Header Ads

  • Breaking News

    भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥

    ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥

    श्री गणेशाय नमः । स्कन्द उवाच ।
    नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
    असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥

    वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
    भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥

    मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।
    तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥

    जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
    तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥

    चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
    हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥

    स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
    तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥

    द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
    चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥

    जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।
    जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥

    चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
    मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥

    किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
    वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥

    इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
    वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥

    त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
    मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ १२॥

    यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयन्त्रितः ।
    पठते श्रृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥

    इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् ।

    No comments

    Post Top Ad

    Post Bottom Ad