरव्ये ब्रह्मसँशिते ।
४ ९ ३ ०५०३c गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥ १८६३
४ ९ ३ ०६०१a कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना ।
४ ९ ३ ०६०१c मैषां मोच्यघहारश्च नेन्द्र वयाँस्येनाननुसंयन्तु सर्वान् ॥ १८६४
४ ९ ३ ०६०२a अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि ।
४ ९ ३ ०६०२c उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ॥ १८६५
४ ९ ३ ०६०३a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
४ ९ ३ ०६०३c तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ १८६६
४ ९ ३ ०७०१a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
४ ९ ३ ०७०१c वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥ १८६७
४ ९ ३ ०७०२a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
४ ९ ३ ०७०२c यो अस्माँ अभिदासत्यधरं गमया तमः ॥ १८६८
४ ९ ३ ०७०३a इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
४ ९ ३ ०७०३c तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणाँ सहो महत् ॥ १८६९
४ ९ ३ ०८०१a मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
४ ९ ३ ०८०१c उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ १८७०
४ ९ ३ ०८०२a अन्धा अमित्रा भवताशीर्षाणोऽहय इव ।
४ ९ ३ ०८०२c तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥ १८७१
४ ९ ३ ०८०३a यो नः स्वोऽरणो यश्च निष्ट्यो जिघाँसति ।
४ ९ ३ ०८०३c देवास्तँ सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरँ शर्म वर्म ममान्तरम् ॥ १८७२
४ ९ ३ ०९०१a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
४ ९ ३ ०९०१c सृकँ सँशाय पविमिन्द्र तिग्मं वि शत्रूं ताढि वि मृधो नुदस्व ॥ १८७३
४ ९ ३ ०९०२a भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
४ ९ ३ ०९०२c स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ १८७४
४ ९ ३ ०९०३a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
४ ९ ३ ०९०३c स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
४ ९ ३ ०९०३e ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ १८७५
॥ इत्युत्तरार्चिकः ॥
॥ इति सामवेदसंहिता समाप्ता ॥

No comments