Header Ads

  • Breaking News

    अथ कठरुद्रोपनिषत् ॥ Astro Classes, Silvassa.

    अथ कठरुद्रोपनिषत् ॥ Astro Classes, Silvassa.

    परिव्रज्याधर्मपूगालङ्कारा यत्पदं ययुः ।
    तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥

    ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    हरिः ॐ ॥ देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् ।
    स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं
    निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कार-
    स्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं
    प्रतिष्ठाऽसीति वदेत् । अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं
    वषट्कारोऽहमोङ्कारोऽहं स्वाहाहं स्वधाहं धाताहं
    विधाताहं त्वष्टाहं प्रतिष्ठास्मीति ।
    तान्येतान्यनुव्रजन्नाश्रुमापातयेत् ।
    यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् ।
    प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति ।
    स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो
    दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च
    शक्तितो यज्ञैः । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ।
    सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् ।
    द्वादशरात्रं पयोभक्षा स्यात् । द्वादशरात्रस्यान्ते
    अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं
    वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ
    जुहुयात् । मृण्मयान्यप्सु जुहुयात् । तैजसानि गुरवे दद्यात् ।
    मा त्वं मामपहाय परागाः । नाहं त्वामपहाय परागामिति ।
    गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं
    पिबेदित्येके । सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं
    भूःस्वाहेत्यप्सु जुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेश-
    मग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा
    गच्छेत् । पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः । यत्प्रातः
    सोऽयं प्रातः । यद्दर्शे तद्दर्शनम् । यत्पौर्णमास्ये  तत्पौर्णमास्यम् ।
    यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः ।
    संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्म-
    मन्त्रान्पठेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् ।
    अनिकेतश्चरेत् । भिक्षाशी यत्किञ्चिन्नाद्यात् । लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । तदपि श्लोका भवन्ति ।
    कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ ।
    शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ १॥

    पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च ।
    यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥ २॥

    स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् ।
    नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ३॥

    नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् ।
    स्तूयमानो न तुषेत निन्दितो न शपेत्परान् ॥ ४॥

    ब्रह्मचर्येण सन्तिष्ठेदप्रमादेन मस्करी ।
    दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ॥ ५॥

    सङ्कल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च ।
    एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ६॥

    विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः ।
    यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ७॥

    स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ।
    प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥ ८॥

    न कर्मणा न प्रजया न चान्येनापि केचित् ।
    ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ॥ ९॥

    तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ।
    संसारे च गुहावाच्ये मायाज्ञानादिसञ्ज्ञके ॥ १०॥

    निहितं ब्रह्म यो वेद परमे व्योम्नि सञ्ज्ञिते ।
    सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥ ११॥

    प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् ।
    एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥ १२॥

    ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् ।
    अपञ्चीकृत आकाशसम्भूतो रज्जुसर्पवत् ॥ १३॥

    आकाशाद्वायुसञ्ज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।
    वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ १४॥

    तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा ।
    तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ १५॥

    ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः ।
    मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥ १६॥

    अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् ।
    योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ १७॥

    ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः ।
    ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ १८॥

    आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः ।
    योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ १९॥

    मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ।
    तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥ २०॥

    आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् ।
    तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ २१॥

    सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् ।
    यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥ २२॥

    सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् ।
    सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ २३॥

    असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
    को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ २४॥

    तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः ।
    आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ २५॥

    यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
    निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥ २६॥

    तदेवाभयमत्यन्तकल्याणं परमामृतम् ।
    सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥ २७॥

    यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
    विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ २८॥

    अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ।
    भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ २९॥

    तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
    स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥ ३०॥

    निमित्तं किञ्चिदाश्रित्य खलु शब्दः प्रवर्तते ।
    यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ ३१॥

    निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।
    तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ ३२॥

    यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ।
    व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥ ३३॥

    तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
    विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ३४॥

    एवं यस्तु विजानाति स्वगुरोरुपदेशतः ।
    स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ३५॥

    ताप्यतापकरूपेण विभातमखिलं जगत् ।
    प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ३६॥

    शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
    प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७॥

    इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ।
    मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ ३८॥

    मायासम्बन्धतश्चेशो जीवोऽविद्यावशस्तथा ।
    अन्तःकरणसम्बन्धात्प्रमातेत्यभिधीयते ॥ ३९॥

    तथा तद्वृत्तिसम्बन्धात्प्रमाणमिति कथ्यते ।
    अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ ४०॥

    तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ।
    सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥ ४१॥

    एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते ।
    सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२॥

    स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ इत्युपनिषत् ॥

    ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    इति कठरुद्रोपनिषत्समाप्ता ॥

    No comments

    Post Top Ad

    Post Bottom Ad