Header Ads

  • Breaking News

    अथ नादबिन्दूपनिषत् ॥ Astro Classes, Silvassa.

    अथ नादबिन्दूपनिषत् ॥

    (ऋग्वेदीय योगोपनिषत्)

    वैराजात्मोपासनया सञ्जातज्ञानवह्निना ।
    दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्टितम् ।
            आविरावीर्म एधि । वेदस्य मा आणीस्थः ।श्रुतं मे मा
    प्रहासीः ।
            अनेनाधीतेनाहोरात्रान्सन्दधामि ।
            ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
            तन्मामवतु । तद्वक्तारमवतु ।
            अवतु मामवतु वक्तारम् ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः ।
    मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥ १॥

    पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते ।
    धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः ॥ २॥

    भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि ।
    सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३॥

    जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः ।
    भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥

    सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः ।
    एवमेतां समारूढो हंसयोगविचक्षणः ॥ ५॥

    न भिद्यते कर्मचारैः पापकोटिशतैरपि ।
    आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥ ६॥

    भानुमण्डलसङ्काशा भवेन्मात्रा तथोत्तरा ।
    परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥ ७॥

    कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः ।
    एष ओङ्कार आख्यातो धारणाभिर्निबोधत ॥ ८॥

    घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा ।
    पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ ९॥

    पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते ।
    सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥ १०॥

    नवमी महती नाम धृतिस्तु दशमी मता ।
    एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥ ११॥

    प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते ।
    भरते वर्षराजासौ सार्वभौमः प्रजायते ॥ १२॥

    द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् ।
    विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका ॥ १३॥

    पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते ।
    उषितः सह देवत्वं सोमलोके महीयते ॥ १४॥

    षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ।
    अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ १५॥

    नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् ।
    एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ १६॥

    ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् ।
    सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ १७॥

    अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।
    अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥ १८॥

    तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् ।
    संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ १९॥

    ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः ।
    तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥ २०॥

    आत्मानं सततं ज्ञात्वा कालं नय महामते ।
    प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ २१॥

    उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति ।
    तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥ २२॥

    देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः ।
    कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥ २३॥

    तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।
    स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥ २४॥

    अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः ।
    उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥ २५॥

    अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ।
    यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ २६॥

    तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ।
    रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ॥ २७॥

    अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते ।
    देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः ॥ २८॥

    अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते ।
    ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥ २९॥

    ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः ।
    स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥ ३०॥

    सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् ।
    शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा ॥ ३१॥

    अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् ।
    पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥ ३२॥

    श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् ।
    वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥ ३३॥

    आदौ जलधिमूतभेरीनिर्झरसम्भवः ।
    मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥ ३४॥

    अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः ।
    इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥ ३५॥

    महति श्रूयमाणे तु महाभेर्यादिकध्वनौ ।
    तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥ ३६॥

    घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने ।
    रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ३७॥

    यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
    तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते ॥ ३८॥

    विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः ।
    एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९॥

    उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी ।
    उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥ ४०॥

    सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः ।
    नादमेवानुसन्दध्यान्नादे चित्तं विलीयते ॥ ४१॥

    मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा ।
    नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥ ४२॥

    बद्धः सुनादगन्धेन सद्यः सन्त्यक्तचापलः ।
    नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥ ४३॥

    विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति ।
    मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥ ४४॥

    नियामनसमर्थोऽयं निनादो निशिताङ्कुशः ।
    नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ॥ ४५॥

    अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च ।
    ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥ ४६॥

    मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।
    तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते ॥ ४७॥

    निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते ।
    नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी ॥ ४८॥

    सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् ।
    सदा नादानुसन्धानात्सङ्क्षीणा वासना भवेत् ॥ ४९॥

    निरञ्जने विलीयेते मनोवायू न संशयः ।
    नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५०॥

    सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके ।
    सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥ ५१॥

    मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ।
    शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन ॥ ५२॥

    काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् ।
    न जानाति स शीतोष्णं न दुःखं न सुखं तथा ॥ ५३॥

    न मानं नावमानं च सन्त्यक्त्वा तु समाधिना ।
    अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥ ५४॥

    जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ ५५॥

    दृष्टिः स्थिरा यस्य विना सदृश्यम्
           वायुः स्थिरो यस्य विना प्रयत्नम् ।
    चित्तं स्थिरं यस्य विनावलम्बम्
           स ब्रह्मतारान्तरनादरूपः ॥ ५६॥

    इत्युपनिषत् ॥

    ॐ वाङ्मे मनसीति शान्तिः ॥

    इति नादबिन्दूपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad