Header Ads

  • Breaking News

    श्री महालक्ष्मी स्तोत्रम् - अगस्त्यरचितम् ।। Astro Classes.

    Shri Maha Lakxmi Stotra, Maharshi Agastya Rachita.
    श्री महालक्ष्मी स्तोत्रम् - अगस्त्य रचितम् ।। Astro Classes, Silvassa.

    ऋषिवर अगस्त द्वारा रचित श्रीलक्ष्मी स्तोत्रम् । यह स्तोत्र अत्यन्त फलदायी है ।।

    जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
    जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥

    महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
    हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

    पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
    सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥

    जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
    दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥

    नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
    वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥

    रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
    दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥

    नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
    ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥

    विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
    आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥

    अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
    चञ्चलायै नमस्तुभ्यं ललितायै नमो नमः ॥

    नमः प्रद्युम्नजननि मातुस्तुभ्यं नमो नमः ।
    परिपालय भो मातर्मां तुभ्यं शरणागतं ॥

    शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
    त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥

    पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे ।
    शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥

    तावद्विराजते रूपं तावच्छीलं विराजते ।
    तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥

    लक्ष्मित्वयालङ्कृतमानवा ये पापैर्विमुक्‍ता नृपलोकमान्याः ।
    गुणैर्विहीना गुणिनो भवन्ति दुशीलिनः शीलवतां वरिष्ठाः ॥

    लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलं ।
    लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥

    लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां ।
    रुद्राद्या रविचन्द्रदेवपतयो वक्‍तुं च नैव क्षमाः ॥

    अस्माभिस्तव रूपलक्षणगुणान्वक्‍तुं कथं शक्यते ।
    मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवं ॥

    दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतं ।
    कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धन्नायकं कुरु ॥

    मां विलोक्य जननि हरिप्रिये । निर्धनं त्वत्समीपमागतं ॥

    देहि मे झटिति लक्ष्मि । कराग्रं वस्त्रकाञ्चनवरान्नमद्भुतं ॥

    त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ॥

    त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
    त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ॥

    नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
    धर्माधारे नमस्तुभ्यं नमः सम्पत्तिदायिनी ॥

    दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
    मज्जन्तं मां करे धृत्वा सूद्धर त्वं रमे द्रुतं ॥

    किं लक्ष्मि बहुनोक्‍तेन जल्पितेन पुनः पुनः ।
    अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥

    एतच्श्रुत्वाऽगस्तिवाक्यं हृष्यमाण हरिप्रिया ।
    उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥

    लक्ष्मीरुवाच:-
    यत्त्वयोक्‍तमिदं स्तोत्रं यः पठिष्यति मानवः ।
    शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥

    नित्यं पठति यो भक्‍त्या त्वलक्ष्मीस्तस्य नश्यति ।
    रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ॥

    यः पठेत्प्रातरुत्थाय श्रद्धा-भक्‍तिसमन्वितः ।
    गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ॥

    सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत् ।
    पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्‍ता च मानवः ॥

    इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितं ।
    विष्णुप्रसादजननं चतुर्वर्गफलप्रदं ॥

    राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
    भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥

    न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते ।
    दुर्वृत्तानां च पापानां बहुहानिकरं परं ॥

    मन्दुराकरिशालासु गवां गोष्ठे समाहितः ।
    पठेत्तद्दोषशान्त्यर्थं महापातकनाशनं ॥

    सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
    अगस्रिआमुनिना प्रोक्‍तं प्रजानां हितकाम्यया ॥

    सङ्कलन - डॉ० मनस्वी श्रीविद्यालङ्कार "मनस्वी" ।।

    ॥ इत्यगस्तिविरचितं लक्ष्मीस्तोत्रं सम्पूर्णं ॥

    No comments

    Post Top Ad

    Post Bottom Ad