Header Ads

  • Breaking News

    Shri Anjaneya Gayatri, Dhyanam, Trikal Vandanam. Astro Classes.

    अथ आञ्जनेय गायत्री, ध्यानं, त्रिकाल वन्दनम् ।। Astro Classes, Silvassa.

    श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ।।

    ध्यानम्:-
    उद्यदादित्य सङ्काशं उदार भुज विक्रमम् ।
    कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥

    श्री राम हृदयानन्दं भक्त कल्प महीरुहम् ।
    अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥

    अञ्जनानन्दनं वीरं जानकी शोकनाशनम् ।
    कपीशं अक्षहन्तारं वन्दे लङ्का भयङ्करम् ॥

    आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।
    पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥

    उल्लङ्घ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय ।
    आदाय तेनैव ददाह लङ्कां नमामि तं प्रान्जलिराञ्जनेयं ॥

    अतुलित बलधामं स्वर्ण शैलाभदेहम्
    दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।
    सकल गुण निधानं वानराणां अधीशम्
    रघुपति प्रिय भक्तं वात जातं नमामि ॥

    गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् ।
    रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥

    यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् ।
    भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥

    अमिषीकृत मार्तन्दं गोश्पदीकृत सागरम् ।
    तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥

    मनोजवं मारुत तुल्य वेगं
    जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
    वातात्मजं वानर यूथ मुख्यं
    श्री रामदूतं शिरसा नमामि ॥



    आञ्जनेय गायत्री:-
    ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
    तन्नो हनुमत् प्रचोदयात् ॥

    आञ्जनेय त्रिकाल वन्दनं
    प्रातः स्मरामि हनुमन् अनन्तवीर्यं
    श्री रामचन्द्र चरणाम्बुज चञ्चरीकम् ।
    लङ्कापुरीदहन नन्दितदेववृन्दं
    सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥

    माध्यम् नमामि वृजिनार्णव तारणैकाधारं
    शरण्य मुदितानुपम प्रभावम् ।
    सीताधि सिन्धु परिशोषण कर्म दक्षं
    वन्दारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥

    सायं भजामि शरणोप स्मृताखिलार्ति
    पुञ्ज प्रणाशन विधौ प्रथित प्रतापम् ।
    अक्षान्तकं सकल राक्षस वंश
    धूम केतुं प्रमोदित विदेह सुतं दयालुम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad