श्रीगणेशपञ्चरत्नस्तोत्रम् ॥ Astro Classes, Silvassa.

॥ श्रीगणेशपञ्चरत्नस्तोत्रम् ॥

           श्रीगणेशाय नमः ॥

मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
     कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
     नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
     नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
     महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
     दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
     मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
     पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
     कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
     अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
     तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥

महागणेश्पञ्चरत्नमादरेण योऽन्वहं
 प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६॥

इति श्रीशङ्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments