Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ७.Rigveda, Mandala - 7, Sutta - 31 To 40.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
     Rigveda, Mandala - 7, Sutta - 31.

    प्र व इन्द्राय मादनं हर्यश्वाय गायत।
    सखायः सोमपाव्ने॥ ७.०३१.०१

    शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः।
    चकृमा सत्यराधसे॥ ७.०३१.०२

    त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो।
    त्वं हिरण्ययुर्वसो॥ ७.०३१.०३

    वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन्।
    विद्धी त्वस्य नो वसो॥ ७.०३१.०४

    मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे।
    त्वे अपि क्रतुर्मम॥ ७.०३१.०५

    त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन्।
    त्वया प्रति ब्रुवे युजा॥ ७.०३१.०६

    महाँ उतासि यस्य तेऽनु स्वधावरी सहः।
    मम्नाते इन्द्र रोदसी॥ ७.०३१.०७

    तं त्वा मरुत्वती परि भुवद्वाणी सयावरी।
    नक्षमाणा सह द्युभिः॥ ७.०३१.०८

    ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि।
    सं ते नमन्त कृष्टयः॥ ७.०३१.०९

    प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम्।
    विशः पूर्वीः प्र चरा चर्षणिप्राः॥ ७.०३१.१०

    उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः।
    तस्य व्रतानि न मिनन्ति धीराः॥ ७.०३१.११

    इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै।
    हर्यश्वाय बर्हया समापीन्॥ ७.०३१.१२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 32.

    मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन्।
    आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि॥ ७.०३२.०१

    इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते।
    इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः॥ ७.०३२.०२

    रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे॥ ७.०३२.०३

    इम इन्द्राय सुन्विरे सोमासो दध्याशिरः।
    ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ॥ ७.०३२.०४

    श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः।
    सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत्॥ ७.०३२.०५

    स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः।
    यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति॥ ७.०३२.०६

    भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः।
    वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम्॥ ७.०३२.०७

    सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे।
    पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः॥ ७.०३२.०८

    मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे।
    तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे॥ ७.०३२.०९

    नकिः सुदासो रथं पर्यास न रीरमत्।
    इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे॥ ७.०३२.१०

    गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः।
    अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम्॥ ७.०३२.११

    उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः।
    य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि॥ ७.०३२.१२

    मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा।
    पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥ ७.०३२.१३

    कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति।
    श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति॥ ७.०३२.१४

    मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु।
    तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता॥ ७.०३२.१५

    तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम्।
    सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते॥ ७.०३२.१६

    त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः।
    तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते॥ ७.०३२.१७

    यदिन्द्र यावतस्त्वमेतावदहमीशीय।
    स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय॥ ७.०३२.१८

    शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे।
    नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन॥ ७.०३२.१९

    तरणिरित्सिषासति वाजं पुरंध्या युजा।
    आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम्॥ ७.०३२.२०

    न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत्।
    सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि॥ ७.०३२.२१

    अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः।
    ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः॥ ७.०३२.२२

    न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।
    अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे॥ ७.०३२.२३

    अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः।
    पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः॥ ७.०३२.२४

    परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि।
    अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम्॥ ७.०३२.२५

    इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा।
    शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि॥ ७.०३२.२६

    मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः।
    त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि॥ ७.०३२.२७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 33.

    श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः।
    उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः॥ ७.०३३.०१

    दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम्।
    पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान्॥ ७.०३३.०२

    एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान।
    एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः॥ ७.०३३.०३

    जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ।
    यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः॥ ७.०३३.०४

    उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः।
    वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम्॥ ७.०३३.०५

    दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः।
    अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त॥ ७.०३३.०६

    त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः।
    त्रयो घर्मास उषसं सचन्ते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः॥ ७.०३३.०७

    सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः।
    वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः॥ ७.०३३.०८

    त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति।
    यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः॥ ७.०३३.०९

    विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा।
    तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार॥ ७.०३३.१०

    उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः।
    द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त॥ ७.०३३.११

    स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः।
    यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः॥ ७.०३३.१२

    सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम्।
    ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम्॥ ७.०३३.१३

    उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे।
    उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः॥ ७.०३३.१४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 34.

