Header Ads

  • Breaking News

    अथ कठोपनिषद् ॥ Astro Classes, Silvassa.

    ॥ कठोपनिषत् ॥

        ॐ
      ॥ अथ कठोपनिषद् ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

      ॐ शान्तिः शान्तिः शान्तिः ॥


    ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
    तस्य ह नचिकेता नाम पुत्र आस ॥ १॥

    तँ ह कुमारँ सन्तं दक्षिणासु
    नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥

    पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
    अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥

    स होवाच पितरं तत कस्मै मां दास्यसीति ।
    द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥

    बहूनामेमि प्रथमो  बहूनामेमि मध्यमः ।
    किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥

    अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
    सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥

    वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
    तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥

    आशाप्रतीक्षे सङ्गतँ सूनृतां
        चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
    एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
        यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥

    तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
        ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
    नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
        तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥

    शान्तसङ्कल्पः सुमना यथा स्याद्
        वीतमन्युर्गौतमो माऽभि मृत्यो ।
    त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत
        एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥

    यथा पुरस्ताद् भविता प्रतीत
        औद्दालकिरारुणिर्मत्प्रसृष्टः ।
    सुखँ रात्रीः शयिता वीतमन्युः
        त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥

    स्वर्गे लोके न भयं किञ्चनास्ति
        न तत्र त्वं न जरया बिभेति ।
    उभे तीर्त्वाऽशनायापिपासे
        शोकातिगो मोदते स्वर्गलोके ॥ १२॥

    स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
        प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
    स्वर्गलोका अमृतत्वं भजन्त
        एतद् द्वितीयेन वृणे वरेण ॥ १३॥

    प्र ते ब्रवीमि तदु मे निबोध
        स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
    अनन्तलोकाप्तिमथो प्रतिष्ठां
        विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥

    लोकादिमग्निं तमुवाच तस्मै
        या इष्टका यावतीर्वा यथा वा ।
    स चापि तत्प्रत्यवदद्यथोक्तं
        अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥

    तमब्रवीत् प्रीयमाणो महात्मा
        वरं तवेहाद्य ददामि भूयः ।
    तवैव नाम्ना भविताऽयमग्निः
        सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥

    त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
        त्रिकर्मकृत्तरति जन्ममृत्यू ।
    ब्रह्मजज्ञं देवमीड्यं विदित्वा
        निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥

    त्रिणाचिकेतस्त्रयमेतद्विदित्वा
        य एवं विद्वाँश्चिनुते नाचिकेतम् ।
    स मृत्युपाशान् पुरतः प्रणोद्य
        शोकातिगो मोदते स्वर्गलोके ॥ १८॥

    एष तेऽग्निर्नचिकेतः स्वर्ग्यो
        यमवृणीथा द्वितीयेन वरेण ।
    एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
        तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥

    येयं प्रेते विचिकित्सा मनुष्ये-
        ऽस्तीत्येके नायमस्तीति चैके ।
    एतद्विद्यामनुशिष्टस्त्वयाऽहं
        वराणामेष वरस्तृतीयः ॥ २०॥

    देवैरत्रापि विचिकित्सितं पुरा
        न हि सुविज्ञेयमणुरेष धर्मः ।
    अन्यं वरं नचिकेतो वृणीष्व
        मा मोपरोत्सीरति मा सृजैनम् ॥ २१॥

    देवैरत्रापि विचिकित्सितं किल
        त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
    वक्ता चास्य त्वादृगन्यो न लभ्यो
        नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥

    शतायुषः पुत्रपौत्रान्वृणीष्वा
        बहून्पशून् हस्तिहिरण्यमश्वान् ।
    भूमेर्महदायतनं वृणीष्व
        स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥

    एतत्तुल्यं यदि मन्यसे वरं
        वृणीष्व वित्तं चिरजीविकां च ।
    महाभूमौ नचिकेतस्त्वमेधि
        कामानां त्वा कामभाजं करोमि ॥ २४॥

    ये ये कामा दुर्लभा मर्त्यलोके
        सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।
    इमा रामाः सरथाः सतूर्या
        न हीदृशा लम्भनीया मनुष्यैः ।
    आभिर्मत्प्रत्ताभिः परिचारयस्व
        नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥

    श्वोभावा मर्त्यस्य यदन्तकैतत्
        सर्वेन्द्रियाणां जरयन्ति तेजः ।
    अपि सर्वं जीवितमल्पमेव
        तवैव वाहास्तव नृत्यगीते ॥ २६॥

    न वित्तेन तर्पणीयो मनुष्यो
        लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
    जीविष्यामो यावदीशिष्यसि त्वं
        वरस्तु मे वरणीयः स एव ॥ २७॥

