Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ५. Rigveda, Mandala - 5, Sukta - 21 to 30.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 21.

    मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि।
    अग्ने मनुष्वदङ्गिरो देवान्देवयते यज॥ ५.०२१.०१

    त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे।
    स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते॥ ५.०२१.०२

    त्वां विश्वे सजोषसो देवासो दूतमक्रत।
    सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते॥ ५.०२१.०३

    देवं वो देवयज्ययाग्निमीळीत मर्त्यः।
    समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः॥ ५.०२१.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 22.

    प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे।
    यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि॥ ५.०२२.०१

    न्यग्निं जातवेदसं दधाता देवमृत्विजम्।
    प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः॥ ५.०२२.०२

    चिकित्विन्मनसं त्वा देवं मर्तास ऊतये।
    वरेण्यस्य तेऽवस इयानासो अमन्महि॥ ५.०२२.०३

    अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य।
    तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः॥ ५.०२२.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 23.

    अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम्।
    विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत्॥ ५.०२३.०१

    तमग्ने पृतनाषहं रयिं सहस्व आ भर।
    त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः॥ ५.०२३.०२

    विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः।
    होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु॥ ५.०२३.०३

    स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे।
    अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि॥ ५.०२३.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 24.

    अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः॥ ५.०२४.०१

    वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः॥ ५.०२४.०२

    स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात्॥ ५.०२४.०३

    तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः॥ ५.०२४.०४

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 25.

    अच्छा वो अग्निमवसे देवं गासि स नो वसुः।
    रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः॥ ५.०२५.०१

    स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे।
    होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम्॥ ५.०२५.०२

    स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या।
    अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य॥ ५.०२५.०३

    अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन्।
    अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत॥ ५.०२५.०४

    अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम्।
    अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे॥ ५.०२५.०५

    अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः।
    अग्निरत्यं रघुष्यदं जेतारमपराजितम्॥ ५.०२५.०६

    यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो।
    महिषीव त्वद्रयिस्त्वद्वाजा उदीरते॥ ५.०२५.०७

    तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्।
    उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः॥ ५.०२५.०८

    एवाँ अग्निं वसूयवः सहसानं ववन्दिम।
    स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः॥ ५.०२५.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 26.

    अग्ने पावक रोचिषा मन्द्रया देव जिह्वया।
    आ देवान्वक्षि यक्षि च॥ ५.०२६.०१

    तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम्।
    देवाँ आ वीतये वह॥ ५.०२६.०२

    वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि।
    अग्ने बृहन्तमध्वरे॥ ५.०२६.०३

    अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये।
    होतारं त्वा वृणीमहे॥ ५.०२६.०४

    यजमानाय सुन्वत आग्ने सुवीर्यं वह।
    देवैरा सत्सि बर्हिषि॥ ५.०२६.०५

    समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि।
    देवानां दूत उक्थ्यः॥ ५.०२६.०६

    न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम्।
    दधाता देवमृत्विजम्॥ ५.०२६.०७

    प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः।
    स्तृणीत बर्हिरासदे॥ ५.०२६.०८

    एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः।
    देवासः सर्वया विशा॥ ५.०२६.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 27.

    अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः।
    त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत॥ ५.०२७.०१

    यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति।
    वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म॥ ५.०२७.०२

    एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः।
    यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति॥ ५.०२७.०३

    यो म इति प्रवोचत्यश्वमेधाय सूरये।
    दददृचा सनिं यते ददन्मेधामृतायते॥ ५.०२७.०४

    यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः।
    अश्वमेधस्य दानाः सोमा इव त्र्याशिरः॥ ५.०२७.०५

    इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम्।
    क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम्॥ ५.०२७.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 28.

    समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति।
    एति प्राची विश्ववारा नमोभिर्देवाँ ईळाना हविषा घृताची॥ ५.०२८.०१

    समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये।
    विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः॥ ५.०२८.०२

    अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु।
    सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि॥ ५.०२८.०३

    समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम्।
    वृषभो द्युम्नवाँ असि समध्वरेष्विध्यसे॥ ५.०२८.०४

    समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर।
    त्वं हि हव्यवाळसि॥ ५.०२८.०५

    आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे।
    वृणीध्वं हव्यवाहनम्॥ ५.०२८.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 29.

    त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त।
    अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः॥ ५.०२९.०१

    अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य।
    आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ॥ ५.०२९.०२

    उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः।
    तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवाँ इन्द्रो अस्य॥ ५.०२९.०३

    आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः।
    जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन्॥ ५.०२९.०४

    अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम्।
    यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः॥ ५.०२९.०५

    नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत्।
    अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम्॥ ५.०२९.०६

    सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि।
    त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम्॥ ५.०२९.०७

    त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः।
    कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान॥ ५.०२९.०८

    उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः।
    वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम्॥ ५.०२९.०९

    प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः।
    अनासो दस्यूँरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः॥ ५.०२९.१०

    स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम्।
    आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य॥ ५.०२९.११

    नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः।
    गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन्॥ ५.०२९.१२

    कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ।
    या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम॥ ५.०२९.१३

    एता विश्वा चकृवाँ इन्द्र भूर्यपरीतो जनुषा वीर्येण।
    या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः॥ ५.०२९.१४

    इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म।
    वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम्॥ ५.०२९.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५.
    Rigveda, Mandala - 5, Sukta - 30.

    क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम्।
    यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती॥ ५.०३०.०१

    अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन्।
    अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम॥ ५.०३०.०२

    प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः।
    वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः॥ ५.०३०.०३

    स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित्।
    अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम्॥ ५.०३०.०४

    परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत्।
    अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः॥ ५.०३०.०५

    तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः।
    अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः॥ ५.०३०.०६

    वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः।
    अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन्॥ ५.०३०.०७

    युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन्।
    अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः॥ ५.०३०.०८

    स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः।
    अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः॥ ५.०३०.०९

    समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन्।
    सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन्॥ ५.०३०.१०

    यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु।
    पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम्॥ ५.०३०.११

    भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा।
    ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम्॥ ५.०३०.१२

    सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने।
    तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः॥ ५.०३०.१३

    औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम्।
    अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा॥ ५.०३०.१४

    चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने।
    घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः॥ ५.०३०.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ५. Rigveda, Mandala - 5, Sukta - 30.

    No comments

    Post Top Ad

    Post Bottom Ad