    प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी॥ ७.०३४.०१

    विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः॥ ७.०३४.०२

    आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः॥ ७.०३४.०३

    आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः॥ ७.०३४.०४

    अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत॥ ७.०३४.०५

    त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम्॥ ७.०३४.०६

    उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम॥ ७.०३४.०७

    ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि॥ ७.०३४.०८

    अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम्॥ ७.०३४.०९

    आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः॥ ७.०३४.१०

    राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु॥ ७.०३४.११

    अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः॥ ७.०३४.१२

    व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम्॥ ७.०३४.१३

    अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः॥ ७.०३४.१४

    सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु॥ ७.०३४.१५

    अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन्॥ ७.०३४.१६

    मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः॥ ७.०३४.१७

    उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः॥ ७.०३४.१८

    तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम्॥ ७.०३४.१९

    आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान्॥ ७.०३४.२०

    प्रति नः स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः॥ ७.०३४.२१

    ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु।
    वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः॥ ७.०३४.२२

    तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः।
    वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः॥ ७.०३४.२३

    अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा।
    अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै॥ ७.०३४.२४

    तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त।
    शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः॥ ७.०३४.२५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 35.

    शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या।
    शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ॥ ७.०३५.०१

    शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः।
    शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु॥ ७.०३५.०२

    शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः।
    शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु॥ ७.०३५.०३

    शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम्।
    शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः॥ ७.०३५.०४

    शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।
    शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥ ७.०३५.०५

    शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः।
    शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु॥ ७.०३५.०६

    शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः।
    शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः॥ ७.०३५.०७

    शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु।
    शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः॥ ७.०३५.०८

    शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः।
    शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः॥ ७.०३५.०९

    शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः।
    शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः॥ ७.०३५.१०

    शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु।
    शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः॥ ७.०३५.११

    शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः।
    शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु॥ ७.०३५.१२

    शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः।
    शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा॥ ७.०३५.१३

    आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः।
    शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः॥ ७.०३५.१४

    ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः।
    ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः॥ ७.०३५.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 36.

    प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः।
    वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः॥ ७.०३६.०१

    इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः।
    इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः॥ ७.०३६.०२

    आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः।
    महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन्॥ ७.०३६.०३

    गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू।
    प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम्॥ ७.०३६.०४

    यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन्।
    वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठम्॥ ७.०३६.०५

    आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता।
    याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः॥ ७.०३६.०६

    उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु।
    मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः॥ ७.०३६.०७

    प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम्।
    भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम्॥ ७.०३६.०८

    अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः।
    उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः॥ ७.०३६.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 37.

    आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः।
    अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम्॥ ७.०३७.०१

    यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम्।
    सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम्॥ ७.०३७.०२

    उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे।
    उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या॥ ७.०३७.०३

    त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा।
    वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः॥ ७.०३७.०४

    सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः।
    ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः॥ ७.०३७.०५

    वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः।
    अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी॥ ७.०३७.०६

    अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः।
    उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः॥ ७.०३७.०७

    आ नो राधांसि सवितः स्तवध्या आ रायो यन्तु पर्वतस्य रातौ।
    सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.०३७.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala -7, Sutta - 38.

    उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत्।
    नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति॥ ७.०३८.०१

    उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य।
    व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः॥ ७.०३८.०२

    अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति।
    स नः स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन्॥ ७.०३८.०३

    अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा।
    अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः॥ ७.०३८.०४

    अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः।
    अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु॥ ७.०३८.०५

    अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः।
    भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम्॥ ७.०३८.०६

    शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः।
    जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः॥ ७.०३८.०७

    वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः।
    अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः॥ ७.०३८.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 39.

    ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति।
    भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति॥ ७.०३९.०१

    प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते।
    विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान्॥ ७.०३९.०२

    ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः।
    अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य॥ ७.०३९.०३

    ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः।
    ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरंधिम्॥ ७.०३९.०४

    आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम्।
    आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम्॥ ७.०३९.०५

    ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन्।
    धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः॥ ७.०३९.०६

    नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः।
    यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः॥ ७.०३९.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 40.

    ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम्।
    यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे॥ ७.०४०.०१

    मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु।
    दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च॥ ७.०४०.०२

    सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ।
    उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति॥ ७.०४०.०३

    अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः।
    सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान्॥ ७.०४०.०४

    अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः।
    विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥ ७.०४०.०५

    मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन्।
    मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु॥ ७.०४०.०६

    नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः।
    यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः॥ ७.०४०.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 7, Sutta - 40.

    No comments

    Post Top Ad

    Post Bottom Ad