Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 11 to 15.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 011.

    त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा।
    त्वं यज्ञेष्वीड्यः॥ ८.०११.०१
    त्वमसि प्रशस्यो विदथेषु सहन्त्य।
    अग्ने रथीरध्वराणाम्॥ ८.०११.०२
    स त्वमस्मदप द्विषो युयोधि जातवेदः।
    अदेवीरग्ने अरातीः॥ ८.०११.०३
    अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः।
    नोप वेषि जातवेदः॥ ८.०११.०४
    मर्ता अमर्त्यस्य ते भूरि नाम मनामहे।
    विप्रासो जातवेदसः॥ ८.०११.०५
    विप्रं विप्रासोऽवसे देवं मर्तास ऊतये।
    अग्निं गीर्भिर्हवामहे॥ ८.०११.०६
    आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात्।
    अग्ने त्वांकामया गिरा॥ ८.०११.०७
    पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः।
    समत्सु त्वा हवामहे॥ ८.०११.०८
    समत्स्वग्निमवसे वाजयन्तो हवामहे।
    वाजेषु चित्रराधसम्॥ ८.०११.०९
    प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि।
    स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व॥ ८.०११.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 012.

    य इन्द्र सोमपातमो मदः शविष्ठ चेतति।
    येना हंसि न्यत्रिणं तमीमहे॥ ८.०१२.०१
    येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम्।
    येना समुद्रमाविथा तमीमहे॥ ८.०१२.०२
    येन सिन्धुं महीरपो रथाँ इव प्रचोदयः।
    पन्थामृतस्य यातवे तमीमहे॥ ८.०१२.०३
    इमं स्तोममभिष्टये घृतं न पूतमद्रिवः।
    येना नु सद्य ओजसा ववक्षिथ॥ ८.०१२.०४
    इमं जुषस्व गिर्वणः समुद्र इव पिन्वते।
    इन्द्र विश्वाभिरूतिभिर्ववक्षिथ॥ ८.०१२.०५
    यो नो देवः परावतः सखित्वनाय मामहे।
    दिवो न वृष्टिं प्रथयन्ववक्षिथ॥ ८.०१२.०६
    ववक्षुरस्य केतवो उत वज्रो गभस्त्योः।
    यत्सूर्यो न रोदसी अवर्धयत्॥ ८.०१२.०७
    यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः।
    आदित्त इन्द्रियं महि प्र वावृधे॥ ८.०१२.०८
    इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति।
    अग्निर्वनेव सासहिः प्र वावृधे॥ ८.०१२.०९
    इयं त ऋत्वियावती धीतिरेति नवीयसी।
    सपर्यन्ती पुरुप्रिया मिमीत इत्॥ ८.०१२.१०
    गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक्।
    स्तोमैरिन्द्रस्य वावृधे मिमीत इत्॥ ८.०१२.११
    सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये।
    प्राची वाशीव सुन्वते मिमीत इत्॥ ८.०१२.१२
    यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः।
    घृतं न पिप्य आसन्यृतस्य यत्॥ ८.०१२.१३
    उत स्वराजे अदितिः स्तोममिन्द्राय जीजनत्।
    पुरुप्रशस्तमूतय ऋतस्य यत्॥ ८.०१२.१४
    अभि वह्नय ऊतयेऽनूषत प्रशस्तये।
    न देव विव्रता हरी ऋतस्य यत्॥ ८.०१२.१५
    यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये।
    यद्वा मरुत्सु मन्दसे समिन्दुभिः॥ ८.०१२.१६
    यद्वा शक्र परावति समुद्रे अधि मन्दसे।
    अस्माकमित्सुते रणा समिन्दुभिः॥ ८.०१२.१७
    यद्वासि सुन्वतो वृधो यजमानस्य सत्पते।
    उक्थे वा यस्य रण्यसि समिन्दुभिः॥ ८.०१२.१८
    देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि।
    अधा यज्ञाय तुर्वणे व्यानशुः॥ ८.०१२.१९
    यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम्।
    होत्राभिरिन्द्रं वावृधुर्व्यानशुः॥ ८.०१२.२०
    महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः।
    विश्वा वसूनि दाशुषे व्यानशुः॥ ८.०१२.२१
    इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः।
    इन्द्रं वाणीरनूषता समोजसे॥ ८.०१२.२२
    महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम्।
    अर्कैरभि प्र णोनुमः समोजसे॥ ८.०१२.२३
    न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम्।
    अमादिदस्य तित्विषे समोजसः॥ ८.०१२.२४
    यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः।
    आदित्ते हर्यता हरी ववक्षतुः॥ ८.०१२.२५
    यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः।
    आदित्ते हर्यता हरी ववक्षतुः॥ ८.०१२.२६
    यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे।
    आदित्ते हर्यता हरी ववक्षतुः॥ ८.०१२.२७
    यदा ते हर्यता हरी वावृधाते दिवेदिवे।
    आदित्ते विश्वा भुवनानि येमिरे॥ ८.०१२.२८
    यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे।
    आदित्ते विश्वा भुवनानि येमिरे॥ ८.०१२.२९
    यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः।
    आदित्ते विश्वा भुवनानि येमिरे॥ ८.०१२.३०
    इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः।
    जामिं पदेव पिप्रतीं प्राध्वरे॥ ८.०१२.३१
    यदस्य धामनि प्रिये समीचीनासो अस्वरन्।
    नाभा यज्ञस्य दोहना प्राध्वरे॥ ८.०१२.३२
    सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः।
    होतेव पूर्वचित्तये प्राध्वरे॥ ८.०१२.३३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 013.

    इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम्।
    विदे वृधस्य दक्षसो महान्हि षः॥ ८.०१३.०१
    स प्रथमे व्योमनि देवानां सदने वृधः।
    सुपारः सुश्रवस्तमः समप्सुजित्॥ ८.०१३.०२
    तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम्।
    भवा नः सुम्ने अन्तमः सखा वृधे॥ ८.०१३.०३
    इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः।
    मन्दानो अस्य बर्हिषो वि राजसि॥ ८.०१३.०४
    नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे।
    रयिं नश्चित्रमा भरा स्वर्विदम्॥ ८.०१३.०५
    स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः।
    वया इवानु रोहते जुषन्त यत्॥ ८.०१३.०६
    प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम्।
    मदेमदे ववक्षिथा सुकृत्वने॥ ८.०१३.०७
    क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः।
    अया धिया य उच्यते पतिर्दिवः॥ ८.०१३.०८
    उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी।
    नमोवृधैरवस्युभिः सुते रण॥ ८.०१३.०९
    स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा।
    गन्तारा दाशुषो गृहं नमस्विनः॥ ८.०१३.१०
    तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः।
    आ याहि यज्ञमाशुभिः शमिद्धि ते॥ ८.०१३.११
    इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय।
    श्रवः सूरिभ्यो अमृतं वसुत्वनम्॥ ८.०१३.१२
    हवे त्वा सूर उदिते हवे मध्यंदिने दिवः।
    जुषाण इन्द्र सप्तिभिर्न आ गहि॥ ८.०१३.१३
    आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः।
    तन्तुं तनुष्व पूर्व्यं यथा विदे॥ ८.०१३.१४
    यच्छक्रासि परावति यदर्वावति वृत्रहन्।
    यद्वा समुद्रे अन्धसोऽवितेदसि॥ ८.०१३.१५
    इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः।
    इन्द्रे हविष्मतीर्विशो अराणिषुः॥ ८.०१३.१६
    तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः।
    इन्द्रं क्षोणीरवर्धयन्वया इव॥ ८.०१३.१७
    त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत।
    तमिद्वर्धन्तु नो गिरः सदावृधम्॥ ८.०१३.१८
    स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे।
    शुचिः पावक उच्यते सो अद्भुतः॥ ८.०१३.१९
    तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु।
    मनो यत्रा वि तद्दधुर्विचेतसः॥ ८.०१३.२०
    यदि मे सख्यमावर इमस्य पाह्यन्धसः।
    येन विश्वा अति द्विषो अतारिम॥ ८.०१३.२१
    कदा त इन्द्र गिर्वणः स्तोता भवाति शंतमः।
    कदा नो गव्ये अश्व्ये वसौ दधः॥ ८.०१३.२२
    उत ते सुष्टुता हरी वृषणा वहतो रथम्।
    अजुर्यस्य मदिन्तमं यमीमहे॥ ८.०१३.२३
    तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः।
    नि बर्हिषि प्रिये सददध द्विता॥ ८.०१३.२४
    वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः।
    धुक्षस्व पिप्युषीमिषमवा च नः॥ ८.०१३.२५
    इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः।
    ऋतादियर्मि ते धियं मनोयुजम्॥ ८.०१३.२६
    इह त्या सधमाद्या युजानः सोमपीतये।
    हरी इन्द्र प्रतद्वसू अभि स्वर॥ ८.०१३.२७
    अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम्।
    उतो मरुत्वतीर्विशो अभि प्रयः॥ ८.०१३.२८
    इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि।
    नाभा यज्ञस्य सं दधुर्यथा विदे॥ ८.०१३.२९
    अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे।
    मिमीते यज्ञमानुषग्विचक्ष्य॥ ८.०१३.३०
    वृषायमिन्द्र ते रथ उतो ते वृषणा हरी।
    वृषा त्वं शतक्रतो वृषा हवः॥ ८.०१३.३१
    वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः।
    वृषा यज्ञो यमिन्वसि वृषा हवः॥ ८.०१३.३२
    वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः।
    वावन्थ हि प्रतिष्टुतिं वृषा हवः॥ ८.०१३.३३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 014.

    यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।
    स्तोता मे गोषखा स्यात्॥ ८.०१४.०१
    शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे।
    यदहं गोपतिः स्याम्॥ ८.०१४.०२
    धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते।
    गामश्वं पिप्युषी दुहे॥ ८.०१४.०३
    न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः।
    यद्दित्ससि स्तुतो मघम्॥ ८.०१४.०४
    यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।
    चक्राण ओपशं दिवि॥ ८.०१४.०५
    वावृधानस्य ते वयं विश्वा धनानि जिग्युषः।
    ऊतिमिन्द्रा वृणीमहे॥ ८.०१४.०६
    व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना।
    इन्द्रो यदभिनद्वलम्॥ ८.०१४.०७
    उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः।
    अर्वाञ्चं नुनुदे वलम्॥ ८.०१४.०८
    इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च।
    स्थिराणि न पराणुदे॥ ८.०१४.०९
    अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते।
    वि ते मदा अराजिषुः॥ ८.०१४.१०
    त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः।
    स्तोतॄणामुत भद्रकृत्॥ ८.०१४.११
    इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः।
    उप यज्ञं सुराधसम्॥ ८.०१४.१२
    अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः।
    विश्वा यदजयः स्पृधः॥ ८.०१४.१३
    मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः।
    अव दस्यूँरधूनुथाः॥ ८.०१४.१४
    असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः।
    सोमपा उत्तरो भवन्॥ ८.०१४.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 15.

    तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम्।
    इन्द्रं गीर्भिस्तविषमा विवासत॥ ८.०१५.०१
    यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी।
    गिरीँरज्राँ अपः स्वर्वृषत्वना॥ ८.०१५.०२
    स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे।
    इन्द्र जैत्रा श्रवस्या च यन्तवे॥ ८.०१५.०३
    तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम्।
    उ लोककृत्नुमद्रिवो हरिश्रियम्॥ ८.०१५.०४
    येन ज्योतींष्यायवे मनवे च विवेदिथ।
    मन्दानो अस्य बर्हिषो वि राजसि॥ ८.०१५.०५
    तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा।
    वृषपत्नीरपो जया दिवेदिवे॥ ८.०१५.०६
    तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्।
    वज्रं शिशाति धिषणा वरेण्यम्॥ ८.०१५.०७
    तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः।
    त्वामापः पर्वतासश्च हिन्विरे॥ ८.०१५.०८
    त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः।
    त्वां शर्धो मदत्यनु मारुतम्॥ ८.०१५.०९
    त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे।
    सत्रा विश्वा स्वपत्यानि दधिषे॥ ८.०१५.१०
    सत्रा त्वं पुरुष्टुतँ एको वृत्राणि तोशसे।
    नान्य इन्द्रात्करणं भूय इन्वति॥ ८.०१५.११
    यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये।
    अस्माकेभिर्नृभिरत्रा स्वर्जय॥ ८.०१५.१२
    अरं क्षयाय नो महे विश्वा रूपाण्याविशन्।
    इन्द्रं जैत्राय हर्षया शचीपतिम्॥ ८.०१५.१३

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad