Header Ads

  • Breaking News

    ईशोपनिषत् ॥ Astro Classes, Silvassa.

    ॥ ईशोपनिषत् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

           ॐ शान्तिः शान्तिः शान्तिः ॥

           ॥ अथ ईशोपनिषत् ॥

    ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् ।
    तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥

    कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
    एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥

    असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
    ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥

    अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
    तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥

    तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
    तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥

    यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
    सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥

    यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
    तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥

    स पर्यगाच्छुक्रमकायमव्रण-
         मस्नाविरꣳ शुद्धमपापविद्धम् ।
    कविर्मनीषी परिभूः स्वयम्भू-
         र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥

    अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
    ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥

    अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
    इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥

    विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
    अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥

    अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
    ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२॥

    अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
    इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥

    सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
    विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥

    हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
    तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥

    पूषन्नेकर्षे यम सूर्य प्राजापत्य
         व्यूह रश्मीन् समूह तेजः ।
    यत्ते रूपं कल्याणतमं तत्ते पश्यामि
         योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥

    वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम् ।
    ॐ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर ॥ १७॥

    अग्ने नय सुपथा राये अस्मान्
         विश्वानि देव वयुनानि विद्वान् ।
    युयोध्यस्मज्जुहुराणमेनो
         भूयिष्ठां ते नम‍उक्तिं विधेम ॥ १८॥

          ॥ इति ईशोपनिषत् ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

          ॐ शान्तिः शान्तिः शान्तिः ॥

    No comments

    Post Top Ad

    Post Bottom Ad