Header Ads

  • Breaking News

    Shanti Patha. शान्तिपाठ ।। Astro Classes.

    Shanti Patha. शान्तिपाठ ।। Astro Classes, Silvassa.

    ऋग्वेद ---  ऐतरेय उपनिषत् ।

    ॐ वाङ्मे मनसि प्रतिष्ठिता ।
    मनो मे वाचि प्रतिष्ठितम् ।
    आविराविर्म एधि ।
    वेदस्य म आणीस्थः ।
    श्रुतं मे मा प्रहासीः ।
    अनेनाधीतेनाहोरात्रान् सन्दधामि ।
    ऋतं वदिष्यामि सत्यं वदिष्यामि ।
    तन्मामवतु तद्वक्तारमवतु ।
    अवतु मामवतु वक्तारम् ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    सामवेद  ---  केन,  छान्दोग्य ।।

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् ।
    अथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं माहं ब्रह्मनिराकुर्याम् ।
    मा मा ब्रह्मनिराकरोदनिराकरणमस्तु ।
    अनिराकरणं मेस्तु ।
    तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ।
    ते मयि सन्तु ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    कृष्ण-यजुर्वेद  --- कठ ।।

    ॐ सह नाववतु ।
    सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु ।
    मा विद्विषावहै ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    कृष्ण-यजुर्वेद  --- तैत्तिरीय ।।

    ॐ शं नो मित्रः शं वरुणः ।
    शं नो भवत्वर्यमा ।
    शं न इन्द्रो बृहस्पतिः ।
    शं नो विष्णुरुरुक्रमः ।
    नमो ब्रह्मणे नमस्ते वायो ।
    त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ।
    ऋतं वदिष्यामि सत्यं वदिष्यामि ।
    तन्मामवतु तद्वक्तारमवतु ।
    अवतु मामवतु वक्तारम् ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    शुक्ल-यजुर्वेद  ---  ईशावास्य,  बृहदारण्यक ।।

    ॐ पूर्णमदः पूर्णमिदम्  पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    अथर्व-वेद  ---    प्रश्न,  मुण्डक,  माण्डुक्य ।।

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ॥

    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ।

    ॐ शान्तिः शान्तिः शान्तिः ।।

    No comments

    Post Top Ad

    Post Bottom Ad