श्रीआञ्जनेय द्वादशनामस्तोत्रम् ॥

॥ श्रीआञ्जनेय द्वादशनामस्तोत्रम् ॥

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥

उदधिक्रमणश्चैव सीताशोक विनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयीभवेत् ॥

Post a Comment

0 Comments