श्री रामनाम सङ्कीर्तनम् ।। Astro Classes.
Shri Rama Nama Sankirtanam. श्री रामनाम सङ्कीर्तनम् ।। Astro Classes, Silvassa.
अथ श्री रामनाम सङ्कीर्तनम् ।।
श्रीनाथे जानकीनाथे अभेदः परमात्मनि ।
तथापि मम सर्वस्वः रामः कमललोचनः ॥
ॐ श्रीरामचन्द्राय नमः ।।
स्तवः
वर्णानामर्थसङ्घानां रसानां छन्दसामपि ।
मङ्गलानां च कर्तारौ वन्दे वाणीविनायकौ ॥ १॥
भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरम् ॥ २॥
वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् ।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥ ३॥
सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ॥ ४॥
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् ।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम् ॥ ५॥
यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुराः
यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादप्लवमेव भाति हि भवाम्भोधेस्तितीर्षावतां
वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम् ॥ ६॥
प्रसन्नतां या न गताभिषेकतस्तथा न मम्लौ वनवासदुःखतः ।
मुखाम्बुजश्रीरघुनन्दनस्य मे सदास्तु सा मञ्जुलमङ्गलप्रदा ॥ ७॥
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् ।
पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ॥ ८॥
मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं
वैराग्याम्बुजभास्करं त्वघहरं ध्वान्तापहं तापहम् ।
मोहाम्भोधरपुञ्जपाटनविधौ खेसम्भवं शङ्करं
वन्दे ब्रह्मकुले कलङ्कशमनं श्रीरामभूपप्रियम् ॥ ९॥
सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरं
पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम् ।
राजीवायतलोचनं धृतजटाजूटेन संशोभितं
सीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजे ॥ १०॥
कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौ
शोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ ।
मायामानुषरूपिणौ रघुवरौ सद्धर्मवन्तौ हितौ
सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥ ११॥
ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययं
श्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा ।
संसारामयभेषजं सुमधुरं श्रीजानकीजीवनं
धन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ॥ १२॥
शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं
ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं
वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥ १३॥
केकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं
शोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम् ।
पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं
नौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥ १४॥
आर्तानामार्तिहन्तारं भीतानां भयनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥ १५॥
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ १६॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पक आसने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १७॥
प्रार्थना
नान्या स्पृहा रघुपते हृदयेऽस्मदीये
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मे
कामादिदोषरहितं कुरु मानसं च ॥
ॐ श्रीसीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्समेत-
श्रीरामचन्द्रपरब्रह्मणे नमः ॥
अथ सङ्कीर्तनम् ।
बालकाण्डम्
१. शुद्धब्रह्मपरात्पर राम ।
२. कालात्मकपरमेश्वर राम ॥
३. शेषतल्पसुखनिद्रित राम ।
४. ब्रह्माद्यमरप्रार्थित राम ॥
५. चण्डकिरणकुलमण्डन राम ।
६. श्रीमद्दशरथनन्दन राम ॥
७. कौशल्यासुखवर्धन राम ।
८. विश्वामित्रप्रियधन राम ॥
९. घोरताटकाघातक राम ।
१०. मारीचादिनिपातक राम ॥
११. कौशिकमखसंरक्षक राम ।
१२. श्रीमदहल्योद्धारक राम ॥
१३. गौतममुनिसम्पूजित राम ।
१४. सुरमुनिवरगणसंस्तुत राम ॥
१५. नाविकधावितमृदुपद राम ।
१६. मिथिलापुरजनमोहक राम ॥
१७. विदेहमानसरञ्जक राम ।
१८. त्र्यम्बककार्मुकभञ्जक राम ॥
१९. सीतार्पितवरमालिक राम ।
२०. कृतवैवाहिककौतुक राम ॥
२१. भार्गवदर्पविनाशक राम ।
२२. श्रीमदयोध्यापालक राम ॥
अयोध्याकाण्डम्
२३. अगणितगुणगणभूषित राम ।
२४. अवनीतनयाकामित राम ॥
२५. राकाचन्द्रसमानन राम ।
२६. पितृवाक्याश्रितकानन राम ॥
२७. प्रियगुहविनिवेदितपद राम ।
२८. तत्क्षालितनिजमृदुपद राम ॥
२९. भरद्वाजमुखनन्दक राम ।
३०. चित्रकूटाद्रिनिकेतन राम ॥
३१. दशरथसन्ततचिन्तित राम ।
३२. कैकेयीतनयार्थित राम ॥
३३. विरचितनिजपितृकर्मक राम ।
३४. भरतार्पितनिजपादुक राम ॥
अरण्यकाण्डम्
३५. दण्डकवनजनपावन राम ।
३६. दुष्टविराधविनाशन राम ॥
३७. शरभङ्गसुतीक्ष्णार्चित राम ।
३८. अगस्त्यनुग्रहवर्धित राम ॥
३९. गृध्राधिपसंसेवित राम ।
४०. पञ्चवटीतटसुस्थित राम ॥
४१. शूर्पणखार्तिविधायक राम ।
४२. खरदूषणमुखसूदक राम ॥
४३. सीताप्रियहरिणानुग राम ।
४४. मारीचार्तिकृदाशुग राम ॥
४५. विनष्टसीतान्वेषक राम ।
४६. गृध्राधिपगतिदायक राम ॥
४७. शबरीदत्तफलाशन राम ।
४८. कबन्धबाहुच्छेदक राम ॥
किष्किन्धाकाण्डम्
४९. हनुमत्सेवितनिजपद राम ।
५०. नतसुग्रीवाभीष्टद राम ॥
५१. गर्वितवालिसंहारक राम ।
५२. वानरदूतप्रेषक राम ॥
५३. हितकरलक्ष्मणसंयुत राम ।
सुन्दरकाण्डम्
५४. कपिवरसन्ततसंस्मृत राम ॥
५५. तद्गतिविघ्नध्वंसक राम ।
५६. सीताप्राणाधारक राम ॥
५७. दुष्टदशाननदूषित राम ।
५८. शिष्टहनूमद्भूषित राम ॥
५९. सीतावेदितकाकावन राम ।
६०. कृतचूडामणिदर्शन राम ॥
६१. कपिवरवचनाश्वासित राम ।
युद्धकाण्डम्
६२. रावणनिधनप्रस्थित राम ॥
६३. वानरसैन्यसमावृत राम ।
६४. शोषितसरिदीशार्थित राम ॥
६५. विभीषणाभयदायक राम ।
६६. पर्वतसेतुनिबन्धक राम ॥
६७. कुम्भकर्णशिरच्छेदक राम ।
६८. राक्षससङ्घविमर्दक राम ॥
६९. अहिमहिरावणचारण राम ।
७०. संहृतदशमुखरावण राम ॥
७१. विधिभवमुखसुरसंस्तुत राम ।
७२. खस्थितदशरथवीक्षित राम ॥
७३. सीतादर्शनमोदित राम ।
७४. अभिषिक्तविभीषणनत राम ॥
७५. पुष्पकयानारोहण राम ।
७६. भरद्वाजाभिनिषेवण राम ॥
७७. भरतप्राणप्रियकर राम ।
७८. साकेतपुरीभूषण राम ॥
७९. सकलस्वीयसमानत राम ।
८०. रत्नलसत्पीठास्थित राम ॥
८१. पट्टाभिषेकालङ्कृत राम ।
८२. पार्थिवकुलसम्मानित राम ॥
८३. विभीषणार्पितरङ्गक राम ।
८४. कीशकुलानुग्रहकर राम ॥
८५. सकलजीवसंरक्षक राम ।
८६. समस्तलोकाधारक राम ॥
उत्तरकाण्डम्
८७. आगतमुनिगणसंस्तुत राम ।
८८. विश्रुतदशकण्ठोद्भव राम ॥
८९. सीतालिङ्गननिर्वृत राम ।
९०. नीतिसुरक्षितजनपद राम ॥
९१. विपिनत्याजितजनकज राम ।
९२. कारितलवणासुरवध राम ॥
९३. स्वर्गतशम्बुकसंस्तुत राम ।
९४. स्वतनयकुशलवनन्दित राम ॥
९५. अश्वमेधक्रतुदीक्षित राम ।
९६. कालावेदितसुरपद राम ॥
९७. आयोध्यकजनमुक्तिद राम ।
९८. विधिमुखविबुधानन्दक राम ॥
९९. तेजोमयनिजरूपक राम ।
१००. संसृतिबन्धविमोचक राम ॥
१०१. धर्मस्थापनतत्पर राम ।
१०२. भक्तिपरायणमुक्तिद राम ॥
१०३. सर्वचराचरपालक राम ।
१०४. सर्वभवामयवारक राम ॥
१०५. वैकुण्ठालयसंस्थित राम ।
१०६. नित्यानन्दपदस्थित राम ॥
१०७. राम राम जय राजा राम ।
१०८. राम राम जय सीता राम ॥
भजनम्
भयहर मङ्गल दशरथ राम ।
जय जय मङ्गल सीता राम ॥
मङ्गलकर जय मङ्गल राम ।
सङ्गतशुभविभवोदय राम ॥
आनन्दामृतवर्षक राम ।
आश्रितवत्सल जय जय राम ॥
रघुपति राघव राजा राम ।
पतितपावन सीता राम ॥
स्तवः
कनकाम्बर कमलासनजनकाखिल-धाम ।
सनकादिकमुनिमानससदनानघ भूम ॥
शरणागतसुरनायकचिरकामित काम ।
धरणीतलतरण दशरथनन्दन राम ॥
पिशिताशनवनितावधजगदानन्द राम ।
कुशिकात्मजमखरक्षण चरिताद्भुत राम ॥
धनिगौतमगृहिणीस्वजदघमोचन राम ।
मुनिमण्डलबहुमानित पदपावन राम ॥
स्मरशासनसुशरासनलघुभञ्जन राम ।
नरनिर्जरजनरञ्जन सीतापति-राम ॥
कुसुमायुधतनुसुन्दर कमलानन राम ।
वसुमानितभृगुसम्भवमदमर्दन राम ॥
करुणारसवरुणालय नतवत्सल राम ।
शरणं तव चरणं भवहरणं मम राम ॥
श्रीरामप्रणामः
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
रामाय रामचन्द्राय रामभद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
श्रीहनुमत्प्रणामः
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिवरदूतं वातजातं नमामि ॥ १॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ २॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ३॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ५॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ६॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ७॥
इति अष्टोत्तरशतनामरामायणं समाप्तम् ।।

No comments