Header Ads

  • Breaking News

    शुक्लयजुर्वेदीय पुरुषसूक्तः ।। Astro Classes, Silvassa.

    अथ शुक्लयजुर्वेदीय पुरुषसूक्तः।। Astro Classes, Silvassa.

    हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
    स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥

    पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् ।
    उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥

    एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
    पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥

    त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
    ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥

    ततो विराडजायत विराजो अधि पूरुषः ।
    स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥

    तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
    पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥

    तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
    छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥

    तस्मादश्वा अजायन्त ये के चोभयादतः ।
    गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥

    तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
    तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥

    यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
    मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥

    ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
    ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥

    चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
    श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥

    नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।
    पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥

    यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
    वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥

    सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
    देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥

    यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
    ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥

    ॥ इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम्॥

    No comments

    Post Top Ad

    Post Bottom Ad