Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - ९१, ९२, ९३, ९४ and ९५. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९१.

    त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम्।

    तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः॥ १.०९१.०१

    त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः।

    त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः॥ १.०९१.०२

    राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम।

    शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम॥ १.०९१.०३

    या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु।

    तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय॥ १.०९१.०४

    त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा।

    त्वं भद्रो असि क्रतुः॥ १.०९१.०५

    त्वं च सोम नो वशो जीवातुं न मरामहे।

    प्रियस्तोत्रो वनस्पतिः॥ १.०९१.०६

    त्वं सोम महे भगं त्वं यून ऋतायते।

    दक्षं दधासि जीवसे॥ १.०९१.०७

    त्वं नः सोम विश्वतो रक्षा राजन्नघायतः।

    न रिष्येत्त्वावतः सखा॥ १.०९१.०८

    सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे।

    ताभिर्नोऽविता भव॥ १.०९१.०९

    इमं यज्ञमिदं वचो जुजुषाण उपागहि।

    सोम त्वं नो वृधे भव॥ १.०९१.१०

    सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः।

    सुमृळीको न आ विश॥ १.०९१.११

    गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः।

    सुमित्रः सोम नो भव॥ १.०९१.१२

    सोम रारन्धि नो हृदि गावो न यवसेष्वा।

    मर्य इव स्व ओक्ये॥ १.०९१.१३

    यः सोम सख्ये तव रारणद्देव मर्त्यः।

    तं दक्षः सचते कविः॥ १.०९१.१४

    उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः।

    सखा सुशेव एधि नः॥ १.०९१.१५

    आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्।

    भवा वाजस्य संगथे॥ १.०९१.१६

    आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः।

    भवा नः सुश्रवस्तमः सखा वृधे॥ १.०९१.१७

    सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः।

    आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व॥ १.०९१.१८

    या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम्।

    गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान्॥ १.०९१.१९

    सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति।

    सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै॥ १.०९१.२०

    अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम्।

    भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम॥ १.०९१.२१

    त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः।

    त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ॥ १.०९१.२२

    देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य।

    मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ॥ १.०९१.२३




    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९२.

    एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते।

    निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः॥ १.०९२.०१

    उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत।

    अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः॥ १.०९२.०२

    अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः।

    इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते॥ १.०९२.०३

    अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम्।

    ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः॥ १.०९२.०४

    प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम्।

    स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत्॥ १.०९२.०५

    अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति।

    श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः॥ १.०९२.०६

    भास्वती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः।

    प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्राँ उप मासि वाजान्॥ १.०९२.०७

    उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम्।

    सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम्॥ १.०९२.०८

    विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति।

    विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः॥ १.०९२.०९

    पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना।

    श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः॥ १.०९२.१०

    व्यूर्ण्वती दिवो अन्ताँ अबोध्यप स्वसारं सनुतर्युयोति।

    प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति॥ १.०९२.११

    पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत्।

    अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना॥ १.०९२.१२

    उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति।

    येन तोकं च तनयं च धामहे॥ १.०९२.१३

    उषो अद्येह गोमत्यश्वावति विभावरि।

    रेवदस्मे व्युच्छ सूनृतावति॥ १.०९२.१४

    युक्ष्वा हि वाजिनीवत्यश्वाँ अद्यारुणाँ उषः।

    अथा नो विश्वा सौभगान्या वह॥ १.०९२.१५

    अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत्।

    अर्वाग्रथं समनसा नि यच्छतम्॥ १.०९२.१६

    यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः।

    आ न ऊर्जं वहतमश्विना युवम्॥ १.०९२.१७

    एह देवा मयोभुवा दस्रा हिरण्यवर्तनी।

    उषर्बुधो वहन्तु सोमपीतये॥ १.०९२.१८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९३.

    अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम्।

    प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः॥ १.०९३.०१

    अग्नीषोमा यो अद्य वामिदं वचः सपर्यति।

    तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम्॥ १.०९३.०२

    अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम्।

    स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत्॥ १.०९३.०३

    अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः।

    अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः॥ १.०९३.०४

    युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम्।

    युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान्॥ १.०९३.०५

    आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः।

    अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम्॥ १.०९३.०६

    अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम्।

    सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः॥ १.०९३.०७

    यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन।

    तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम्॥ १.०९३.०८

    अग्नीषोमा सवेदसा सहूती वनतं गिरः।

    सं देवत्रा बभूवथुः॥ १.०९३.०९

    अग्नीषोमावनेन वां यो वां घृतेन दाशति।

    तस्मै दीदयतं बृहत्॥ १.०९३.१०

    अग्नीषोमाविमानि नो युवं हव्या जुजोषतम्।

    आ यातमुप नः सचा॥ १.०९३.११

    अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः।

    अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम्॥ १.०९३.१२


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९४.

    इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया।

    भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०१

    यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम्।

    स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०२

    शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम्।

    त्वमादित्याँ आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०३

    भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम्।

    जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०४

    विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः।

    चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०५

    त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः।

    विश्वा विद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०६

    यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे।

    रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०७

    पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः।

    तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०८

    वधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः।

    अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.०९

    यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः।

    आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.१०

    अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन्।

    सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.११

    अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः।

    मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.१२

    देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे।

    शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.१३

    तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः।

    दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.१४

    यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता।

    यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम॥ १.०९४.१५

    स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव।

    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.०९४.१६



    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - ९५.

    द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते।

    हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः॥ १.०९५.०१

    दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम्।

    तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति॥ १.०९५.०२

    त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु।

    पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु॥ १.०९५.०३

    क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः।

    बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान्॥ १.०९५.०४

    आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे।

    उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते॥ १.०९५.०५

    उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः।

    स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः॥ १.०९५.०६

    उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन्।

    उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति॥ १.०९५.०७

    त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः।

    कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव॥ १.०९५.०८

    उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम।

    विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान्॥ १.०९५.०९

    धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम्।

    विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु॥ १.०९५.१०

    एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि।

    तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः॥ १.०९५.११

    No comments

    Post Top Ad

    Post Bottom Ad