Header Ads

  • Breaking News

    सामवेद संहिता कौथुम शाखा । पञ्चम प्रपाठकः । द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

    सामवेद संहिता कौथुम शाखा ।  पञ्चम प्रपाठकः ।  द्वितीयोऽर्धः ।। Astro Classes, Silvassa.

                              ।।  पूर्वार्चिकः      ।।      छन्द आर्चिकः  ।।

                                          ।।  आग्नेयं काण्डम् ।।

                                ।।  पञ्चम प्रपाठकः ।  द्वितीयोऽर्धः ।।
       ४ ५ २ ०१ ०१a  अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
       ४ ५ २ ०१ ०१c  वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ १२५३
       ४ ५ २ ०१ ०२a  मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
       ४ ५ २ ०१ ०२c  मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥ १२५४
       ४ ५ २ ०१ ०३a  महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
       ४ ५ २ ०१ ०३c  अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ १२५५

       ४ ५ २ ०२ ०१a  एष देवो अमर्त्यः पर्णवीरिव दीयते ।
       ४ ५ २ ०२ ०१c  अभि द्रोणान्यासदम् ॥ १२५६
       ४ ५ २ ०२ ०२a  एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
       ४ ५ २ ०२ ०२c  दधद्रत्नानि दाशुषे ॥ १२५७
       ४ ५ २ ०२ ०३a  एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
       ४ ५ २ ०२ ०३c  पवमानः सिषासति ॥ १२५८
       ४ ५ २ ०२ ०४a  एष देवो रथर्यति पवमानो दिशस्यति ।
       ४ ५ २ ०२ ०४c  आविष्कृणोति वग्वनुम् ॥ १२५९
       ४ ५ २ ०२ ०५a  एष देवो विपन्युभिः पवमान ऋतायुभिः ।
       ४ ५ २ ०२ ०५c  हरिर्वाजाय मृज्यते ॥ १२६०
       ४ ५ २ ०२ ०६a  एष देवो विपा कृतोऽति ह्वराँसि धावति ।
       ४ ५ २ ०२ ०६c  पवमानो अदाभ्यः ॥ १२६१
       ४ ५ २ ०२ ०७a  एष दिवं वि धावति तिरो रजाँसि धारया ।
       ४ ५ २ ०२ ०७c  पवमानः कनिक्रदत् ॥ १२६२
       ४ ५ २ ०२ ०८a  एष दिवं व्यासरत्तिरो रजाँस्यस्पृतः ।
       ४ ५ २ ०२ ०८c  पवमानः स्वध्वरः ॥ १२६३
       ४ ५ २ ०२ ०९a  एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
       ४ ५ २ ०२ ०९c  हरिः पवित्रे अर्षति ॥ १२६४
       ४ ५ २ ०२ १०a  एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
       ४ ५ २ ०२ १०c  धारया पवते सुतः ॥ १२६५

       ४ ५ २ ०३ ०१a  एष धिया यात्यण्व्य शूरो रथेभिराशुभिः ।
       ४ ५ २ ०३ ०१c  गच्छन्निन्द्रस्य निष्कृतम् ॥ १२६६
       ४ ५ २ ०३ ०२a  एष पुरू धियायते बृहते देवतातये ।
       ४ ५ २ ०३ ०२c  यत्रामृतास आशत ॥ १२६७
       ४ ५ २ ०३ ०३a  एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
       ४ ५ २ ०३ ०३c  प्रचक्राणं महीरिषः ॥ १२६८
       ४ ५ २ ०३ ०४a  एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा ।
       ४ ५ २ ०३ ०४c  यदी तुञ्जन्ति भूर्णयः ॥ १२६९
       ४ ५ २ ०३ ०५a  एष रुक्मिभिरीयते वाजि शुभ्रेभिरँशुभिः ।
       ४ ५ २ ०३ ०५c  पतिः सिन्धूनां भवन् ॥ १२७०
       ४ ५ २ ०३ ०६a  एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा ।
       ४ ५ २ ०३ ०६c  नृम्णा दधान ओजसा ॥ १२७१
       ४ ५ २ ०३ ०७a  एष वसूनि पिब्दनः परुषा ययिवाँ अति ।
       ४ ५ २ ०३ ०७c  अव शादेषु गच्छति ॥ १२७२
       ४ ५ २ ०३ ०८a  एतमु त्यं दश क्षिपो हरिँ हिवन्ति यातवे ।
       ४ ५ २ ०३ ०८c  स्वायुधं मदिन्तमम् ॥ १२७३

