Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १७१, १७२, १७३ and १७४. Astro Classes, Silvassa.


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७१.

    प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम्।
    रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान्॥ १.१७१.०१

    एष वः स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः।
    उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः॥ १.१७१.०२

    स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः।
    ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा॥ १.१७१.०३

    अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः।
    युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः॥ १.१७१.०४

    येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम्।
    स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभिः स्थविरः सहोदाः॥ १.१७१.०५

    त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः।
    सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम्॥ १.१७१.०६


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७२.

    चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः।
    मरुतो अहिभानवः॥ १.१७२.०१

    आरे सा वः सुदानवो मरुत ऋञ्जती शरुः।
    आरे अश्मा यमस्यथ॥ १.१७२.०२

    तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः।
    ऊर्ध्वान्नः कर्त जीवसे॥ १.१७२.०३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७३.

    गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत्।
    गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान्॥ १.१७३.०१

    अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात्।
    प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः॥ १.१७३.०२

    नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः।
    क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक्॥ १.१७३.०३

    ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते।
    जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः॥ १.१७३.०४

    तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः।
    प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता॥ १.१७३.०५

    प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै।
    सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम्॥ १.१७३.०६

    समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै।
    सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः॥ १.१७३.०७

    एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः।
    विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान्॥ १.१७३.०८

    असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः।
    असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था॥ १.१७३.०९

    विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः।
    मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः॥ १.१७३.१०

    यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन्।
    तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा॥ १.१७३.११

    मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः।
    महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः॥ १.१७३.१२

    एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः।
    आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम्॥ १.१७३.१३


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७४.

    त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान्।
    त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः॥ १.१७४.०१

    दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त्।
    ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः॥ १.१७४.०२

    अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम्।
    रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः॥ १.१७४.०३

    शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना।
    सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान्॥ १.१७४.०४

    वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा।
    प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः॥ १.१७४.०५

    जघन्वाँ इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून्।
    प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम्॥ १.१७४.०६

    रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः।
    करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत्॥ १.१७४.०७

    सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः।
    भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः॥ १.१७४.०८

    त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः।
    प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति॥ १.१७४.०९

    त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता।
    स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम्॥ १.१७४.१०

    No comments

    Post Top Ad

    Post Bottom Ad