ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 6 to 10.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 006.
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव।
स्तोमैर्वत्सस्य वावृधे॥ ८.००६.०१
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः।
विप्रा ऋतस्य वाहसा॥ ८.००६.०२
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्।
जामि ब्रुवत आयुधम्॥ ८.००६.०३
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः।
समुद्रायेव सिन्धवः॥ ८.००६.०४
ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।
इन्द्रश्चर्मेव रोदसी॥ ८.००६.०५
वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा।
शिरो बिभेद वृष्णिना॥ ८.००६.०६
इमा अभि प्र णोनुमो विपामग्रेषु धीतयः।
अग्नेः शोचिर्न दिद्युतः॥ ८.००६.०७
गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः।
कण्वा ऋतस्य धारया॥ ८.००६.०८
प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम्।
प्र ब्रह्म पूर्वचित्तये॥ ८.००६.०९
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ।
अहं सूर्य इवाजनि॥ ८.००६.१०
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।
येनेन्द्रः शुष्ममिद्दधे॥ ८.००६.११
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः।
ममेद्वर्धस्व सुष्टुतः॥ ८.००६.१२
यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन्।
अपः समुद्रमैरयत्॥ ८.००६.१३
नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि।
वृषा ह्युग्र शृण्विषे॥ ८.००६.१४
न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम्।
न विव्यचन्त भूमयः॥ ८.००६.१५
यस्त इन्द्र महीरपः स्तभूयमान आशयत्।
नि तं पद्यासु शिश्नथः॥ ८.००६.१६
य इमे रोदसी मही समीची समजग्रभीत्।
तमोभिरिन्द्र तं गुहः॥ ८.००६.१७
य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः।
ममेदुग्र श्रुधी हवम्॥ ८.००६.१८
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम्।
एनामृतस्य पिप्युषीः॥ ८.००६.१९
या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन्।
परि धर्मेव सूर्यम्॥ ८.००६.२०
त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः।
त्वां सुतास इन्दवः॥ ८.००६.२१
तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः।
यज्ञो वितन्तसाय्यः॥ ८.००६.२२
आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम्।
उत प्रजां सुवीर्यम्॥ ८.००६.२३
उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा।
अग्रे विक्षु प्रदीदयत्॥ ८.००६.२४
अभि व्रजं न तत्निषे सूर उपाकचक्षसम्।
यदिन्द्र मृळयासि नः॥ ८.००६.२५
यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः।
महाँ अपार ओजसा॥ ८.००६.२६
तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये।
उरुज्रयसमिन्दुभिः॥ ८.००६.२७
उपह्वरे गिरीणां संगथे च नदीनाम्।
धिया विप्रो अजायत॥ ८.००६.२८
अतः समुद्रमुद्वतश्चिकित्वाँ अव पश्यति।
यतो विपान एजति॥ ८.००६.२९
आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम्।
परो यदिध्यते दिवा॥ ८.००६.३०
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम्।
उतो शविष्ठ वृष्ण्यम्॥ ८.००६.३१
इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव।
उत प्र वर्धया मतिम्॥ ८.००६.३२
उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः।
विप्रा अतक्ष्म जीवसे॥ ८.००६.३३
अभि कण्वा अनूषतापो न प्रवता यतीः।
इन्द्रं वनन्वती मतिः॥ ८.००६.३४
इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः।
अनुत्तमन्युमजरम्॥ ८.००६.३५
आ नो याहि परावतो हरिभ्यां हर्यताभ्याम्।
इममिन्द्र सुतं पिब॥ ८.००६.३६
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः।
हवन्ते वाजसातये॥ ८.००६.३७
अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम्।
अनु सुवानास इन्दवः॥ ८.००६.३८
मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति।
मत्स्वा विवस्वतो मती॥ ८.००६.३९
वावृधान उप द्यवि वृषा वज्र्यरोरवीत्।
वृत्रहा सोमपातमः॥ ८.००६.४०
ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा।
इन्द्र चोष्कूयसे वसु॥ ८.००६.४१
अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः।
शतं वहन्तु हरयः॥ ८.००६.४२
इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम्।
कण्वा उक्थेन वावृधुः॥ ८.००६.४३
इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः।
इन्द्रं सनिष्युरूतये॥ ८.००६.४४
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी।
सोमपेयाय वक्षतः॥ ८.००६.४५
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे।
राधांसि याद्वानाम्॥ ८.००६.४६
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम्।
ददुष्पज्राय साम्ने॥ ८.००६.४७
उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत्।
श्रवसा याद्वं जनम्॥ ८.००६.४८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 007.