       ४ ५ २ ०४ ०१a  एष उ स्य वृषा रथोऽव्या वारेभिरव्यत ।
       ४ ५ २ ०४ ०१c  गच्छन्वाजँ सहस्रिणम् ॥ १२७४
       ४ ५ २ ०४ ०२a  एतं त्रितस्य योषणो हरिँ हिन्वन्त्यद्रिभिः ।
       ४ ५ २ ०४ ०२c  इन्दुमिन्द्राय पीतये ॥ १२७५
       ४ ५ २ ०४ ०३a  एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
       ४ ५ २ ०४ ०३c  गच्छं जारो न योषितम् ॥ १२७६
       ४ ५ २ ०४ ०४a  एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
       ४ ५ २ ०४ ०४c  य इन्दुर्वारमाविशत् ॥ १२७७
       ४ ५ २ ०४ ०५a  एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
       ४ ५ २ ०४ ०५c  क्रन्दन्योनिमभि प्रियम् ॥ १२७८
       ४ ५ २ ०४ ०६a  एतं त्यँ हरितो दश मर्मृज्यन्ते अपस्युवः ।
       ४ ५ २ ०४ ०६c  याभिर्मदाय शुम्भते ॥ १२७९

       ४ ५ २ ०५ ०१a  एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
       ४ ५ २ ०५ ०१c  अव्यो वारं वि धावति ॥ १२८०
       ४ ५ २ ०५ ०२a  एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
       ४ ५ २ ०५ ०२c  विश्वा धामान्याविशन् ॥ १२८१
       ४ ५ २ ०६ ०३a  एष देवः शुभायतेऽधि योनावमर्त्यः ।
       ४ ५ २ ०६ ०३c  वृत्रहा देववीतमः ॥ १२८२
       ४ ५ २ ०७ ०४a  एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
       ४ ५ २ ०७ ०४c  अभि द्रोणानि धावति ॥ १२८३
       ४ ५ २ ०८ ०५a  एष सूर्यमरोचयत्पवमानो अधि द्यवि ।
       ४ ५ २ ०८ ०५c  पवित्रे मत्सरो मदः ॥ १२८४
       ४ ५ २ ०९ ०६a  एष सूर्येण हासते संवसानो विवस्वता ।
       ४ ५ २ ०९ ०६c  पतिर्वाचो अदाभ्यः ॥ १२८५

       ४ ५ २ ०६ ०१a  एष कविरभिष्टुतः पवित्रे अधि तोशते ।
       ४ ५ २ ०६ ०१c  पुनानो घ्नन्नप द्विषः ॥ १२८६
       ४ ५ २ ०६ ०२a  एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
       ४ ५ २ ०६ ०२c  पवित्रे दक्षसाधनः ॥ १२८७
       ४ ५ २ ०६ ०३a  एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
       ४ ५ २ ०६ ०३c  सोमो वनेषु विश्ववित् ॥ १२८८
       ४ ५ २ ०६ ०४a  एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
       ४ ५ २ ०६ ०४c  इन्दुः सत्राजिदस्तृतः ॥ १२८९
       ४ ५ २ ०६ ०५a  एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
       ४ ५ २ ०६ ०५c  पुनान इन्दुरिन्द्रमा ॥ १२९०
       ४ ५ २ ०६ ०६a  एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
       ४ ५ २ ०६ ०६c  देवावीरघशँसहा ॥ १२९१

       ४ ५ २ ०७ ०१a  स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
       ४ ५ २ ०७ ०१c  विघ्नन्रक्षाँसि देवयुः ॥ १२९२
       ४ ५ २ ०७ ०२a  स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
       ४ ५ २ ०७ ०२c  अभि योनिं कनिक्रदत् ॥ १२९३
       ४ ५ २ ०७ ०३a  स वाजी रोचना दिवः पवमानो वि धावति ।
       ४ ५ २ ०७ ०३c  रक्षोहा वारमव्ययम् ॥ १२९४
       ४ ५ २ ०७ ०४a  स त्रितस्याधि सानवि पवमानो अरोचयत् ।
       ४ ५ २ ०७ ०४c  जामिभिः सूर्यँ सह ॥ १२९५
       ४ ५ २ ०७ ०५a  स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
       ४ ५ २ ०७ ०५c  सोमो वाजमिवासरत् ॥ १२९६
       ४ ५ २ ०७ ०६a  स देवः कविनेषितो३ऽभि द्रोणानि धावति ।
       ४ ५ २ ०७ ०६c  इन्दुरिन्द्राय मँहयन् ॥ १२९७

