Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ५. Rigveda, Mandala - 5, Sukta - 41 to 50.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 41.

    को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे।
    ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान्॥ ५.०४१.०१

    ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त।
    नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः॥ ५.०४१.०२

    आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ।
    उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम्॥ ५.०४१.०३

    प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः।
    पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः॥ ५.०४१.०४

    प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः।
    सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम्॥ ५.०४१.०५

    प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः।

    इषुध्यव ऋतसापः पुरंधीर्वस्वीर्नो अत्र पत्नीरा धिये धुः॥ ५.०४१.०६

    उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः।
    उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम्॥ ५.०४१.०७

    अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः।
    धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे॥ ५.०४१.०८

    तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः।
    पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ॥ ५.०४१.०९

    वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति।
    गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना॥ ५.०४१.१०

    कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय।
    आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः॥ ५.०४१.११

    शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा।
    शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः॥ ५.०४१.१२

    विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः।
    वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः॥ ५.०४१.१३

    आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम्।
    वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः॥ ५.०४१.१४

    पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च।
    सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः॥ ५.०४१.१५

    कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ।
    मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः॥ ५.०४१.१६

    इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः।
    अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत॥ ५.०४१.१७

    तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः।
    सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः॥ ५.०४१.१८

    अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु।
    उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः॥ ५.०४१.१९

    सिषक्तु न ऊर्जव्यस्य पुष्टेः॥ ५.०४१.२०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 42.

    प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः।
    पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः॥ ५.०४२.०१

    प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम्।
    ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु॥ ५.०४२.०२

    उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन।
    स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति॥ ५.०४२.०३

    समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति।
    सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम्॥ ५.०४२.०४

    देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम्।
    ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः॥ ५.०४२.०५

    मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि।
    न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप॥ ५.०४२.०६

    उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम्।
    यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम्॥ ५.०४२.०७

    तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः।
    ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः॥ ५.०४२.०८

    विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः।
    अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व॥ ५.०४२.०९

    य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात।
    यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः॥ ५.०४२.१०

    तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य।
    यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य॥ ५.०४२.११

    दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः।
    सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः॥ ५.०४२.१२

    प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम्।
    य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः॥ ५.०४२.१३

    प्र सुष्टुतिः स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः।
    यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः॥ ५.०४२.१४

    एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः।
    कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः॥ ५.०४२.१५

    प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः।
    देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्॥ ५.०४२.१६

    उरौ देवा अनिबाधे स्याम॥ ५.०४२.१७

    समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम।
    आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि॥ ५.०४२.१८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 43.

    आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा।
    महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति॥ ५.०४३.०१

    आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे।
    पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम्॥ ५.०४३.०२

    अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम्।
    होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय॥ ५.०४३.०३

    दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता।
    मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः॥ ५.०४३.०४

    असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय।
    हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः॥ ५.०४३.०५

    आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम्।
    मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः॥ ५.०४३.०६

    अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः।
    पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि॥ ५.०४३.०७

    अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै।
    मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम्॥ ५.०४३.०८

    प्र तव्यसो नम‍उक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि।
    या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन्॥ ५.०४३.०९

    आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः।
    यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती॥ ५.०४३.१०

    आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम्।
    हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु॥ ५.०४३.११

    आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम्।
    सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम॥ ५.०४३.१२

    आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः।
    ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः॥ ५.०४३.१३

    मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन्।
    सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे॥ ५.०४३.१४

    बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त।
    देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात्॥ ५.०४३.१५

    उरौ देवा अनिबाधे स्याम॥ ५.०४३.१६

    समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम।
    आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि॥ ५.०४३.१७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 44.

    तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम्।
    प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे॥ ५.०४४.०१

    श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते।
    सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते॥ ५.०४४.०२

    अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः।
    प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः॥ ५.०४४.०३

    प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः।
    सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति॥ ५.०४४.०४

    संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः।
    धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे॥ ५.०४४.०५

    यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा।
    महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः॥ ५.०४४.०६

    वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः।
    घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः॥ ५.०४४.०७

    ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते।
    यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत्॥ ५.०४४.०८

    समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता।
    अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी॥ ५.०४४.०९

    स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः।
    अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम्॥ ५.०४४.१०

    श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः।
    समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते॥ ५.०४४.११

    सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा।
    उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः॥ ५.०४४.१२

    सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः।
    भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन्॥ ५.०४४.१३

    यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति।
    यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः॥ ५.०४४.१४

    अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति।
    अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः॥ ५.०४४.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 45.

    विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः।
    अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः॥ ५.०४५.०१

    वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात्।
    धन्वर्णसो नद्यः खादोअर्णाः स्थूणेव सुमिता दृंहत द्यौः॥ ५.०४५.०२

    अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय।
    वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम॥ ५.०४५.०३

    सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै।
    उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति॥ ५.०४५.०४

    एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः।
    आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ॥ ५.०४५.०५

    एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः।
    यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम्॥ ५.०४५.०६

    अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः।
    ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार॥ ५.०४५.०७

    विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त।
    उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः॥ ५.०४५.०८

    आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे।
    रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन्॥ ५.०४५.०९

    आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः।
    उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन्॥ ५.०४५.१०

    धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः।
    अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः॥ ५.०४५.११

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 46.

    हयो न विद्वाँ अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम्।
    नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति॥ ५.०४६.०१

    अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो।
    उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त॥ ५.०४६.०२

    इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वताँ अपः।
    हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये॥ ५.०४६.०३

    उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत्।
    उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते॥ ५.०४६.०४

    उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे।
    बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा॥ ५.०४६.०५

    उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन्।
    भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम्॥ ५.०४६.०६

    देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये।
    याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत॥ ५.०४६.०७

    उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।
    आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम्॥ ५.०४६.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 47.

    प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती।
    आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना॥ ५.०४७.०१

    अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्।
    अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः॥ ५.०४७.०२

    उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश।
    मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ॥ ५.०४७.०३

    चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते।
    त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान्॥ ५.०४७.०४

    इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः।
    द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू॥ ५.०४७.०५

    वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति।
    उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ॥ ५.०४७.०६

    तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्।
    अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय॥ ५.०४७.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 48.

    कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम्।
    आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी॥ ५.०४८.०१

    ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः।
    अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः॥ ५.०४८.०२

    आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि।
    शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा॥ ५.०४८.०३

    तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः।
    सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे॥ ५.०४८.०४

    स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम्।
    न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम्॥ ५.०४८.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 49.

    देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः।
    आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन्॥ ५.०४९.०१

    प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य।
    उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः॥ ५.०४९.०२

    अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः।
    इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः॥ ५.०४९.०३

    तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन्।
    उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः॥ ५.०४९.०४

    प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः।
    अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम॥ ५.०४९.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 50.

    विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम्।
    विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे॥ ५.०५०.०१

    ते ते देव नेतर्ये चेमाँ अनुशसे।
    ते राया ते ह्यापृचे सचेमहि सचथ्यैः॥ ५.०५०.०२

    अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत।
    आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः॥ ५.०५०.०३

    यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः।
    नृमणा वीरपस्त्योऽर्णा धीरेव सनिता॥ ५.०५०.०४

    एष ते देव नेता रथस्पतिः शं रयिः।
    शं राये शं स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे॥ ५.०५०.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 50.

    No comments

    Post Top Ad

    Post Bottom Ad