Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १३६, १३७, १३८, १३९ and १४०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३६.

    प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम्।
    ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता।
    अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे॥ १.१३६.०१

    अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः।
    द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च।
    अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः॥ १.१३६.०२

    ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे।
    ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती।
    मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः॥ १.१३६.०३

    अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः।
    तं देवासो जुषेरत विश्वे अद्य सजोषसः।
    तथा राजाना करथो यदीमह ऋतावाना यदीमहे॥ १.१३६.०४

    यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः।
    तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम्।
    उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम्॥ १.१३६.०५

    नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे।
    इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम्।
    ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि॥ १.१३६.०६

    ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः।
    अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च॥ १.१३६.०७


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३७.

    सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे।
    आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः।
    इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः॥ १.१३७.०१

    इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः।
    उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः।
    सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये॥ १.१३७.०२

    तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः।
    अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये।
    अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः॥ १.१३७.०३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३८.

    प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते।
    अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम्।
    विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः॥ १.१३८.०१

    प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः।
    हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः।
    अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि॥ १.१३८.०२

    यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे।
    तामनु त्वा नवीयसीं नियुतं राय ईमहे।
    अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव॥ १.१३८.०३

    अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व।
    ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः।
    नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे॥ १.१३८.०४


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १३९.

    अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे।
    यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी।
    अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः॥ १.१३९.०१

    यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना।
    युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम्।
    धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः॥ १.१३९.०२

    युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः।
    युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा।
    प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये॥ १.१३९.०३

    अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु।
    अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये।
    पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः॥ १.१३९.०४

    शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम्।
    मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन॥ १.१३९.०५

    वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः।
    ते त्वा मन्दन्तु दावने महे चित्राय राधसे।
    गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि॥ १.१३९.०६

    ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः।
    यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन।
    वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा॥ १.१३९.०७

    मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः।
    यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्।
    अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम्॥ १.१३९.०८

    दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः।
    तेषां देवेष्वायतिरस्माकं तेषु नाभयः।
    तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा॥ १.१३९.०९

    होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः।
    जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना।
    अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः॥ १.१३९.१०

    ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ।
    अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्॥ १.१३९.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १४०.

    वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये।
    वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम्॥ १.१४०.०१

    अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः।
    अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः॥ १.१४०.०२

    कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम्।
    प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः॥ १.१४०.०३

    मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः।
    असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः॥ १.१४०.०४

    आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः।
    यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत्॥ १.१४०.०५

    भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत्।
    ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः॥ १.१४०.०६

    स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये।
    पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा॥ १.१४०.०७

    तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः।
    तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम्॥ १.१४०.०८

    अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः।
    वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह॥ १.१४०.०९

    अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः।
    अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः॥ १.१४०.१०

    इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते।
    यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम्॥ १.१४०.११

    रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने।
    अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च॥ १.१४०.१२

    अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः।
    गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त॥ १.१४०.१३

    No comments

    Post Top Ad

    Post Bottom Ad