Header Ads

  • Breaking News

    श्रीगणेशमन्त्रस्तोत्रम् ॥ Astro Classes, Silvassa.

    ॥ श्रीगणेशमन्त्रस्तोत्रम् ॥ श्रीगणेशाय नमः ।            उद्दालक उवाच ।
    श्रृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
    येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि  ॥ १॥

    चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
    विक्षिप्तं च तथैकाग्रं निरोधं भूमिसज्ञकम् ॥ २॥

    तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः  ।
    साक्षाद्योगेश योगेज्ञैर्लभ्यते भूमिनाशनात् ॥ ३॥

    चित्तरूपा स्वयम्बुद्धिश्चित्तभ्रान्तिकरी मता ।
    सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥ ४॥

    अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
    तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥ ५॥

    इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः ।
    एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥ ६॥

    तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् ।
    क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥ ७॥

    इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रं समाप्तम् ।

    No comments

    Post Top Ad

    Post Bottom Ad