Header Ads

  • Breaking News

    ऋग्वेद - प्रथम मण्डल - सूक्त - १६६, १६७, १६८, १६९ and १७०. Astro Classes, Silvassa.

    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६६.

    तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे।
    ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन॥ १.१६६.०१

    नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः।
    नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम्॥ १.१६६.०२

    यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे।
    उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः॥ १.१६६.०३

    आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन्।
    भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु॥ १.१६६.०४

    यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः।
    विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः॥ १.१६६.०५

    यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन।
    यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा॥ १.१६६.०६

    प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः।
    अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या॥ १.१६६.०७

    शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत।
    जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु॥ १.१६६.०८

    विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता।
    अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते॥ १.१६६.०९

    भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः।
    अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे॥ १.१६६.१०

    महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः।
    मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः॥ १.१६६.११

    तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम्।
    इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम्॥ १.१६६.१२

    तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत।
    अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे॥ १.१६६.१३

    येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः।
    आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम्॥ १.१६६.१४

    एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः।
    एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्॥ १.१६६.१५


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६७.

    सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः।
    सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः॥ १.१६७.०१

    आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः।
    अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे॥ १.१६७.०२

    मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः।
    गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक्॥ १.१६७.०३

    परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः।
    न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः॥ १.१६७.०४

    जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः।
    आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या॥ १.१६७.०५

    आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम्।
    अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन्॥ १.१६७.०६

    प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति।
    सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः॥ १.१६७.०७

    पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान्।
    उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः॥ १.१६७.०८

    नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः।
    ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः॥ १.१६७.०९

    वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये।
    वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात्॥ १.१६७.१०

    एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः।
    एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्॥ १.१६७.११


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६८.

    यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे।
    आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः॥ १.१६८.०१

    वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः।
    सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः॥ १.१६८.०२

    सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते।
    ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे॥ १.१६८.०३

    अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना।
    अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः॥ १.१६८.०४

    को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया।
    धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः॥ १.१६८.०५

    क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय।
    यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम्॥ १.१६८.०६

    सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती।
    भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती॥ १.१६८.०७

    प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति।
    अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति॥ १.१६८.०८

    असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम्।
    ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन्॥ १.१६८.०९

    एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः।
    एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम्॥ १.१६८.१०


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १६९.

    महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता।
    स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा॥ १.१६९.०१

    अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा।
    मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ॥ १.१६९.०२

    अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति।
    अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि॥ १.१६९.०३

    त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम्।
    स्तुतश्च यास्ते चकनन्त वायोः स्तनं न मध्वः पीपयन्त वाजैः॥ १.१६९.०४

    त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः।
    ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः॥ १.१६९.०५

    प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व।
    अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः॥ १.१६९.०६

    प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः।
    ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः॥ १.१६९.०७

    त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः।
    स्तवानेभिः स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम्॥ १.१६९.०८


    ऋग्वेद (स्वरविरहित मन्त्राः) - प्रथम मण्डल - सूक्त - १७०.

    न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम्।
    अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति॥ १.१७०.०१

    किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव।
    तेभिः कल्पस्व साधुया मा नः समरणे वधीः॥ १.१७०.०२

    किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे।
    विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि॥ १.१७०.०३

    अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः।
    तत्रामृतस्य चेतनं यज्ञं ते तनवावहै॥ १.१७०.०४

    त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः।
    इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि॥ १.१७०.०५

    No comments

    Post Top Ad

    Post Bottom Ad