श्रीगणेशमानसपूजा ॥
॥ श्रीगणेशमानसपूजा ॥
श्री गणेशाय नमः ॥
गृत्समद उवाच ॥
विघ्नेशवीर्याणि विचित्रकाणि बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १॥
एवं मया प्रार्थितो विघ्नराजश्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः शम्भ्वादयो योगिमुखास्तथाऽहम् ॥ २॥
शौचादिकं ते परिकल्पयामि हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं देवं सभायां विनिवेशयामि ॥ ३॥
द्विजादिसर्वेरभिवन्दितं च शुकादिभिर्मोद-सुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं सुमण्डपं कल्प्य निवेशयामि ॥ ४॥
रत्नैः सुदीप्तैः प्रतिबिम्बितं तं पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं सङ्कल्प्य देवं विनिवेशयामि ॥ ५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज! पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६॥
ततः सुवस्त्रेण गणेशमादौ सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो मनो विलीनं कुरु ते पदाब्जे ॥ ७॥
कर्पूरकैलादि-सुवासितं तु सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन! त्वं कृपाकटाक्षेण विलोकयाशु ॥ ८॥
प्रवाल-मुक्ताफल-हारकाद्यैः सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुण्ढे ॥ ९॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाऽऽचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०॥
सुवासितं चम्पक जातिकाद्यैस्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि सर्वाङ्गमेवं तव सेवनाय ॥ ११॥
ततः सुखोष्णेन जलेन चाहमनेकतीर्थाहृतकेन ढुण्ढे ।
चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२॥
ततः पयःस्नानमचिन्त्यभाव गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामयत्वं चित्तेन दत्तं च जलस्य चैव ॥ १३॥
ततो घृतस्नानमपारवन्द्य सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ विघ्नेश मायाभ्रमं हिनिवारयाशु ॥ १५॥
सुयक्षपङ्कं स्तमथो गृहाण स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥ १६॥
ततस्तु सूक्तैर्मनसा गणेशं सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्मणस्पत्यादिकैस्तं ह्यभिषेचयामि ॥ १७॥
ततः सुवस्त्रेण तु प्रोञ्छनं वै गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे ह्याचान्तमेवं कुरु विघ्नराज ॥ १८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९॥
आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं नमोऽथ तारकसंयुतं तु ॥ २०॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्वं गृहाण भक्तोद्धृतिकारणाय ॥ २१॥
आचान्तमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥ २२॥
उद्यद्दिनेशाभमथो गृहाण सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३॥
सहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४॥
विचित्ररत्नैः कनकेन ढुण्ढे युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५॥
शुण्डाविभूषार्थमनन्तखेलिन् सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया, यद्दत्तं प्रभो
तत्सफलङ्कुरुष्व ॥ २६॥
सुवर्णरत्नैश्च युतानि ढुण्ढे सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश दत्तानि दन्तस्य च शोभनार्थम् ॥ २७॥
रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८॥
विचित्ररत्नैः खचितं सुवर्णसम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलीष्वाङ्गुलिकं गणेश चित्तेन् संशोभय तत्परेश ॥ २९॥
विचित्ररत्नैः खचितानि ढुण्ढे केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रथमाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०॥
प्रवाल-मुक्ताफल-रत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला ऊरूदरे सोभय विघ्नराज ॥ ३१॥
चन्द्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२॥
चिन्तामणिं चिन्तितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३॥
नाभौ फणीशं च सहस्रशीर्षं संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४॥
कटीतटे रत्नसुवर्णयुक्तां काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५॥
हेरम्ब ते रत्नसुवर्णयुक्ते सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ ३६॥
इत्यादि-नानाविध-भूषणानि तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदङ्केषु विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७॥
सुचन्दनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धैरङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव भाले ॥ ३९॥
घृतेन वै कुङ्कुमकेन रक्तान् सुतण्डुलांस्ते परिकल्पयामि ।
भाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४०॥
गृहाण भो चम्पकमालतीनि जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकादि पुष्पाणि नानाविधवृक्षजानि ॥ ४१॥
पुष्पोपरि त्वं मनसा गृहाण हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२॥
दूर्वाङ्कुरान् वै मनसा प्रदत्तांस्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं हीनाश्च सर्वोपरि वक्रतुण्ड ॥ ४३॥
दशाङ्गभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४॥
दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-तैलादि-सम्भूतममोघदृष्टे ॥ ४५॥
भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविध-षड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ ४६॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७॥
ततः करोद्वर्तनकं गृहाण सौगन्ध्युक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८॥
पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते सम्प्रोञ्छनं हस्तमुखेकरोमि ॥ ४९॥
द्राक्षादि-रम्भाफल-चूतकानि खार्जूर-कार्कन्धुक-दाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०॥
पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१॥
अष्टाङ्गयुक्तं गणनाथ दत्तं ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुण्डविशोधनार्थम् ॥ ५२॥
ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्त-वस्त्रैरनर्घ्य-सञ्छादितके प्रसीद ॥ ५३॥
ततस्त्वदीयावरणं परेश सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४॥
गृहाण लम्बोदर दक्षिणां ते ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्ण-मुद्रादिक-मुख्यभावां, पाहि प्रभो विश्वमिदं गणेश ॥। ५५॥
राजोपचारान् विविधान् गृहाण हस्त्यश्व-छत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे ह्यपारसख्यान् स्थिरजङ्गमांस्ते ॥ ५६॥
दानाय नानाविधरूपकांस्ते गृहाण दत्तान् मनसा मया वै ।
पदार्थभूतान् स्थिर-जङ्गमांश्च हेरम्ब मां तारय मोहभावात् ॥ ५७॥
मन्दारपुष्पाणि शमीदलानि दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८॥
ततो हरिद्रामबिरं गुलालं सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर-शोभनार्थम् ॥ ५९॥
ततः शुकाद्याः शिव-विष्णुमुख्या इन्द्रादयः शेषमुखास्तथाऽन्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०॥
वामाङ्गके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धि भिस्तम् ।
अत्यन्तभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१॥
गणेश्वर दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेशा मायासु साङ्ख्यप्रदचित्तरूपा ॥ ६२॥
प्रमोदमोदादयः पृष्ठभागे गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः शुकादयस्तं स्म पुरो भजन्ते ॥ ६३॥
गन्धर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् ।
नृत्यङ्कलायुक्तमथो पुरस्ताच्चक्रुस्तथा ह्यसरसो विचित्रम् ॥ ६४॥
इत्यादि-नानाविध-भावयुक्तैः संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५॥
चतुर्भुजं पाशधरं गणेशं तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं महोदरं चैकरदं गजास्यम् ॥ ६६॥
सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्यम् ।
ध्याये गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ ६७॥
ततो जपं वै मनसा करोमि स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराजहस्ते समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८॥
आरार्तिका कर्पुरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण ह्यज्ञानध्वान्तौघहरां निजानाम् ॥ ६९॥
वेदेषु वैघ्नैश्वरकैः सुमन्त्रैः सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तीन मया प्रदत्तमपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०॥
अपारवृत्या स्तुतिमेकदन्तं गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ ७१॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२॥
नतिं ततो विघ्नपते गृहाण साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३॥
न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान विघ्नपते प्रदत्तान् सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४॥
क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५॥
ततः प्रसन्नेन गजानेन दत्तं प्रसादं शिरसाऽभिवन्द्य ।
स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६॥
उत्थाय विघ्नेश्वर एव तस्माद्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिन्तयामि ॥ ७७॥
सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥ ७९॥
गणेशपादोदकपानकं च उच्छिष्टगन्धस्य सुलेपन तु ।
निर्माल्य-सन्धारणकं सुभोज्यं लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०॥
यं यं करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तवपादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१॥
ततस्तु शय्यां परिकल्पयामि मन्दार-कूर्पासक-वस्त्रयुक्ताम् ।
सुवास-पुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२॥
सिद्ध्या च बुद्ध्या सहितं गणेश सुनिद्रितं वीक्ष्य तथाऽहमेव ।
गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३॥
एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो भवामि भक्त्यमृतलालसोऽहम् ॥ ८४॥
गार्ग्य उवाच ॥
एवं नित्यं महाराज गृत्समादो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५॥
य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७॥
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८॥
इति श्रीमदान्त्ये मुद्गलपुराणे गणेशमानसपूजा समाप्ता ॥

No comments