       ४ ५ २ ०८ ०१a  यः पावमानीरध्येत्यृषिभिः सम्भृतँ रसम् ।
       ४ ५ २ ०८ ०१c  सर्वँ स पूतमश्नाति स्वदितं मातरिश्वना ॥ १२९८
       ४ ५ २ ०८ ०२a  पावमानीर्यो अध्येत्यृषिभिः सम्भृतँ रसम् ।
       ४ ५ २ ०८ ०२c  तस्मै सरस्वती दुहे क्षीरँ सर्पिर्मधूदकम् ॥ १२९९
       ४ ५ २ ०८ ०३a  पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः ।
       ४ ५ २ ०८ ०३c  ऋषिभिः सम्भृतो रसो ब्राह्मणेष्वमृतँ हितम् ॥ १३००
       ४ ५ २ ०८ ०४a  पावमानीर्दधन्तु न इमं लोकमथो अमुम् ।
       ४ ५ २ ०८ ०४c  कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः ॥ १३०१
       ४ ५ २ ०८ ०५a  येन देवाः पवित्रेणात्मानं पुनते सदा ।
       ४ ५ २ ०८ ०५c  तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ १३०२
       ४ ५ २ ०८ ०६a  पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् ।
       ४ ५ २ ०८ ०६c  पुण्याँश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति ॥ १३०३

       ४ ५ २ ०९ ०१a  अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
       ४ ५ २ ०९ ०१c  चित्रभानुँ रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥ १३०४
       ४ ५ २ ०९ ०२a  स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
       ४ ५ २ ०९ ०२c  स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥ १३०५
       ४ ५ २ ०९ ०३a  त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
       ४ ५ २ ०९ ०३c  त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ १३०६

       ४ ५ २ १० ०१a  महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
       ४ ५ २ १० ०१c  स्तोमैर्वत्सस्य वावृधे ॥ १३०७
       ४ ५ २ १० ०१a  कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
       ४ ५ २ १० ०१c  जामि ब्रुवत आयुधा ॥ १३०८
       ४ ५ २ १० ०१a  प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
       ४ ५ २ १० ०१c  विप्रा ऋतस्य वाहसा ॥ १३०९

       ४ ५ २ ११ ०१a  पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
       ४ ५ २ ११ ०१c  जीरा अजिरशोचिषः ॥ १३१०
       ४ ५ २ ११ ०२a  पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
       ४ ५ २ ११ ०२c  हरिश्चन्द्रो मरुद्गणः ॥ १३११
       ४ ५ २ ११ ०३a  पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः ।
       ४ ५ २ ११ ०३c  दधत्स्तोत्रे सुवीर्यम् ॥ १३१२

       ४ ५ २ १२ ०१a  परीतो षिञ्चता सुतँ सोमो य उत्तमँ हविः ।
       ४ ५ २ १२ ०१c  दधन्वाँ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥ १३१३
       ४ ५ २ १२ ०२a  नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
       ४ ५ २ १२ ०२c  सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥ १३१४
       ४ ५ २ १२ ०३a  परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ १३१५

       ४ ५ २ १३ ०१a  असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
       ४ ५ २ १३ ०१c  पुनानो वारमत्येष्यव्ययँ श्येनो न योनिं घृतवन्तमासदत् ॥ १३१६
       ४ ५ २ १३ ०२a  पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
       ४ ५ २ १३ ०२c  स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ॥ १३१७
       ४ ५ २ १३ ०३a  कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
       ४ ५ २ १३ ०३c  अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् ॥ १३१८

       ४ ५ २ १४ ०१a  श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
       ४ ५ २ १४ ०१c  वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ १३१९
       ४ ५ २ १४ ०२a  अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
       ४ ५ २ १४ ०२c  यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥ १३२०

