Header Ads

  • Breaking News

    अथ श्रीगणेशपञ्चचामरस्तोत्रम् ।। Astro Classes, Silvassa.

    अथ श्रीगणेशपञ्चचामरस्तोत्रम् ।। Astro Classes, Silvassa.

    श्रीगणेशाय नमः ।।

    ललाट-पट्टलुण्ठितामलेन्दु-रोचिरुद्भटे, वृताति-वर्चरस्वरोत्सररत्किरीट-तेजसि ।
    फटाफटत्फटत्स्फुरत्फणाभयेन भोगिनां, शिवाङ्कतः शिवाङ्कमाश्रयच्छिशौ रतिर्मम ॥ १॥

    अदभ्र-विभ्रम-भ्रमद्-भुजाभुजङ्गफूत्कृती- र्निजाङ्कमानिनीषतो निशम्य नन्दिनः पितुः ।
    त्रसत्सुसङ्कुचन्तमम्बिका-कुचान्तरं यथा, विशन्तमद्य बालचन्द्रभालबालकं भजे ॥ २॥

    विनादिनन्दिने सविभ्रमं पराभ्रमन्मुख- स्वमातृवेणिमागतां स्तनं निरीक्ष्य सम्भ्रमात् ।
    भुजङ्ग-शङ्कया परेत्यपित्र्यमङ्कमागतं, ततोऽपि शेषफूत्कृतैः कृतातिचीत्कृतं नमः ॥ ३॥

    विजृम्भमाणनन्दि-घोरघोण-घुर्घुरध्वनि- प्रहास-भासिताशमम्बिका-समृद्धि-वर्धिनम् ।
    उदित्वर-प्रसृत्वर-क्षरत्तर-प्रभाभर- प्रभातभानु-भास्वरं भवस्वसम्भवं भजे ॥ ४॥

    अलङ्गृहीत-चामरामरी जनातिवीजन- प्रवातलोलि-तालकं नवेन्दुभालबालकम् ।
    विलोलदुल्ललल्ललाम-शुण्डदण्ड-मण्डितं, सतुण्ड-मुण्डमालि-वक्रतुण्डमीड्यमाश्रये ॥ ५॥

    प्रफुल्ल-मौलिमाल्य-मल्लिकामरन्द-लेलिहा, मिलन् निलिन्द-मण्डलीच्छलेन यं स्तवीत्यमम् ।
    त्रयीसमस्तवर्णमालिका शरीरिणीव तं, सुतं महेशितुर्मतङ्गजाननं भजाम्यहम् ॥ ६॥

    प्रचण्ड-विघ्न-खण्डनैः प्रबोधने सदोद्धुरः , समर्द्धि-सिद्धिसाधनाविधा-विधानबन्धुरः ।
    सबन्धुरस्तु मे विभूतये विभूतिपाण्डुरः , पुरस्सरः सुरावलेर्मुखानुकारिसिन्धुरः ॥ ७॥

    अराल-शैलबालिका-ऽलकान्तकान्त-चन्द्रमो- जकान्तिसौध-माधयन् मनोऽनुराधयन् गुरोः ।
    सुसाध्य-साधवं धियां धनानि साधयन्नय- नशेषलेखनायको विनायको मुदेऽस्तु नः ॥ ८॥

    रसाङ्गयुङ्ग-नवेन्दु-वत्सरे शुभे गणेशितु- स्तिथौ गणेशपञ्चचामरं व्यधादुमापतिः ।
    पतिः कविव्रजस्य यः पठेत् प्रतिप्रभातकं ,  स पूर्णकामनो भवेदिभानन-प्रसादभाक् ॥ ९॥

    छात्रत्वे वसता काश्यां विहितेयं यतः स्तुतिः ।
    ततश्छात्रैरधीतेयं वैदुष्यं वर्द्धयेद्धिया ॥ १०॥

    ।। इति श्रीकविपत्युपनामक-उमापतिशर्मद्विवेदि-विरचितं गणेशपञ्चचामरस्तोत्रं सम्पूर्णम् ।।

    No comments

    Post Top Ad

    Post Bottom Ad