    अजीर्यताममृतानामुपेत्य
        जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
    अभिध्यायन् वर्णरतिप्रमोदान्
        अतिदीर्घे जीविते को रमेत ॥ २८॥

    यस्मिन्निदं विचिकित्सन्ति मृत्यो
        यत्साम्पराये महति ब्रूहि नस्तत् ।
    योऽयं वरो गूढमनुप्रविष्टो
        नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥

    ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥



                Part I
              Canto II
    अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
        स्ते उभे नानार्थे पुरुषँ सिनीतः ।
    तयोः श्रेय आददानस्य साधु
        भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥

    श्रेयश्च प्रेयश्च मनुष्यमेतः
        तौ सम्परीत्य विविनक्ति धीरः ।
    श्रेयो हि धीरोऽभि प्रेयसो वृणीते
        प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥

    स त्वं प्रियान्प्रियरूपांश्च कामान्
        अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
    नैतां सृङ्कां वित्तमयीमवाप्तो
        यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥

    दूरमेते विपरीते विषूची
        अविद्या या च विद्येति ज्ञाता ।
    विद्याभीप्सिनं नचिकेतसं मन्ये
        न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥

    अविद्यायामन्तरे वर्तमानाः
        स्वयं धीराः पण्डितंमन्यमानाः ।
    दन्द्रम्यमाणाः परियन्ति मूढा
        अन्धेनैव नीयमाना यथान्धाः ॥ ५॥

    न साम्परायः प्रतिभाति बालं
        प्रमाद्यन्तं वित्तमोहेन मूढम् ।
    अयं लोको नास्ति पर इति मानी
        पुनः पुनर्वशमापद्यते मे ॥ ६॥

    श्रवणायापि बहुभिर्यो न लभ्यः
        शृण्वन्तोऽपि बहवो यं न विद्युः ।
    आश्चर्यो वक्ता कुशलोऽस्य लब्धा
        आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥

    न नरेणावरेण प्रोक्त एष
        सुविज्ञेयो बहुधा चिन्त्यमानः ।
    अनन्यप्रोक्ते गतिरत्र नास्ति
        अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥

    नैषा तर्केण मतिरापनेया
        प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
    यां त्वमापः सत्यधृतिर्बतासि
        त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥

    जानाम्यहं शेवधिरित्यनित्यं
        न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
    ततो मया नाचिकेतश्चितोऽग्निः
        अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥

    कामस्याप्तिं जगतः प्रतिष्ठां
        क्रतोरानन्त्यमभयस्य पारम् ।
    स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
        धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥

    तं दुर्दर्शं गूढमनुप्रविष्टं
        गुहाहितं गह्वरेष्ठं पुराणम् ।
    अध्यात्मयोगाधिगमेन देवं
        मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥

    एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
        प्रवृह्य धर्म्यमणुमेतमाप्य ।
    स मोदते मोदनीयँ हि लब्ध्वा
        विवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥

    अन्यत्र धर्मादन्यत्राधर्मा-
        दन्यत्रास्मात्कृताकृतात् ।
    अन्यत्र भूताच्च भव्याच्च
        यत्तत्पश्यसि तद्वद ॥ १४॥

    सर्वे वेदा यत्पदमामनन्ति
        तपाꣳसि सर्वाणि च यद्वदन्ति ।
    यदिच्छन्तो ब्रह्मचर्यं चरन्ति
        तत्ते पदꣳ सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥

    एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
    एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥

    एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।
    एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥

    न जायते म्रियते वा विपश्चिन्
        नायं कुतश्चिन्न बभूव कश्चित् ।
    अजो नित्यः शाश्वतोऽयं पुराणो
        न हन्यते हन्यमाने शरीरे ॥ १८॥

    हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
    उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥

    अणोरणीयान्महतो महीया-
        नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
    तमक्रतुः पश्यति वीतशोको
        धातुप्रसादान्महिमानमात्मनः ॥ २०॥

    आसीनो दूरं व्रजति शयानो याति सर्वतः ।
    कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥

    अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
    महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥

    नायमात्मा प्रवचनेन लभ्यो
        न मेधया न बहुना श्रुतेन ।
    यमेवैष वृणुते तेन लभ्यः
        तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥ २३॥

    नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
    नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥

    यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
    मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥

      इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥



                Part I
              Canto III
    ऋतं पिबन्तौ सुकृतस्य लोके
        गुहां प्रविष्टौ परमे परार्धे ।
    छायातपौ ब्रह्मविदो वदन्ति
        पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥

    यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
    अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥

    आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
    बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥

    इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
    आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥

    यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
    तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥

    यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
    तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥

    यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।
    न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥

    यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
    स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥

    विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
    सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥

    इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
    मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥

    महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
    पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११॥

    एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
    दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥

    यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
    ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥

    उत्तिष्ठत जाग्रत
        प्राप्य वरान्निबोधत ।
    क्षुरस्य धारा निशिता दुरत्यया
        दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥

    अशब्दमस्पर्शमरूपमव्ययं
        तथाऽरसं नित्यमगन्धवच्च यत् ।
    अनाद्यनन्तं महतः परं ध्रुवं
        निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥

    नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।
    उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥

    य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
    प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।
    तदानन्त्याय कल्पत इति ॥ १७॥

      इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥



                Part II
              Canto I
    पराञ्चि खानि व्यतृणत् स्वयम्भू-
        स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
    कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
        दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥

    पराचः कामाननुयन्ति बाला-
        स्ते मृत्योर्यन्ति विततस्य पाशम् ।
    अथ धीरा अमृतत्वं विदित्वा
        ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥

    येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् ।
    एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥

    स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
    महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥

    य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
    ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥

    यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
    गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥

    या प्राणेन सम्भवत्यदितिर्देवतामयी ।
    गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥

    अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
    दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥

    यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
    तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥

    यदेवेह तदमुत्र यदमुत्र तदन्विह ।
    मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥

    मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।
    मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥

    अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
    ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥

    अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
    ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥

    यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
    एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥

    यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
    एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥

      इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥



                Part II
              Canto II
    पुरमेकादशद्वारमजस्यावक्रचेतसः ।
    अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥

    हँसः शुचिषद्वसुरान्तरिक्षसद्-
        होता वेदिषदतिथिर्दुरोणसत् ।
    नृषद्वरसदृतसद्व्योमसद्
        अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥

    ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
    मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥

    अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
    देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥

    न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
    इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥

    हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
    यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥

    योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
    स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥

    य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
    तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
    तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥

    अग्निर्यथैको भुवनं प्रविष्टो
        रूपं रूपं प्रतिरूपो बभूव ।
    एकस्तथा सर्वभूतान्तरात्मा
        रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥

    वायुर्यथैको भुवनं प्रविष्टो
        रूपं रूपं प्रतिरूपो बभूव ।
    एकस्तथा सर्वभूतान्तरात्मा
        रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥

    सूर्यो यथा सर्वलोकस्य चक्षुः
        न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
    एकस्तथा सर्वभूतान्तरात्मा
        न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥

    एको वशी सर्वभूतान्तरात्मा
        एकं रूपं बहुधा यः करोति ।
    तमात्मस्थं येऽनुपश्यन्ति धीराः
        तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥

    नित्योऽनित्यानां चेतनश्चेतनानाम्
        एको बहूनां यो विदधाति कामान् ।
    तमात्मस्थं येऽनुपश्यन्ति धीराः
        तेषां शान्तिः  शाश्वती नेतरेषाम् ॥ १३॥

    तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
    कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥

    न तत्र सूर्यो भाति न चन्द्रतारकं
        नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
    तमेव भान्तमनुभाति सर्वं
        तस्य भासा सर्वमिदं विभाति ॥ १५॥

      इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥



                Part II
              Canto III
    ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः ।
    तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
    तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥

    यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
    महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥

    भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
    भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥

    इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।
    ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥

    यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
    यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
      छायातपयोरिव ब्रह्मलोके ॥ ५॥

    इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
    पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥

    इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
    सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥

    अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
    यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥

    न सन्दृशे तिष्ठति रूपमस्य
        न चक्षुषा पश्यति कश्चनैनम् ।
    हृदा मनीषा मनसाऽभिक्लृप्तो
        य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥

    यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
    बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥

    तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
    अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥

    नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
    अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥

    अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
    अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥

    यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
    अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥

    यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
    अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥

    शतं चैका च हृदयस्य नाड्य-
        स्तासां मूर्धानमभिनिःसृतैका ।
    तयोर्ध्वमायन्नमृतत्वमेति
        विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥

    अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
        सदा जनानां हृदये संनिविष्टः ।
    तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
    तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥

    मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
        विद्यामेतां योगविधिं च कृत्स्नम् ।
    ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
        रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥

    सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥

      ॐ शान्तिः शान्तिः शान्तिः ॥

      इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

      ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ तत् सत् ॥

    No comments

    Post Top Ad

    Post Bottom Ad