Header Ads

  • Breaking News

    माता सरस्वती (वाणीस्तुति) की स्तुति स्तोत्रम् ।।

    माता सरस्वती (वाणीस्तुति) की स्तुति स्तोत्रम् ।।

    अथ पञ्चमोऽध्यायः ।
    नारायण उवाच ।
    वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
    महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥

    गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
    तदा जगाम दुह्खार्तो रविस्थानं च पुण्यदम् ॥ २॥

    सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।
    तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥ ३॥

    सूर्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।
    उवाच स्तुहि वाग्देवीं भक्त्या च श्रुतिहेतवे ॥ ४॥

    तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः ।
    मुनिस्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५॥

    याज्ञवल्क्य उवाच ।
    कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
    गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥

    ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते ।
    प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥ ७॥

    ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।
    प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥

    लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।
    यथाऽङ्कुरं जनयति भगवान्योगमायया ॥ ९॥

    ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
    सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १०॥

    यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।
    ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११॥

    यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
    वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२॥

    हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा ।
    वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३॥

    विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च ।
    इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४॥

    यया विनाऽत्र सङ्ख्याकृत्सङ्ख्यां कर्तुं न शक्नुते ।
    काल सङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५॥

    व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
    भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६॥

    स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।
    प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः ॥ १७॥

    सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।
    बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ १८॥

    तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।
    उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥ १९॥

    स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः ।
    चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ २०॥

    यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।
    बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ २१॥

    तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ।
    ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२॥

    व्यासः पुराणसूत्रं समपृच्छद्वाल्मिकिं यदा ।
    व्यासः पुराणसूत्रश्च समपृच्छतवाल्मिकिम् ।
    मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ २३॥

    तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।
    स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ २४॥

    पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।
    त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्क्करे ॥ २५॥

    तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।
    तदा वेदविभागं च पुराणानि चकार ह ॥ २६॥

    यदा महेन्द्रे पप्रच्छ तत्वज्ञानं शिवा शिवम् ।
    क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ॥ २७॥

    पप्रच्छ शब्दशास्त्रं च महेन्द्रस्च बृहस्पतिम् ।
    दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ २८॥

    तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।
    उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २९॥

    अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।
    ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥ ३०॥

    त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।
    दैत्यैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ ३१॥

    जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।
    यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ ३२॥

    इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।
    प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३३॥

    तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् ।
    सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३४॥

    महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।
    स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ ३५॥

    इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥

    =============================================

    वास्तु विजिटिंग के लिए तथा अपनी कुण्डली दिखाकर उचित सलाह लेने के लिए हमें संपर्क करें ।।

    ==============================================

    अपनी कुण्डली मात्र - 100/- रु. में बनवाने के लिए हमें संपर्क करें ।।

    ==============================================

    किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

    =======================================

    किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

    ========================================

    संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।

    Contact to Mob :: +91 - 8690522111.
    E-Mail :: astroclassess@gmail.com

    Website :: www.astroclasses.com
    www.astroclassess.blogspot.com
    www.balajivedvidyalaya.blogspot.com
    www.facebook.com/astroclassess

    ।।। नारायण नारायण ।।।

    No comments

    Post Top Ad

    Post Bottom Ad