       ४ ५ २ १५ ०१a  यत इन्द्र भयामहे ततो नो अभ्यं कृधि ।
       ४ ५ २ १५ ०१c  मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥ १३२१
       ४ ५ २ १५ ०२a  त्वँ हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता ।
       ४ ५ २ १५ ०२c  तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥ १३२२

       ४ ५ २ १६ ०१a  त्वँ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
       ४ ५ २ १६ ०१c  पवस्व मँहयद्रयिः ॥ १३२३
       ४ ५ २ १६ ०२a  त्वँ सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
       ४ ५ २ १६ ०२c  इन्दुः सत्राजिदस्तृतः ॥ १३२४
       ४ ५ २ १६ ०३a  त्वँ सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
       ४ ५ २ १६ ०३c  द्युमन्तँ शुष्मा भर ॥ १३२५

       ४ ५ २ १७ ०१a  पवस्व देववीतय इन्दो धाराभिरोजसा ।
       ४ ५ २ १७ ०१c  आ कलशं मधुमान्त्सोम नः सदः ॥ १३२६
       ४ ५ २ १७ ०२a  तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
       ४ ५ २ १७ ०२c  त्वां देवासो अमृताय कं पपुः ॥ १३२७
       ४ ५ २ १७ ०३a  आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
       ४ ५ २ १७ ०३c  वृष्टिद्यावो रीत्यापः स्वर्विदः ॥ १३२८

       ४ ५ २ १८ ०१a  परि त्यँ हर्यतँ हरिं बभ्रुं पुनन्ति वारेण ।
       ४ ५ २ १८ ०१c  यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥ १३२९
       ४ ५ २ १८ ०२a  द्विर्यं पञ्च स्वयशसँ सखायो अद्रिसँहतम् ।
       ४ ५ २ १८ ०२c  प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ॥ १३३०
       ४ ५ २ १८ ०३a  इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
       ४ ५ २ १८ ०३c  नरे च दक्षिणावते वीराय सदनासदे ॥ १३३१

       ४ ५ २ १९ ०१a  पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥ १३३२
       ४ ५ २ १९ ०२a  प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥ १३३३
       ४ ५ २ १९ ०३a  शिशुं जज्ञानँ हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ १३३४

       ४ ५ २ २० ०१a  उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
       ४ ५ २ २० ०१c  इन्दुं देवा अयासिषुः ॥ १३३५
       ४ ५ २ २० ०२a  तमिद्वर्धन्तु नो गिरो वत्सँ सँशिश्वरीरिव ।
       ४ ५ २ २० ०२c  य इन्द्रस्य हृदँसनिः ॥ १३३६
       ४ ५ २ २० ०३a  अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
       ४ ५ २ २० ०३c  वर्धा समुद्रमुक्थ्यम् ॥ १३३७

       ४ ५ २ २१ ०१a  आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
       ४ ५ २ २१ ०१c  येषामिन्द्रो युवा सखा ॥ १३३८
       ४ ५ २ २१ ०२a  बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः ।
       ४ ५ २ २१ ०२c  येषामिन्द्रो युवा सखा ॥ १३३९
       ४ ५ २ २१ ०३a  अयुद्ध इद्युधा वृतँ शूर आजति सत्वभिः ।
       ४ ५ २ २१ ०३c  येषामिन्द्रो युवा सखा ॥ १३४०

       ४ ५ २ २२ ०१a  य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
       ४ ५ २ २२ ०१c  ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ १३४१
       ४ ५ २ २२ ०२a  यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
       ४ ५ २ २२ ०२c  उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ १३४२
       ४ ५ २ २२ ०३a  कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
       ४ ५ २ २२ ०३c  कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ १३४३

       ४ ५ २ २३ ०१a  गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
       ४ ५ २ २३ ०१c  ब्रह्माणस्त्वा शतक्रत उद्वँशमिव येमिरे ॥ १३४४
       ४ ५ २ २३ ०२a  यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् ।
       ४ ५ २ २३ ०२c  तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥ १३४५
       ४ ५ २ २३ ०३a  युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
       ४ ५ २ २३ ०३c  अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ १३४६

                               ।। इत्युत्तरार्चिकः ।।

                          ।। इति सामवेदसंहिता समाप्ता ।।

    No comments

    Post Top Ad

    Post Bottom Ad