Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ७.Rigveda, Mandala - 7, Sutta - 61 To 70.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 61.

    उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान्।
    अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत॥ ७.०६१.०१

    प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति।
    यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे॥ ७.०६१.०२

    प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू।
    स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा॥ ७.०६१.०३

    शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा।
    अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते॥ ७.०६१.०४

    अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम्।
    द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन्॥ ७.०६१.०५

    समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः।
    प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि॥ ७.०६१.०६

    इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि।
    विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः॥ ७.०६१.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 62.

    उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम्।
    समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत्॥ ७.०६२.०१

    स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः।
    प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च॥ ७.०६२.०२

    वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः।
    यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः॥ ७.०६२.०३

    द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे।
    मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम्॥ ७.०६२.०४

    प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन।
    आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा॥ ७.०६२.०५

    नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु।
    सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.०६२.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 63.

    उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम्।
    चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि॥ ७.०६३.०१

    उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य।
    समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः॥ ७.०६३.०२

    विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः।
    एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम॥ ७.०६३.०३

    दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः।
    नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि॥ ७.०६३.०४

    यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः।
    प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः॥ ७.०६३.०५

    नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु।
    सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.०६३.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 64.

    दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन्।
    हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त॥ ७.०६४.०१

    आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक्।
    इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू॥ ७.०६४.०२

    मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु।
    ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः॥ ७.०६४.०३

    यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च।
    उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम्॥ ७.०६४.०४

    एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि।
    अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६४.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 65.

    प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम्।
    ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु॥ ७.०६५.०१

    ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः।
    अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च॥ ७.०६५.०२

    ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय।
    ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम॥ ७.०६५.०३

    आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः।
    प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः॥ ७.०६५.०४

    एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि।
    अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६५.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 66.

    प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः।
    नमस्वान्तुविजातयोः॥ ७.०६६.०१

    या धारयन्त देवाः सुदक्षा दक्षपितरा।
    असुर्याय प्रमहसा॥ ७.०६६.०२

    ता नः स्तिपा तनूपा वरुण जरितॄणाम्।
    मित्र साधयतं धियः॥ ७.०६६.०३

    यदद्य सूर उदितेऽनागा मित्रो अर्यमा।
    सुवाति सविता भगः॥ ७.०६६.०४

    सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः।
    ये नो अंहोऽतिपिप्रति॥ ७.०६६.०५

    उत स्वराजो अदितिरदब्धस्य व्रतस्य ये।
    महो राजान ईशते॥ ७.०६६.०६

    प्रति वां सूर उदिते मित्रं गृणीषे वरुणम्।
    अर्यमणं रिशादसम्॥ ७.०६६.०७

    राया हिरण्यया मतिरियमवृकाय शवसे।
    इयं विप्रा मेधसातये॥ ७.०६६.०८

    ते स्याम देव वरुण ते मित्र सूरिभिः सह।
    इषं स्वश्च धीमहि॥ ७.०६६.०९

    बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः।
    त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः॥ ७.०६६.१०

    वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम्।
    अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत॥ ७.०६६.११

    तद्वो अद्य मनामहे सूक्तैः सूर उदिते।
    यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः॥ ७.०६६.१२

    ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः।
    तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः॥ ७.०६६.१३

    उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे।
    यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम्॥ ७.०६६.१४

    शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः।
    सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे॥ ७.०६६.१५

    तच्चक्षुर्देवहितं शुक्रमुच्चरत्।
    पश्येम शरदः शतं जीवेम शरदः शतम्॥ ७.०६६.१६

    काव्येभिरदाभ्या यातं वरुण द्युमत्।
    मित्रश्च सोमपीतये॥ ७.०६६.१७

    दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा।
    पिबतं सोममातुजी॥ ७.०६६.१८

    आ यातं मित्रावरुणा जुषाणावाहुतिं नरा।
    पातं सोममृतावृधा॥ ७.०६६.१९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 67.

    प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन।
    यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि॥ ७.०६७.०१

    अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः।
    अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः॥ ७.०६७.०२

    अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान्।
    पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन॥ ७.०६७.०३

    अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः।
    आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि॥ ७.०६७.०४

    प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम्।
    विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः॥ ७.०६७.०५

    अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु।
    आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम॥ ७.०६७.०६

    एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे।
    अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु॥ ७.०६७.०७

    एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात्।
    न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति॥ ७.०६७.०८

    असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति।
    प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि॥ ७.०६७.०९

    नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत्।
    धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६७.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 68.

    आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः।
    हव्यानि च प्रतिभृता वीतं नः॥ ७.०६८.०१

    प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे।
    तिरो अर्यो हवनानि श्रुतं नः॥ ७.०६८.०२

    प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः।
    अस्मभ्यं सूर्यावसू इयानः॥ ७.०६८.०३

    अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम्।
    आ वल्गू विप्रो ववृतीत हव्यैः॥ ७.०६८.०४

    चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम्।
    यो वामोमानं दधते प्रियः सन्॥ ७.०६८.०५

    उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे।
    अधि यद्वर्प इतऊति धत्थः॥ ७.०६८.०६

    उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे।
    निरीं पर्षदरावा यो युवाकुः॥ ७.०६८.०७

    वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना।
    यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः॥ ७.०६८.०८

    एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा।
    इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६८.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 69.

    आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः।
    घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान्॥ ७.०६९.०१

    स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः।
    विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना॥ ७.०६९.०२

    स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः।
    वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम्॥ ७.०६९.०३

    युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम्।
    यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात्॥ ७.०६९.०४

    यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः।
    तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन्॥ ७.०६९.०५

    नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम्।
    पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः॥ ७.०६९.०६

    युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः।
    पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता॥ ७.०६९.०७

    नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत्।
    धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः॥ ७.०६९.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 70.

    आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम्।
    अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम्॥ ७.०७०.०१

    सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे।
    यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः॥ ७.०७०.०२

    यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु।
    नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता॥ ७.०७०.०३

    चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम्।
    पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि॥ ७.०७०.०४

    शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम्।
    प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा॥ ७.०७०.०५

    यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति।
    उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम्॥ ७.०७०.०६

    इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम्।
    इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः॥ ७.०७०.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 8, Sutta - 70.

    No comments

    Post Top Ad

    Post Bottom Ad