Phaladipika. फलदीपिका ।। Astro Classes.
Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.
पञ्चदशोऽध्यायः ।। भावचिन्ता ।।
भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै-
स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः ।
पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव
खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः ॥ १॥
तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते
पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते
भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं ।
मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् ॥ २॥
नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो
नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः ।
तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत्
तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥ ३॥
लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् ।
सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः ॥ ४॥
यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा ।
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥ ५॥
भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये
पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः ।
पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा
वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥ ६॥
तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला
भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः ।
पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः
वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥ ७॥
राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ
मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा
राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः
पापालोकितसंयुतो निजदशायां भावनाशावहाः ॥ ८॥
भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-
स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् ।
दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले
दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥ ९॥
यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे-
द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न ।
अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते
पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥ १०॥
द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं
तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् ।
पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं
त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥ ११॥
यद्भावेशस्याधिशत्रुग्रहो वा
यो वा खेटो बिन्दुशून्यर्क्षयुक्तः
तत्तत्पाके मूर्तिभावादिकानां
नाशं क्रूयादृऐववित्प्राश्रिकाय ॥ १२॥
स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः
षड्भिर्बलैर्मुख्यबलान्वितोऽपि ।
सन्धौ स्थितः सन्नफलप्रदः स्यत्
एवं विचिन्त्यात्र वदेद्विपाके ॥ १३॥
भावेषु भावस्फुटतुल्भागस्त-
द्भावजं पूर्णफलं विधत्ते ।
सन्धौ फलं नास्ति तदन्तराले
चिन्त्योऽनुपातः खलु खेचराणम् ॥ १४॥
सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ।
सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥ १५॥
प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ।
आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्
सर्पेणैव पितामहन्तु शिखिना मातामहं चिन्तयेत् ॥ १६॥
द्युमणिरमन्त्री भूसुतः सौमसौम्यौ
गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।
दिनकरद्विजेजौ जीवभानुज्ञमन्दाः
सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् ॥ १७॥
सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां
फलमनुपरिचिन्त्यं लग्नदेहादिभावैः ।
समुपचयविपत्ती सौम्यपापेषु सत्यः
कथयति विपरीतं रिःफषष्टमेषु ॥ १८॥
पापग्रहाः षष्ठमृतिव्ययस्था-
स्तद्भाववृद्धिं कलयन्ति दोषैः ।
शुभास्तु तद्भावलयं हि
तस्माच्छत्रवादि भावोत्फलप्रणाशः ॥ १९॥
भावस्य यस्यैव फलं विचिन्त्यं
भावं च तं लग्नमिति प्रकल्प्य ।
तस्माद्वदेद्द्वादशभावजानि
फलानि तद्रूपधनादिकानि ॥ २०॥
एवं हि तत्कारकतो विचिन्त्यं
पितुश्च मातुश्च सहोदरस्य ।
तन्मातुलस्यापि सुतस्य पत्यु-
र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥ २१॥
सूर्यास्थितर्क्षाज्जनकस्वरूपं
वृद्धिं द्वितीयेन तु तत्प्रकाशम् ।
तद्भ्रातरं तस्य गुणं तृतीयात्
तन्मातरं चापि सुखं चतुर्थात् ॥ २२॥
बुधिं प्रसादं सुतभाच्च षष्ठा-
त्पीडा पितुर्दोषर्मारं च रोगम् ।
कामं मदं तस्य तु सप्तमेन
दुःखं मृतिं मृत्युगृहात्तदयुः ॥ २३॥
पुण्यं शुभं तत्पितरं शुभेन
व्यापारमस्यैव हि कर्मभावात् ।
लाभं ह्युपान्त्यात् क्षयमन्त्य-
भावाच्चन्द्रादिकानां फलमेवमाहुः ॥ २४॥
तत्तद्भावात्कारकादेवमूह्यं
तत्तन्मातृभ्रातृपित्रात्मजाद्यम् ।
तस्मिन् भावे कारके भावनाथे
वीर्योपेते तस्य भावस्य सौखम् ॥ २५॥
धर्मे सूर्यः शीतगुर्बन्धुभावे
शौर्ये भौमः पञ्चमे देवमन्त्री
कामे शुक्रश्चाष्टमे भानुपुत्रः
कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ २६॥
लग्नेश्वरो यद्भवनेशयुक्तो
यद्भावगस्तस्य फलं ददाति ।
भावे तदीशे बलभाजि तेन
भावेन सौख्यं व्यसनं बलोने ॥ २७॥
यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-
स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च ।
संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं
कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥ २८॥
दुःस्थानपस्तदितरस्वगृहस्थितश्चेत्
स्वक्षेत्रभावफलमेव करोति नान्यति
मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः
षष्ठाधिपतकृतदोषफलं च नात्र ॥ २९॥
राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः ।
त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥ ३०॥

No comments