Header Ads

  • Breaking News

    एकदन्तगणेशस्तोत्रम् ।। Astro Classes, Silvassa.

    एकदन्तगणेशस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।
    मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
    भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥

    प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
    तुष्टुवुर्हर्षसंयुक्‍ता एकदन्तं गणेश्वरम् ॥ २॥

    देवर्षय ऊचुः
    सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् ।
    अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥

    अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् ।
    हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥

    विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।
    सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥

    स्वबिम्बभावेन विलासयुक्‍तं बिन्दुस्वरूपा रचिता स्वमाया ।
    तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥

    त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।
    नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥

    त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।
    सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥

    ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै ।
    आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥

    तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।
    अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥

    ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
    सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥

    तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।
    सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥

    सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
    तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥

    जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।
    तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥

    एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
    बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥

    त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।
    आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥

    त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।
    त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥

    यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः ।
    सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥

    यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।
    यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥

    यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः ।
    यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥

    यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।
    यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥

    सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।
    अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥

    यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति ।
    अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥

    गृत्समद उवाच
    एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै ।
    तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥

    स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै ।
    जगाद तान् महाभागान् देवर्षीन् भक्‍तवत्सलः ॥ २५॥

    एकदन्त उवाच
    प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल ।
    वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥

    भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।
    भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥

    यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
    पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥

    गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् ।
    भुक्‍तिं मुक्‍तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥

    मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
    पठतां शृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥

    एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।
    पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥

    न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् ।
    असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥

    नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः ।
    तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥

    एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः ।
    ऊचुः करपुटाः सर्वे भक्‍तियुक्‍ता गजाननम् ॥ ३४॥

    ॥ इती श्री'एकदन्तस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad