उमाऽक्षरमाला ॥

॥ उमाऽक्षरमाला ॥

अक्षरं वाक्पथातीतं ऋक्षराजनिभाननम् ।
रक्षताद्वाम नः किञ्चिदुक्षवाहनमोहनम् ॥ १॥

आकाशकेशमहिषीं आकारविजितोर्वशीम् ।
आशाहिनजनध्येयां आशापालार्चितां नुमः ॥ २॥

इन्द्रप्रभृतिगीर्वाणवन्दिताङ्ध्रिकुशेशया ।
चन्द्रस्तनन्धयापीडजाया विजयतेतराम् ॥ ३॥

ईश्वरीं सर्वभूतानां कः शिवां स्तोतुमीश्वरः ।
चतुर्भिरसमेतो ना वदनैरुतबाहुभिः ॥ ४॥

उमा नामादिमा भामा वामा श्यामा विमानमा ।
विमानमान्यमाया मा भिमा रामानुमातु मा ॥ ५॥

ऊरुं तं दक्षिणं मातुः स्मरामि निजमासनम् ।
यस्मादहं परिभ्रष्टः कल्की भूभुवनं गतः ॥ ६॥

ऋषीणां चक्षुषो ज्योतिः बाला शैलस्य चक्षुषः । 
हरस्य चक्षुषः कान्ता मातोमा मम चक्षुषः ॥ ७॥

ॠकारं वेष्टितं द्वाभ्यां नाभ्यामुभयतो दिशम् ।
आकारो वा क्षमः पातुं स चन्द्रेण वतंसितः ॥ ८॥

लृकारः शीतलापाङ्गि ककारेणेव सर्वदा ।
श्लिष्ट एव त्वया गौरि मेरुधन्वा प्रयुज्यये ॥ ९॥

लॄकारोऽम्ब त्वया बाल्ये कलभाषिणि भाषितः ।
नचेदयमसन्वर्णो गृह्यते कथमागमे ॥ १०॥

एणस्तनन्धयालोकं एकान्तालोचनामृतम् ।
एकाम्रनायकदृशोर्भाग्यं विजयतेतराम् ॥ ११॥

ऐश्वर्यं कः पुमानीष्टे गिरिजायाः प्रभाषितुम् ।
चामरग्राहिणी यस्याः स्वयमम्भोजवासिनी ॥ १२॥

ओङ्कार इव शर्वस्य ह्रीङ्कारस्तव वाचकः ।
अनयोरम्बिके भेदं यो न वेद स वेद ना ॥ १३॥

औदार्ये देवता धेनुः सौन्दर्ये मणिपुत्रिका ।
स्वयं शक्तिर्नगसुता त्रिलोकी राज्यमर्हति ॥ १४॥

अंसयोर्विनतं सम्यगुन्नतं कुचकुम्भयोः ॥
अमृतं शङ्करदृशोः परं जयति दैवतम् ॥ १५॥

अः कुण्ठित्तोऽभवद्येषु तेषु दर्शितविक्रमा ।
यातुधानेषु भीमेषु पातु वो भीमभामिनी ॥ १६॥

कमलासुतेन यत्रात् कृतानि शृङ्गारतन्त्रसूत्राणि ।
स्तोकान्यपि बहुलार्थान्यगजाहसितानि पान्तु त्वाम् ॥ १७॥

खं भवती भूर्भवती पवनो भवती हुताशनो भवती ।
सलिलं च देवि भवती भवतीं हित्वा न किञ्चिदपि ॥ १८॥

गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः ।
अधरमणौ त्रिपुरजिते दधासि पीयूषमम्ब त्वम् ॥ १९॥

घनमतिदायकवेणी वाणीपतिमुख्यदेवताविनुता ।
पुररिपुपाणिगृहीती पूर्णं विदधातु मे कामम् ॥ २०॥

ङत्वं वादस्य लिपौ मातः केनापि लिङ्गभेदेन ।
त्वद्रूपता पुरारेस्तदभावे तु द्वयोरैक्यम् ॥ २१॥

चञ्चलविशालनयना तुङ्गकुचा चञ्चरीकनीलकचा ।
पञ्चमुखस्य पुरन्ध्री जगतोंऽहःसञ्चयं हरतु ॥ २२॥

छत्रग्रहणनियोज्या दशशतनेत्रस्य भामिनी यस्याः ।
तस्याश्चरणमुमाया भवातपे क्लिश्यतां छत्रम् ॥ २३॥

जम्बुकनायकनयनज्योत्स्नेयं रङ्गशायिनो भगिनी ।
अखिलानामण्डानामधिराज्ञी विजयते चण्डी ॥ २४॥

झङ्कृतिं करोति चेन्नमत्तषट्पदावली
     यन्मुखाम्बुजन्मना सुगन्धिना निमन्त्रिता ।
कर्णकुन्तलभ्रमाद्भवेन नैव वार्यते
     शैलशक्रपुत्रिका धुनोतु सा मम भ्रमम् ॥ २५॥

ञमङणनाः सम्प्रोक्त्ता चपकटताख्येषु गौरि वर्गेषु ।
उत्तमसञ्ज्ञाः प्राज्ञैः नरवर्गे तु त्वदङ्ध्रिरताः ॥ २६॥

टङ्कृतिमुखरितदिक्कं सज्यं बाणासनं करे दधती ।
ध्येया माया शबरी शत्रुभयं तर्तुकामेन ॥ २७॥

ठङ्कमपूर्वं लक्ष्म्या प्रहसन्प्रवदस्यलं तु वदनस्य ।
परितो मुनिभिर्गीतः परिग्रहो धूर्जटेर्जयति ॥ २८॥

डमरुधरो भगवानपि गायति यस्याः शुभं गुणव्रातम् ।
तस्याः शिखरिसुताया नाकृतपुण्यो भवेद्वन्दी ॥ २९॥

ढक्कादिवाद्यहस्तप्रमथसमाराधितश्रवणयुग्मा ।
शुभ्रकिरणार्धमौलेः शुद्धान्तविलासिनी जयती ॥ ३०॥

णटधात्वर्थे चतुरो नाथो यस्यास्तरङ्गिणीधारी ।
अगपुरुहूतसुता सा करोतु मे मानसे नटनम् ॥ ३१॥

तनुकान्तिविजितकनका तरणिः संसारधोरजलराशेः ।
तरुणारुणाभचरणा तनोतु मे गिरिसुता क्षेमम् । ३२॥

थस्येव यस्य नास्ति प्रारम्भो येन न द्वितीयत्वम् ।
तस्य गृणन्त्यक्षरता यस्मिन्नपि तन्महो जयति ॥ ३३॥

दरहसितद्विगुणीकृतमुखकान्तिर्जयति पुरजितः कान्ता।
नयनोन्मेषविलासो यस्याः सकलानि भुवनानि ॥ ३४॥

धरणीधरस्य दुहिता धरणीधरवासिनो वधूर्दयिता।
धरणीविटस्य भगिनी धरणीमेतामुमा पातु ॥ ३५॥

नगजे पायं पायं लावण्यसुधां त्वदीयगात्रस्य ।
नयनाञ्जलिना शूली बभूव मृत्युञ्जयो मन्ये ॥ ३६॥

पतिरुग्रदृष्टिरुग्रो युवराजोऽयं सदा मदोपेतः ।
तव राज्ञि न करुणा चेद् भुवनस्य कथं शुभं भवतु ॥ ३७॥

फलितं ममाम्ब सुकृतं कालेनैतावता न सन्देहः ।
यद् भवदीयं स्तोत्रं पवित्रमीशानि रचयामि ॥ ३८॥

बलिभिर्निपीड्यमानानबलान् पातुं गृहीतजननाय ।
बलमम्ब देहि मह्यं बलिमेतत्कल्पयामि मनः ॥ ३९॥

भवदीयस्य महेश्वरि कटाक्षनाम्नो नवस्य मेधस्य ।
प्रावृषमहमाशङ्के करुणां कल्याणतोयमुचः ॥ ४०॥

मतिरहितः स्तुवसि त्वं यं कञ्चन धनपिशाचिकाविष्टम् ।
इष्टं च नैव लभसे पश्य जगन्मातरं स्तुत्वा ॥ ४१॥

यमिनां स्मर्तुं योग्यं निगमागमवाक्यसञ्चयैर्मृग्यम् ।
मूर्तं लोचनभाग्यं पुरामरेर्जयति नीपवने ॥ ४२॥

रथचरणपाणिभगिनी दानवदमनी नमद्विपच्छमनी ।
भुवनत्रयस्य जननी विन्ध्ये धरणीधरे जयति ॥ ४३॥

ललनाजनप्रकाण्डं कलनादपरास्तबालकलकण्ठम् ।
पुरवैरिणः कलत्रं मुरवैरि समर्चितं भज रे ॥ ४४॥

वन्द्यमुमापदकमलं निन्द्यमिदं सङ्गकारणसदनम् ।
वयसि सकलेऽप्यतीते नयसि मुधा मुग्ध किं कालम् । । ४५॥

शम्बरशात्रवशात्रवकलत्रपदमित्रमहमहो धन्यः ।
भूमण्डले विशाले सदृशः पुरुषो मया कोऽन्यः । ४६॥

षड्वदनस्य सवित्री षण्णां हन्त्री मनः सपत्रानाम् ।
षड्भिर्गम्यं मार्गैर्भर्गस्य पुरन्ध्रिकास्थानम् ॥ ४७॥

सर्वत्र सङ्गमुक्तो गर्ववियुक्तः स्वतन्त्रसञ्चारः ।
निर्वर्णयन् कदा वा शर्ववधूधाम विहरामि ॥ ४८॥

हरिमुखवन्दितचरणा हरिणाङ्कमदापहास्यरजीवा ।
हरिणस्तनन्धयाक्षि हरिनायकवाहना जयति ॥ ४९॥

क्षत्रियान्तकारिणः प्रसूत्वमेव केवलं
     नाप कापि यत्कला ममापि मातृतामगात् ।
दुष्टलोकमारिणी नृसिंहशक्तिरूपिणी
     धूर्जटेर्वधूटिका धुनोतु सा मदापदम् ॥ ५०॥

॥   इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिः उमाऽक्षरमाला समाप्ता  ॥

अनुष्टुब्वृत्तम्  (१-१६) । आर्यावृत्तम् (१७-२४) ।
तूणकवृत्तम् (२५) ॥ आर्यावृत्तम्  (२६-४९) । तूणकवृत्तम् (५०) ।

Post a Comment

0 Comments