Header Ads

  • Breaking News

    श्री महालक्ष्मी स्तोत्रम् - इन्द्र रचितम् ।। Astro Classes.

    Shri Maha Lakxmi Stotra, Indra Rachitam.
    श्री महालक्ष्मी स्तोत्रम् - इन्द्र रचितम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।
    ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ।
    कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ १॥

    पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
    पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २॥

    सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
    सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ३॥

    हरिभक्‍तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
    कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४॥

    कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने ।
    सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५॥

    शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः ।
    नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ६॥

    वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।
    स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नपालये ॥ ७॥

    गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
    सुरभि सा गवां माता दक्षिणा यज्ञकामनी ॥ ८॥

    अदितिर्देवमाता त्वं कमला कमलालये ।
    स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ९॥

    त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
    शुद्धसत्वस्वरूपा त्वं नारायणपरायाणा ॥ १०॥

    क्रोधहिंसावर्जिता च वरदा च शुभानना ।
    परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ११॥

    यया विना जगत् सर्वे भस्मीभूतमसारकम् ।
    जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ १२॥

    सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी ।
    यया विना न सम्भाप्यो बाध्ववैर्बान्धवः सदा ॥ १३॥

    त्वया हीनो बन्धुहीनस्वत्वया युक्‍तः सबान्धवः ।
    धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १४॥

    यथा माता स्तनन्धानां शिशूनां शैशवे सदा ।
    तथा त्वं सर्वदा माता सर्वेषां सर्वरूपताः ॥ १५॥

    मातृहीन स्नत्यक्‍तः स चेज्जीवति दैवतः ।
    त्वया हीनो जनःकोऽपि न जीवत्येव निश्चितम् ॥ १६॥

    सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
    वैरिग्रस्तं च विषयं देहि मह्मं सनातनि ॥ १७॥

    वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुकाः ।
    सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ १८॥

    राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
    कीर्ति देहि धनं देहि यशो मह्मं च देहि वै ॥ १९॥

    कामं देहि मतिं देहि भोगान देहि हरिप्रिये ।
    ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् ॥ २०॥

    प्रभावां च प्रतापं च सर्वाधिकारमेव च ।
    जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ २१॥

    इत्युक्‍त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ।
    प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ २२॥

    ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।
    सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ २३॥

    देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् ।
    केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २४॥

    ययुदैवाश्च सन्तुष्टाः स्वं स्वं स्थानञ्च नारद ।
    देवी ययोऐ हरेः क्रोडं दृष्टा क्षीरोदशायिनः ॥ २५॥

    ययतुश्चैय स्वगृहं ब्रह्मेशानी च नारद ।
    दत्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २६॥

    इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्न्रः ।
    कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ २७॥

    सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरूर्नरः ।
    पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २८॥

    सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः ।
    महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २९॥

    ॥ इतिश्री इन्द्रकृतं लक्ष्मीस्तोत्रम् सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad