Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ५. Rigveda, Mandala - 5, Sukta - 11 to 20.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 11.

    जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे।
    घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः॥ ५.०११.०१

    यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे।
    इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः॥ ५.०११.०२

    असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः।
    घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः॥ ५.०११.०३

    अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे।
    अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम्॥ ५.०११.०४

    तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे।
    त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च॥ ५.०११.०५

    त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने।
    स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः॥ ५.०११.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 12.

    प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म।
    घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम्॥ ५.०१२.०१

    ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः।
    नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः॥ ५.०१२.०२

    कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः।
    वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः॥ ५.०१२.०३

    के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः।
    के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः॥ ५.०१२.०४

    सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन्।
    अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः॥ ५.०१२.०५

    यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः।
    तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः॥ ५.०१२.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 13.

    अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि।
    अग्ने अर्चन्त ऊतये॥ ५.०१३.०१

    अग्नेः स्तोमं मनामहे सिध्रमद्य दिविस्पृशः।
    देवस्य द्रविणस्यवः॥ ५.०१३.०२

    अग्निर्जुषत नो गिरो होता यो मानुषेष्वा।
    स यक्षद्दैव्यं जनम्॥ ५.०१३.०३

    त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः।
    त्वया यज्ञं वि तन्वते॥ ५.०१३.०४

    त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम्।
    स नो रास्व सुवीर्यम्॥ ५.०१३.०५

    अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि।
    आ राधश्चित्रमृञ्जसे॥ ५.०१३.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 14.

    अग्निं स्तोमेन बोधय समिधानो अमर्त्यम्।
    हव्या देवेषु नो दधत्॥ ५.०१४.०१

    तमध्वरेष्वीळते देवं मर्ता अमर्त्यम्।
    यजिष्ठं मानुषे जने॥ ५.०१४.०२

    तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता।
    अग्निं हव्याय वोळ्हवे॥ ५.०१४.०३

    अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः।
    अविन्दद्गा अपः स्वः॥ ५.०१४.०४

    अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत।
    वेतु मे शृणवद्धवम्॥ ५.०१४.०५

    अग्निं घृतेन वावृधुः स्तोमेभिर्विश्वचर्षणिम्।
    स्वाधीभिर्वचस्युभिः॥ ५.०१४.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 15.

    प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय।
    घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः॥ ५.०१५.०१

    ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन्।
    दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः॥ ५.०१५.०२

    अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय।
    स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः॥ ५.०१५.०३

    मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च।
    वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि॥ ५.०१५.०४

    वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः।
    पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः॥ ५.०१५.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 16.

    बृहद्वयो हि भानवेऽर्चा देवायाग्नये।
    यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः॥ ५.०१६.०१

    स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः।
    वि हव्यमग्निरानुषग्भगो न वारमृण्वति॥ ५.०१६.०२

    अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः।
    विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः॥ ५.०१६.०३

    अधा ह्यग्न एषां सुवीर्यस्य मंहना।
    तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः॥ ५.०१६.०४

    नू न एहि वार्यमग्ने गृणान आ भर।
    ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे॥ ५.०१६.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 17.

    आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये।
    अग्निं कृते स्वध्वरे पूरुरीळीतावसे॥ ५.०१७.०१

    अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे।
    तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया॥ ५.०१७.०२

    अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा।
    दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः॥ ५.०१७.०३

    अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ।
    अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते॥ ५.०१७.०४

    नू न इद्धि वार्यमासा सचन्त सूरयः।
    ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे॥ ५.०१७.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 18.

    प्रातरग्निः पुरुप्रियो विशः स्तवेतातिथिः।
    विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति॥ ५.०१८.०१

    द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना।
    इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य॥ ५.०१८.०२

    तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम्।
    अरिष्टो येषां रथो व्यश्वदावन्नीयते॥ ५.०१८.०३

    चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये।
    स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि॥ ५.०१८.०४

    ये मे पञ्चाशतं ददुरश्वानां सधस्तुति।
    द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम्॥ ५.०१८.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 19.

    अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत।
    उपस्थे मातुर्वि चष्टे॥ ५.०१९.०१

    जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति।
    आ दृळ्हां पुरं विविशुः॥ ५.०१९.०२

    आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः।
    निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः॥ ५.०१९.०३

    प्रियं दुग्धं न काम्यमजामि जाम्योः सचा।
    घर्मो न वाजजठरोऽदब्धः शश्वतो दभः॥ ५.०१९.०४

    क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः।
    ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः॥ ५.०१९.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 20.

    यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम्।
    तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम्॥ ५.०२०.०१

    ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः।
    अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे॥ ५.०२०.०२

    होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम्।
    यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे॥ ५.०२०.०३

    इत्था यथा त ऊतये सहसावन्दिवेदिवे।
    राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः॥ ५.०२०.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 20.

    No comments

    Post Top Ad

    Post Bottom Ad