Header Ads

  • Breaking News

    श्रीवेङ्कटेश्वर स्तोत्रम् ।। Astro Classes.

    Shri Venkateshvara Stotram.
    श्रीवेङ्कटेश्वर स्तोत्रम् ।। Astro Classes, Silvassa.

    चतुरश्चतुरः सकृत्पुमर्थान्
    चतुरोदातुं इवोद्वहन् भुजान् यः ।
    करुणावरुणालयः समिन्धे
    फणिशैते शरणन्तमाश्रयामः  ॥ १॥

    नमस्कर्मीकुर्मोस् नटजन मनोभीष्ट घटना
    पटियांसं शेषक्षितिधरशिरोभूषण मणिम् ।
    त्रिलोकीनिर्माणस्थितिहरणलीलासुरषिकम्
    श्रियःकान्तन्देवं सुगुणनिधिं अस्मत्कुलगुरुम् ॥ २॥

    श्रीमद् वेङ्कटशैलशेखरतटे सञ्चारमातन्वती
    निष्कम्पां तटितं सदैव दधति भूयो अमृतं  वर्षति ।
    सौहार्दं च धनञ्जये विधदती ध्यातुं तमोधुन्वति
    पुष्याद्वोनितरां प्रमोदलतिकां या कापि कादम्बिनीम् ॥ ३॥

    जयन्ति श्रीकान्तप्रणयरसधारा मधुरिपोः
    कटाक्षः कारुण्यामृतजलधिकल्लोलनिकराः ।
    त्रिलोकी कल्याणप्रणयनमहाकल्पविटपाः
    श्रितस्वान्तध्वान्तप्रषमकरणादित्यकिरणः ॥ ४॥

    अहीनशैलस्थं अहीनवैभवं महो यदा भाति महोत्सवः सताम्
    निरन्तरं तं निगमान्तगोचरं चिरन्तनं चेतसि चिन्तयामहम् ॥ ५॥

    ॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेश्वरस्तोत्रं समाप्तम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad