Header Ads

  • Breaking News

    अथ दक्षिणामूर्त्युपनिषत् ॥ Astro Classes, Silvassa.

    अथ दक्षिणामूर्त्युपनिषत् ॥ Astro Classes, Silvassa.

    यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।
    महामौनपदं याति स हि मे परमा गतिः ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
    महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
    मार्कण्डेयं चिरऽजीविनमुपसमेत्य पप्रच्छुः केन त्वं
    चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिव-
    तत्त्वज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
    तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा ।
    किं तज्ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः ।
    किं तत्स्थानमिति । स होवाच । येन दक्षिणामुखः शिवोऽपरोक्षीकृतो
    भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यः सर्वोपरमे काले
    सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते
    वा स देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा
    दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः ।
    देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौ नम उच्चार्य
    ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ॥ १॥

    अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
    समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
    अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ २॥

    ध्यानम् ॥

    स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
         ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
    दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
         विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ३॥

    मन्त्रेण न्यासः ।
    आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
    पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
    अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ४॥

    मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
        जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
    आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
        दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ ५॥

    मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -
    तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
    दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६॥

    ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
    मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७॥

    भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला-
         वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
    व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
         सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८॥

    मन्त्रेण न्यासः । [ब्रह्मर्षिन्यासः ।]
    तारं परं रमाबीजं वदेत्साम्बशिवाय च ।
    तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ ९॥

    वीणां करैः पुस्तकमक्षमालां
         बिभ्राणमभ्राभगलं वराढ्यम् ।
    फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
         सेव्यं वटाधः कृतनीडमीडे ॥ १०॥

    विष्णू ऋषिरनुष्टुप् छन्दः । देवता दक्षिणास्यः ।
    मन्त्रेण न्यासः ।
    तारं नमो भगवते तुभ्यं वटपदं ततः ।
    मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ ११॥

    प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् ।
    दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १२॥

    वागीशाय ततः पश्चान्महाज्ञानपदं ततः ।
     वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः ।
    आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १३॥

    ध्यानम् ।
    मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
       मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
    अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
       न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १४॥

    मौनमुद्रा ।
    सोऽहमिति यावदास्थितिः सनिष्ठा भवति ।
    तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ।
    चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः ।
    त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।
    ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
    कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति ।
    स होवाच ।
    वैराग्यतैलसम्पूर्णे भक्तिवर्तिसमन्विते ।
    प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ १५॥

    मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
    वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ १६॥

    गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
    मोहभानुजसङ्क्रान्तं विवेकाख्यं मृकण्डुजम् ॥ १७॥

    तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
    उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ १८॥

    शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
    दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ १९॥

    सर्गादिकाले भगवान्विरिञ्चि-
         रुपास्यैनं सर्गसामर्थ्यमाप्य ।
    तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
         धन्यः सोपास्योपासको भवति धाता ॥ २०॥

    य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
    य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad