श्रीगणेशापराधक्षमापणस्तोत्रम् ॥
॥ श्रीगणेशापराधक्षमापणस्तोत्रम् ॥
श्रीगणेशाय नमः ।
सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये।
अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि ॥ १॥
प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः।
अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः ॥ २॥
प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः।
जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः ॥ ३॥
विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः।
अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम् ॥ ४॥
अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः।
अपवर्गमपि प्रभुर्धियो निजदासस्य तमो विहृत्य यः ॥ ५॥
जननीजनकः सुखप्रदो निखिलानिष्टहरोऽखिलेष्टदः।
गणनायक एव मामवेद्रदपाशाङ्कुशमोदकान् दधत् ॥ ६॥
शरणं करुणार्णवः स मे शरणं रक्ततनुश्चतुर्भुजः।
शरणं भजकान्तरायहा शरणं मङ्गलमूर्तिरस्तु मे ॥ ७॥
सततं गणनायकं भजे नवनीताधिककोमलान्तरम्।
भजनाद्भवभीतिभञ्जनं स्मरणाद्विघ्ननिवारणक्षमम् ॥ ८॥
अरुणारुणवर्णराजितं तरुणादित्यसमप्रभं प्रभुम्।
वरुणायुधमोदकावहं करुणामूर्तिमहं प्रणौमि तम् ॥ ९॥
क्व नु मूषकवाहनं प्रभुं मृगये त्वज्ञतमोऽवनीतले।
विबुधास्तु पितामहादयस्त्रिषु लोकेष्वपि यं न लेभिरे ॥ १०॥
शरणागतपालनोत्सुकं परमानन्दमजं गणेश्वरम्।
वरदानपटुं कृपानिधिं हृदयाब्जे निदधामि सर्वदा ॥ ११॥
सुमुखे विमुखे सति प्रभौ न महेन्द्रादपि रक्षणं कदा।
त्वयि हस्तिमुखे प्रसन्नताऽभिमुखेनापि यमाद्भयं भवेत् ॥ १२॥
सुतरां हि जडोऽपि पण्डितः खलु मूकोऽप्यतिवाक्पतिर्भवेत्।
गणराजदयार्द्रवीक्षणादपि चाज्ञः सकलज्ञातामियात् ॥ १३॥
अमृतं तु विषं विषं सुधा परमाणुस्तु नगो नगोऽप्यणुः।
कुलिशं तु तृणं तृणं पविर्गणनाथाशु तवेच्छया भवेत् ॥ १४॥
गतोऽसि विभो विहाय मां ननु सर्वज्ञ न वेत्सि मां कथम्।
किमु पश्यसि विश्वदृङ् न मां न दया किमपि ते दयानिधे ॥ १५॥
अयि दीनदयासरित्पते मयि नैष्ठुर्यमिदं कुतः कृतम्।
निजभक्तिसुधालवोऽपि यन्न हि दत्तो जनिमृत्युमोचकः ॥ १६॥
नितरां विषयोपभोगतः क्षपितं त्वायुरमूल्यमेनसा।
अहहाज्ञतमस्य साहसं सहनीयं कृपया त्वया विभो ॥ १७॥
भगवन्नहि तारकस्य ते वत मन्त्रस्य जपः कृतस्तथा।
न कदैकधियापि चिन्तनं तव मूर्तेस्तु मयातिपाप्मना ॥ १८॥
भजनं न कृतं समर्चनं तव नामस्मरणं न दर्शनम्।
हवनं प्रियमोदकार्पणं नवदूर्वा न समर्पिता मया ॥ १९॥
नच साधुसमागमः कृतस्तव भक्ताश्च मया न सत्कृताः।
द्विजभोजनमप्यकारि नो वत दौरात्म्यमिदं क्षमस्व मे ॥ २०॥
न विधिं तव सेवनस्य वा नच जाने स्तवनं मनुं तथा।
करयुग्मशिरःसुयोजनं तव भूयाद्गणनाथपूजनम् ॥ २१॥
अथ का गणनाथ मे गतिर्नहि जाने पतितस्य भाविनी।
इति तप्ततनुं सदाऽव मामनुकम्पार्द्रकटाक्षवीक्षणैः ॥ २२॥
इह दण्डधरस्य सङ्गमेऽखिलधैर्यच्यवने भयङ्करे।
अविता गणराज को नु मां तनुपातावसरे त्वया विना ॥ २३॥
वद कं भवतोऽन्यमिष्टदाच्छरणं यामि दयाधनादृते।
अवनाय भवाग्निभर्जितो गतिहीनः सुखलेशवर्जितः ॥ २४॥
श्रुतिमृग्यपथस्य चिन्तनं किमु वाचोऽविषयस्य संस्तुतिम्।
किमु पूजनमप्यनाकृतेरसमर्थो रचयामि देवते ॥ २५॥
किमु मद्विकलात्स्वसेवनं किमु रङ्कादुपचारवैभवम्।
जडवाङ्मतितो निजस्तुतिं गणनाथेच्छसि वा दयानिधे ॥ २६॥
अधुनापि च किं दया न ते मम पापातिशयादितीश चेत्।
हृदये नवनीतकोमले न हि काठिन्यनिवेशसम्भवः ॥ २७॥
व्यसनार्दितसेवकस्य मे प्रणतस्याशु गणेश पादयोः।
अभयप्रदहस्तपङ्कजं कृपया मूर्ध्नि कुरुष्व तावकम् ॥ २८॥
जननीतनयस्य दृक्पथं मुहुरेति प्रसभं दयार्द्रधीः।
मम दृग्विषयस्तथैव भो गणनाथाशु भवनुकम्पया ॥ २९॥
गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते।
द्विजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते ॥ ३०॥
गणनाथ गणेश विघ्नराट् शिवसूनो जगदेकसद्गुरो।
सुरमानुषगीतमद्यशः प्रणतं मामव संसृतेर्भयात् ॥ ३१॥
जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्गते।
जय योगिसमूहसद्गुरो जय सेवारत कल्पनातरो ॥ ३२॥
तनुवाग् हृदयैरसच्च सद्यदनस्थात्रितये कृतं मया।
जगदीश करिष्यमाणमप्यखिलं कर्म गणेश तेऽर्पितम् ॥ ३३॥
इति कृष्णमुखोद्गतं स्तवं गणराजस्य पुरः पठेन्नरः।
सकलाधिविवर्जितो भवेत्सुतदारादिसुखी स मुक्तिभाक् ॥ ३४॥
इति मुद्गलपुराणन्तर्वर्ति श्रीगणेशापराधक्षमापणस्तोत्रं सम्पूर्णम् ।

No comments