प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत्।
वि पर्वतेषु राजथ॥ ८.००७.०१
यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम्।
नि पर्वता अहासत॥ ८.००७.०२
उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः।
धुक्षन्त पिप्युषीमिषम्॥ ८.००७.०३
वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान्।
यद्यामं यान्ति वायुभिः॥ ८.००७.०४
नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे।
महे शुष्माय येमिरे॥ ८.००७.०५
युष्माँ उ नक्तमूतये युष्मान्दिवा हवामहे।
युष्मान्प्रयत्यध्वरे॥ ८.००७.०६
उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते।
वाश्रा अधि ष्णुना दिवः॥ ८.००७.०७
सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे।
ते भानुभिर्वि तस्थिरे॥ ८.००७.०८
इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः।
इमं मे वनता हवम्॥ ८.००७.०९
त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु।
उत्सं कवन्धमुद्रिणम्॥ ८.००७.१०
मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे।
आ तू न उप गन्तन॥ ८.००७.११
यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे।
उत प्रचेतसो मदे॥ ८.००७.१२
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम्।
इयर्ता मरुतो दिवः॥ ८.००७.१३
अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम्।
सुवानैर्मन्दध्व इन्दुभिः॥ ८.००७.१४
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः।
अदाभ्यस्य मन्मभिः॥ ८.००७.१५
ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः।
उत्सं दुहन्तो अक्षितम्॥ ८.००७.१६
उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः।
उत्स्तोमैः पृश्निमातरः॥ ८.००७.१७
येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम्।
राये सु तस्य धीमहि॥ ८.००७.१८
इमा उ वः सुदानवो घृतं न पिप्युषीरिषः।
वर्धान्काण्वस्य मन्मभिः॥ ८.००७.१९
क्व नूनं सुदानवो मदथा वृक्तबर्हिषः।
ब्रह्मा को वः सपर्यति॥ ८.००७.२०
नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः।
शर्धाँ ऋतस्य जिन्वथ॥ ८.००७.२१
समु त्ये महतीरपः सं क्षोणी समु सूर्यम्।
सं वज्रं पर्वशो दधुः॥ ८.००७.२२
वि वृत्रं पर्वशो ययुर्वि पर्वताँ अराजिनः।
चक्राणा वृष्णि पौंस्यम्॥ ८.००७.२३
अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम्।
अन्विन्द्रं वृत्रतूर्ये॥ ८.००७.२४
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः।
शुभ्रा व्यञ्जत श्रिये॥ ८.००७.२५
उशना यत्परावत उक्ष्णो रन्ध्रमयातन।
द्यौर्न चक्रदद्भिया॥ ८.००७.२६
आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः।
देवास उप गन्तन॥ ८.००७.२७
यदेषां पृषती रथे प्रष्टिर्वहति रोहितः।
यान्ति शुभ्रा रिणन्नपः॥ ८.००७.२८
सुषोमे शर्यणावत्यार्जीके पस्त्यावति।
ययुर्निचक्रया नरः॥ ८.००७.२९
कदा गच्छाथ मरुत इत्था विप्रं हवमानम्।
मार्डीकेभिर्नाधमानम्॥ ८.००७.३०
कद्ध नूनं कधप्रियो यदिन्द्रमजहातन।
को वः सखित्व ओहते॥ ८.००७.३१
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः।
स्तुषे हिरण्यवाशीभिः॥ ८.००७.३२
ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय।
ववृत्यां चित्रवाजान्॥ ८.००७.३३
गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः।
पर्वताश्चिन्नि येमिरे॥ ८.००७.३४
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः।
धातारः स्तुवते वयः॥ ८.००७.३५
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा।
ते भानुभिर्वि तस्थिरे॥ ८.००७.३६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 008.
आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम्।
दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु॥ ८.००८.०१
आ नूनं यातमश्विना रथेन सूर्यत्वचा।
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा॥ ८.००८.०२
आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः।
पिबाथो अश्विना मधु कण्वानां सवने सुतम्॥ ८.००८.०३
आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया।
पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु॥ ८.००८.०४
आ नो यातमुपश्रुत्यश्विना सोमपीतये।
स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा॥ ८.००८.०५
यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा।
आ यातमश्विना गतमुपेमां सुष्टुतिं मम॥ ८.००८.०६
दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा।
धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता॥ ८.००८.०७
किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना।
पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत्॥ ८.००८.०८
आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना।
अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा॥ ८.००८.०९
आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू।
विश्वान्यश्विना युवं प्र धीतान्यगच्छतम्॥ ८.००८.१०
अतः सहस्रनिर्णिजा रथेना यातमश्विना।
वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः॥ ८.००८.११
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम्।
स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम्॥ ८.००८.१२
आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया।
कृतं न ऋत्वियावतो मा नो रीरधतं निदे॥ ८.००८.१३
यन्नासत्या परावति यद्वा स्थो अध्यम्बरे।
अतः सहस्रनिर्णिजा रथेना यातमश्विना॥ ८.००८.१४
यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत्।
तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम्॥ ८.००८.१५
प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम्।
यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती॥ ८.००८.१६
आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा।
कृतं नः सुश्रियो नरेमा दातमभिष्टये॥ ८.००८.१७
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत।
राजन्तावध्वराणामश्विना यामहूतिषु॥ ८.००८.१८
आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम्।
यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत्॥ ८.००८.१९
याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम्।
याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा॥ ८.००८.२०
याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने।
ताभिः ष्वस्माँ अश्विना प्रावतं वाजसातये॥ ८.००८.२१
प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना।
पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा॥ ८.००८.२२
त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः।
कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि॥ ८.००८.२३
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 009.
आ नूनमश्विना युवं वत्सस्य गन्तमवसे।
प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः॥ ८.००९.०१
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु।
नृम्णं तद्धत्तमश्विना॥ ८.००९.०२
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः।
एवेत्काण्वस्य बोधतम्॥ ८.००९.०३
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते।
अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः॥ ८.००९.०४
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम्।
तेन माविष्टमश्विना॥ ८.००९.०५
यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः।
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः॥ ८.००९.०६
आ नूनमश्विनोरृषिः स्तोमं चिकेत वामया।
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि॥ ८.००९.०७
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना।
आ वां स्तोमा इमे मम नभो न चुच्यवीरत॥ ८.००९.०८
यदद्य वां नासत्योक्थैराचुच्युवीमहि।
यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम्॥ ८.००९.०९
यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव।
पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम्॥ ८.००९.१०
यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा।
वर्तिस्तोकाय तनयाय यातम्॥ ८.००९.११
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा।
यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः॥ ८.००९.१२
यदद्याश्विनावहं हुवेय वाजसातये।
यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः॥ ८.००९.१३
आ नूनं यातमश्विनेमा हव्यानि वां हिता।
इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ॥ ८.००९.१४
यन्नासत्या पराके अर्वाके अस्ति भेषजम्।
तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम्॥ ८.००९.१५
अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः।
व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः॥ ८.००९.१६
प्र बोधयोषो अश्विना प्र देवि सूनृते महि।
प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥ ८.००९.१७
यदुषो यासि भानुना सं सूर्येण रोचसे।
आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम्॥ ८.००९.१८
यदापीतासो अंशवो गावो न दुह्र ऊधभिः।
यद्वा वाणीरनूषत प्र देवयन्तो अश्विना॥ ८.००९.१९
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे।
प्र दक्षाय प्रचेतसा॥ ८.००९.२०
यन्नूनं धीभिरश्विना पितुर्योना निषीदथः।
यद्वा सुम्नेभिरुक्थ्या॥ ८.००९.२१
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 010.
यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः।
यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना॥ ८.०१०.०१
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम्।
बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा॥ ८.०१०.०२
त्या न्वश्विना हुवे सुदंससा गृभे कृता।
ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम्॥ ८.०१०.०३
ययोरधि प्र यज्ञा असूरे सन्ति सूरयः।
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु॥ ८.०१०.०४
यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू।
यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम्॥ ८.०१०.०५
यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु।
यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना॥ ८.०१०.०६
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

No comments