Shanti Patha. शान्तिपाठ ।। Astro Classes.

Shanti Patha. शान्तिपाठ ।। Astro Classes, Silvassa.

ऋग्वेद ---  ऐतरेय उपनिषत् ।

ॐ वाङ्मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविराविर्म एधि ।
वेदस्य म आणीस्थः ।
श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान् सन्दधामि ।
ऋतं वदिष्यामि सत्यं वदिष्यामि ।
तन्मामवतु तद्वक्तारमवतु ।
अवतु मामवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

सामवेद  ---  केन,  छान्दोग्य ।।

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् ।
अथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्मनिराकुर्याम् ।
मा मा ब्रह्मनिराकरोदनिराकरणमस्तु ।
अनिराकरणं मेस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ।
ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

कृष्ण-यजुर्वेद  --- कठ ।।

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

कृष्ण-यजुर्वेद  --- तैत्तिरीय ।।

ॐ शं नो मित्रः शं वरुणः ।
शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ।
ऋतं वदिष्यामि सत्यं वदिष्यामि ।
तन्मामवतु तद्वक्तारमवतु ।
अवतु मामवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

शुक्ल-यजुर्वेद  ---  ईशावास्य,  बृहदारण्यक ।।

ॐ पूर्णमदः पूर्णमिदम्  पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथर्व-वेद  ---    प्रश्न,  मुण्डक,  माण्डुक्य ।।

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ।।

Post a Comment

0 Comments