Header Ads

  • Breaking News

    अथ चाक्षुषोपनिषत् ॥ Astro Classes, Silvassa.

    अथ चाक्षुषोपनिषत् ॥ Astro Classes, Silvassa.

    अस्याश्वक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिः ।
    गायत्री छन्दः । सूर्योदेवता । चक्षूरोगनिवृत्तये विनियोगः ।

    ॐ चक्षुः चक्षुः चक्षुः तेजस्थिरोभव । मां पाहि पाहि ।
    त्वरितम् चक्षूरोगान् शमय शमय । ममाजातरूपं तेजो
    दर्शय दर्शय । यथाहमन्धोनस्यां तथा कल्पय कल्पय ।
    कल्याण कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक
    दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ।
    ॐ नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
    ॐ नमः कल्याणकराय अमृताय । ॐ नमः सूर्याय ।
    ॐ नमो भगवते सूर्याय अक्षितेजसे नमः ।
    खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः ।
    असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।
    मृत्योर्मा अमृतं गमय । उष्णो भगवान्छुचिरूपः ।
    हंसो भगवान् शुचिप्रतिरूपः । य इमां चाक्षुष्मतीं
    विद्यां ब्राह्मणो नित्यमधीयते न तस्य अक्षिरोगो भवति ।
    न तस्य कुले अन्धो भवति । न तस्य कुले अन्धो भवति ।
    अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ।
    विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं
    तपन्तं सहस्ररश्मिः शतधावर्तमानः पुरःप्रजानामुदयत्येष
    सूर्यः । ॐ नमो भगवते आदित्याय ।

    चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
    चक्षुर्धाता दधातु नः । चक्षुर्नो धेहि चक्षुषे
    चक्षुर्विख्ये तनूच्यः । सञ्चेदं विच पश्येम ।
    सुसन्दृशन्त्वा वयं प्रति पश्येम सूर्य । विपश्येम नृचक्षसः ॥

    ऋग्वेद १०-१५८

    No comments

    Post Top Ad

    Post Bottom Ad